उत्तर प्रदेश संस्कृत संस्थानम्, लखनऊ
upsanskritpratibhakhoj@gmail.com
उत्तर प्रदेश संस्कृत संस्थानम्
For Technical Support
+91 7268079785
Time: 10:00 AM to 6:00 PM
  • प्रतियोगिता के बारे में
    • सूचना 2026
    • प्रतियोगिता का सामान्य नियम
    • एकल संस्कृत गीत प्रतियोगिता
    • संस्कृत सामान्य ज्ञान प्रतियोगिता (बाल एवं युवा वर्ग)
    • श्लोकान्त्याक्षरी प्रतियोगिता
    • संस्कृत भाषण प्रतियोगिता
    • श्रुतलेखन प्रतियोगिता
    • अष्टाध्यायी कंठस्थपाठ प्रतियोगिता
    • अमरकोश कंठस्थपाठ प्रतियोगिता
    • लघुसिद्धान्तकौमुदी कंठस्थपाठ प्रतियोगिता
    • तर्कसंग्रह कंठस्थपाठ प्रतियोगिता
    • संस्कृत अभिनय प्रतियोगिता
  • आवेदन
    • आवेदन करें
    • ऑनलाइन आवेदन कैसे करें
    • मोबाइल से ऑनलाइन आवेदन कैसे करें
    • कम्प्यूटर / लैपटॉप से ऑनलाइन आवेदन कैसे करें
    • आवेदन फॉर्म पुनः प्रिन्ट करें
  • अध्ययन सामग्री
    • अध्ययन सामग्री
    • मार्गदर्शन
    • अर्हता परीक्षा
    • श्लोकान्त्याक्षरी खेलें
    • श्लोकसंधानम्
    • डाउनलोड
  • यात्रा विवरण
    • राज्य प्रतियोगिता यात्रा विवरण
  • परिणाम
    • जनपद स्तरीय परिणाम
    • मंडल स्तरीय परिणाम
    • राज्य स्तरीय परिणाम
  • भुगतान की स्थिति
    • जनपद स्तरीय प्रतियोगिता भुगतान की स्थिति
    • मंडल स्तरीय प्रतियोगिता भुगतान की स्थिति
    • राज्य स्तरीय प्रतियोगिता भुगतान की स्थिति
    • पुनः भुगतान
  • आर्काइव
    • 2023
    • 2024
  • शिकायत / सुझाव
  • प्रतियोगिता स्थल
    • जनपद प्रतियोगिता स्थल, तिथि
    • मंडल प्रतियोगिता स्थल, तिथि
  • संपर्क करें
    • हमसे संपर्क करें
    • हमसे जुड़िये
    • सोशल मीडिया
  1. Home
  2. Portal
  3. tarksangrah

तर्कसंग्रहः

 

निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् ।

बालानां सुखबोधाय क्रियते तर्कसंग्रहः ॥

द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः सप्तपदार्थाः ।

तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव ।

रूप-रस-गन्ध-स्पर्श-संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्वापरत्व-गुरुत्व-द्रवत्व-स्नेह-शब्द-बुद्धि-सुखदुःखेच्छा-द्वेष-प्रयत्न-धर्माधर्म-संस्काराश्चतुर्विंशतिर्गुणाः ।

उत्क्षेपणापक्षेपणाकुञ्चन-प्रसारण-गमनानि पञ्च कर्माणि ।

परमपरं चेति द्विविधं सामान्यम् ।

नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव ।

समवायस्त्वेक एव ।

अभावश्चतुर्विधः प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्याभावश्चेति ।

इत्युद्देशः ।

तत्र गन्धवती पृथिवी । सा द्विविधा, नित्याऽनित्या च । नित्या परमाणुरूपा । अनित्या कार्यरूपा । पुनस्त्रिविधा, शरीरेन्द्रियविषयभेदात् । शरीरमस्मदादीनाम् । इन्द्रियं गन्धग्राहकं घ्राणम् नासाग्रवर्ति । विषयो मृत्पाषाणादिः ।

शीतस्पर्शवत्य आपः । ताश्च द्विविधाः नित्या अनित्याश्च । नित्याः परमाणुरूपाः । अनित्याः कार्यरूपाः । पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति । विषयः सरित्समुद्रादिः ॥ १०॥

उष्णस्पर्शवत्तेजः । तच्च द्विविधं नित्यमनित्यं च । नित्यं परमाणुरूपम् । अनित्यं कार्यरूपम् । पुनस्त्रिविधं शरीरेन्द्रियविषयभेदात् । शरीरमादित्यलोके प्रसिद्धम् । इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति । विषयश्चतुर्विधः भौमदिव्यौदर्याकरजभेदात् । भौमं वह्न्यादिकम् । अबिन्धनं दिव्यं विद्युदादि । भुक्तस्य परिणामहेतुरौदर्यम् । आकरजं सुवर्णादि ।

 

रूपरहितः स्पर्शवान् वायुः । स द्विविधः नित्योऽनित्यश्च । नित्यः परमाणुरूपः । अनित्यः कार्यरूपः । पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात् । शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं त्वक्सर्वशरीरवर्ति । विषयो वृक्षादिकम्पनहेतुः । शरीरान्तः संचारी वायुः प्राणः । स चैकोऽप्युपाधिभेदात्प्राणापानादिसंज्ञां लभते ।

शब्दगुणकमाकाशम् । तच्चैकं विभु नित्यञ्च ।

अतीतादिव्यवहारहेतुः कालः । स चैको विभुर्नित्यश्च ।

प्राच्यादिव्यवहारहेतुर्दिक् । सा चैका विभ्वी नित्या च ॥ १६॥

ज्ञानाधिकरणमात्मा । स द्विविधः जीवात्मा परमात्मा च । तत्रेश्वरः सर्वज्ञः परमात्मैक एव । जीवात्मा प्रतिशरीरं भिन्नो विभुर्नित्यश्च ।

सुखाद्युपलब्धिसाधनमिन्द्रियं मनः । तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च ।

चक्षुर्मात्रग्राह्यो गुणो रूपम् । तच्च शुक्ल-नील-पीत-रक्त-हरित-कपिश-चित्रभेदात्सप्तविधम् । पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् । अभास्वरशुक्लं जले । भास्वरशुक्लं तेजसि ।

रसनाग्राह्यो गुणो रसः । स च मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधः । पृथिवीजलवृत्तिः । तत्र पृथिव्यां षड्विधः। जले मधुर एव ।

घ्राणग्राह्यो गुणो गन्धः । स द्विविधः सुरभिरसुरभिश्च । पृथिवीमात्रवृत्तिः ।

त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः । स च त्रिविधः, शीतोष्णानुष्णाशीतभेदात् । पृथिव्यप्तेजोवायुवृत्तिः ।

तत्र शीतो जले । उष्णस्तेजसि । अनुष्णाशीतः पृथिवीवाय्वोः ।

रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च । अन्यत्रापाकजं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् ।

एकत्वादिव्यवहारहेतुः संख्या । सा नवद्रव्यवृत्तिः एकत्वादिपरार्धपर्यन्ता । एकत्वं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् । द्वित्वादिकं तु सर्वत्रानित्यमेव ॥ २४॥

 

मानव्यवहारासाधारणकारणं परिमाणम् । नवद्रव्यवृत्ति । तच्चतुर्विधम् । अणु महद्दीर्घं हृस्वं चेति ।

पृथग्व्यवहारासाधारणकारणं पृथक्त्वम् । सर्वद्रव्यवृत्तिः ।

संयुक्तव्यवहारहेतुः संयोगः । सर्वद्रव्यवृत्तिः ।

संयोगनाशको गुणो विभागः । सर्वद्रव्यवृत्तिः ।

परापरव्यवहारासाधारणकारणे परत्वापरत्वे । पृथिव्यादिचतुष्टयमनोवृत्तिनी । ते द्विविधे । दिक्कृते कालकृते च ।

दूरस्थे दिक्कृतं परत्वम् । समीपस्थे दिक्कृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वम् । कनिष्ठे कालकृतमपरत्वम् ।

आद्यपतनासमवायिकारणं गुरुत्वम् । पृथिवीजलवृत्ति ।

आद्यस्यन्दनासमवायिकारणं द्रवत्वम् । पृथिव्यप्तेजोवृत्ति । तद्द्विविधं सांसिद्धिकं नैमित्तिकं च ।

सांसिद्धिकं जले । नैमित्तिकं पृथिवीतेजसोः । पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम् । तेजसि सुवर्णादौ ।

चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः ।

श्रोत्रग्राह्यो गुणः शब्दः । आकाशमात्रवृत्तिः । स द्विविधः। ध्वन्यात्मको वर्णात्मकश्च । तत्र ध्वन्यात्मकः भेर्यादौ । वर्णात्मकः संस्कृतभाषादिरूपः ॥ ३३॥

सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् । सा द्विविधा स्मृतिरनुभवश्च ।

संस्कारमात्रजन्यं ज्ञानं स्मृतिः ।

तद्भिन्नं ज्ञानमनुभवः । स द्विविधः यथार्थोऽयथार्थश्च । तद्वति तत्प्रकारकोऽनुभवो यथार्थः । यथा रजते इदं रजतमिति ज्ञानम् । सैव प्रमेत्युच्यते ।

तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः । यथा शुक्ताविदं रजतमिति ज्ञानम् । सैवाप्रमेत्युच्यते ।

यथार्थनुभवश्चतुर्विधः। प्रत्यक्षानुमित्युपमितिशाब्दभेदात् । तत्करणमपि चतुर्विधम् । प्रत्यक्षानुमानोपमानशाब्दभेदात् ।

 

असाधारणं कारणं करणम् ।

कार्यनियतपूर्ववृत्ति कारणम् ।

कार्यं प्रागभावप्रतियोगि ।

कारणं त्रिविधम् । समवाय्यसमवायिनिमित्तभेदात् ।

यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । यथा तन्तवः पटस्य । पटश्च स्वगतरूपादेः ।

कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत् कारणमसमवायिकारणम् । यथा तन्तुसंयोगः पटस्य, तन्तुरूपं पटरूपस्य ।

तदुभयभिन्नं कारणं निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य । तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् ।

 

प्रत्यक्षपरिच्छेदः

तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् ।

इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । (ज्ञानाकरणकं ज्ञानं प्रत्यक्षम्)

तद्द्विविधं निर्विकल्पकं सविकल्पकं चेति ।

तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम् यथेदं किञ्चित् ।

सप्रकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयं ब्राह्मणोऽयं श्यामोऽयमिति ।

 

प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः ।

संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायः विशेषणविशेष्यभावश्चेति ।

चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः ।

घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः ।

चक्षुः संयुक्ते घटे रूपस्य समवायात् ।

रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः ।

चक्षुः संयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात् ।

श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः ।

कर्णविवरवर्त्याकाशस्य श्रोत्रत्वात् शब्दस्याकाशगुणत्वाद्गुणगुणिनोश्च समवायात् ।

शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् ।

अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः घटाभाववद्भूतलमित्यत्र चक्षुः संयुक्ते भूतले घटाभावस्य विशेषणत्वात् ।

एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षं, तत्करणमिन्द्रियंतस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् ॥ ३९॥

इति प्रत्यक्षपरिच्छेदः समाप्तः

 

अथ अनुमानपरिच्छेदः

अनुमितिकरणमनुमानम् ।

परामर्शजन्यं ज्ञानमनुमितिः ।

व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः । यथा वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानं परामर्शः । तज्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः ।

यत्र यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो व्याप्तिः ।

व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ॥ ४०॥

 

अनुमानं द्विविधं - स्वार्थं परार्थं च ।

तत्र स्वार्थं स्वानुमितिहेतुः । तथाहि स्वयमेव भूयोदर्शनेन यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतः तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्ति स्मरति- यत्र यत्र धूमस्तत्र तत्राग्निरिति । तदनन्तरं वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानमुत्पद्यते । अयमेव लिङ्गपरामर्श इत्युच्यते । तस्मात्पर्वतो वह्निमानिति ज्ञानमनुमितिः उत्पद्यते । तदेतत्स्वार्थानुमानम् ।

यत्तु स्वयं धूमाग्निमनुमाय परं प्रतिबोधयितुं पञ्चावयव-वाक्यं प्रयुज्यते तत्परार्थानुमानम् । यथा पर्वतो वह्निमान् धूमवत्वात्, यो यो धूमवान् स वह्निमान् यथा महानसः तथा चायं तस्मात्तथेति । अनेन प्रतिपादिताल्लिङ्गात्परोऽप्यग्निं प्रतिपद्यते ॥ ४१॥

 

प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः । पर्वतो वह्निमानिति प्रतिज्ञा । धूमवत्वादिति हेतुः । यो यो धूमवान् स वह्निमान्यथा महानस इत्युदाहरणम् । तथा चायमित्युपनयः । तस्मात्तथेति निगमनम् ॥ ४२॥

 

स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणम् । तस्माल्लिङ्गपरामर्शोऽनुमानम् ॥ ४३॥

 

लिङ्गं त्रिविधम् । अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि । यथा वह्नौ साध्ये धूमवत्त्वम् । यत्र धूमस्तत्राग्निर्यथा महानस इत्यन्वयव्याप्तिः । यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाहृद इति व्यप्तिरेकव्याप्तिः ।

अन्वयमात्रव्याप्तिकं केवलान्वयि । यथा घटोऽभिधेयः प्रमेयत्वात्पटवत् । अत्र प्रमेयत्वाभिधेयत्वयोः व्यतिरेकव्याप्तिर्नास्ति । सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च ।

 

व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि । यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्, यदितरेभ्यो न भिद्यते न तद्गन्धवद्यथा जलम् । न चेयं तथा । तस्मान्न तथेति । अत्र यद्गन्धवत् तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति । पृथिवीमात्रस्य पक्षत्वात् ॥ ४४॥

 

सन्दिग्धसाध्यवान्पक्षः । यथा धूमवत्त्वे हेतौ पर्वतः ।

निश्चितसाध्यवान्सपक्षः । यथा तत्रैव महानसम् ।

निश्चितसाध्याऽभाववान् विपक्षः । यथा तत्रैव महाह्रदः ॥ ४५॥

 

सव्यभिचारविरुद्धसत्प्रतिपक्षाऽसिद्धबाधिताः पञ्च हेत्वाभासाः ।

सव्यभिचारोऽनैकान्तिकः । स त्रिविधः साधारणासाधारणानुपसंहारिभेदात् ।

तत्र साध्याभाववद्वृत्तिः साधारणोऽनैकान्तिकः । यथा- पर्वतो वह्निमान्प्रमेयत्वादिति । प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात् ।

सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारणः । यथा शब्दो नित्यः शब्दत्वादिति । शब्दत्वं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्तिः ।

अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी । यथा सर्वमनित्यं प्रमेयत्वादिति । अत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तो नास्ति ।

साध्याभावव्याप्तो हेतुर्विरुद्धः । यथा शब्दो नित्यः कृतकत्वादिति । कृतकत्वं हि नित्यत्वाभावेनाऽनित्यत्वेन व्याप्तम् ।

यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः । यथा शब्दो नित्यः श्रावणत्वाच्छब्दत्ववत् । शब्दोऽनित्यः कार्यत्वाद्घटवत् ।

असिद्धस्त्रिविधः आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति ।

आश्रयासिद्धो यथा गगनारविन्दं सुरभि अरविन्दत्वात्सरोजारविन्दवत् । अत्र गगनारविन्दमाश्रयः स च नास्त्येव ।

स्वरूपासिद्धो यथा शब्दो गुणश्चाक्षुषत्वात् रूपवत्। अत्र चाक्षुषत्वं शब्दे नास्ति शब्दस्य श्रावणत्वात् ।

सोपाधिको हेतुः व्याप्यत्वासिद्धः । साध्यव्यापकत्वे सति साधनाऽव्यापकत्वमुपाधिः । साध्यसमानाधिकरणाऽत्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम् । साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम् । पर्वतो धूमवान् वह्निमत्वात् इत्यत्रार्द्रेन्धनसंयोग उपाधिः । तथाहि । यत्र धूमस्तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकता ।

यत्र वह्निस्तत्रार्द्रेन्धनसंयोगो नास्त्ययोगोलके आर्द्रेन्धनसंयोगाभावादिति साधनाव्यापकता । एवं साध्यव्यापकत्वे अस्ति साधनाव्यापकत्वार्द्रेन्धनसंयोग उपाधिः । सोपाधिकत्वाद्वह्निमत्त्वं व्याप्यत्वासिद्धम् ।

 

यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः । यथा वह्निरनुष्णो द्रव्यत्वाज्जलवत् । अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं स्पार्शनप्रत्यक्षेण गृह्यते इति बाधितत्वम् ॥ ४६॥

 

॥ उपमानपरिच्छेदः ॥

उपमितिकरणमुपमानम् । संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः । तत्करणं सादृश्यज्ञानम् । अतिदेशवाक्यार्थस्मरणमवान्तर व्यापारः । तथा हि कश्चिद्गवयशब्दार्थमजानन् कुतश्चिदारण्यकपुरुषाद् गोसदृशो गवय इति श्रुत्वा वन गतो वाक्यार्थं स्मरन् गोसदृशं पिण्डं पश्यति । तदनन्तरमसौ गवयशब्दवाच्य इत्युपमितिरुत्पद्यते ॥ ४७॥

॥ शब्दपरिच्छेदः ॥

आप्तवाक्यं शब्दः ।  आप्तस्तु यथार्थवक्ता । वाक्यं पदसमूहः । यथा गामानयेति । शक्तं पदम् । अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसंकेतः शक्तिः ॥ ४८॥

आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञानहेतुः । पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षा । अर्थाबाधो योग्यता । पदानामविलम्बेनोच्चारणं सन्निधिः ॥ ४९॥

आकाङ्क्षादिरहितं वाक्यमप्रमाणम् । यथा गौरश्वः पुरुषो हस्तीति न प्रमाणम्, आकाङ्क्षाविरहात् । वह्निना सिञ्चतीति न प्रमाणं योग्यताविरहात् । प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं, सान्निध्याऽभावात् ॥ ५०॥

वाक्यं द्विविधम् । वैदिकं लौकिकं च । वैदिकमीश्वरोक्तत्वात्सर्वमेव प्रमाणम् । लौकिकं त्वाप्तोक्तं प्रमाणम् । अन्यदप्रमाणम् ॥ ५१॥

वाक्यार्थज्ञानं  शब्दज्ञानम् । तत्करणं शब्दः ॥ ५२॥

अयथार्थानुभवस्त्रिविधः। संशयविपर्ययतर्कभेदात् ।

एकस्मिन् धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहि ज्ञानं संशयः । यथा स्थाणुर्वा पुरुषो वेति ।

मिथ्याज्ञानं विपर्ययः । यथा शुक्तौ इदं रजतमिति ।

व्याप्यारोपेण व्यापकारोपस्तर्कः । यथा यदि वह्निर्न स्यात्तर्हि धूमोऽपि न स्यादिति ।

स्मृतिरपि द्विविधा । यथार्थायथार्था च । प्रमाजन्या यथार्था । अप्रमाजन्याऽयथार्था ।

सर्वेषामनुकूलवेदनीयं सुखम् ।

सर्वेषां प्रतिकूलवेदनीयं दुःखम् ।

इच्छा कामः । क्रोधो द्वेषः । कृतिः प्रयत्नः ।

विहितकर्मजन्यो धर्मः ।

निषिद्धकर्मजन्यस्त्वधर्मः ।

बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः । बुद्धीच्छा प्रयत्ना द्विविधाः । नित्या अनित्याश्च । नित्या ईश्वरस्य अनित्या जीवस्य ।

संस्कारस्त्रिविधः । वेगो भावना स्थितिस्थापकश्चेति । वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः । अनुभवजन्या स्मृतिहेतुर्भावना । आत्ममात्रवृत्तिः । अन्यथाकृतस्य पुनस्तदवस्थापकः स्थितिस्थापकः कटादिपृथिवीवृत्तिः ॥

चलनात्मकं कर्म । ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् । अधोदेशसंयोगहेतुरपक्षेपणम् । शरीरसंनिकृष्टसंयोगहेतुराकुञ्चनम् । विप्रकृष्टसंयोगहेतुः प्रसारणम् । अन्यत्सर्वं गमनम् । पृथिव्यादिचतुष्टयमनोमात्रवृत्तिः ॥ ६५॥

नित्यमेकमनेकानुगतं सामान्यं द्रव्यगुणकर्मवृत्ति । तद्द्विविधं पराऽपरभेदात् । परं सत्ता । अपरं द्रव्यत्वादिः ॥ ६६॥

नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः ॥ ६७॥

नित्यसम्बन्धः समवायः । अयुतसिद्धवृत्तिः । ययोर्द्वयोर्मध्ये एकमविनश्यदपराऽश्रितमेवावतिष्ठते तावयुतसिद्धौ। यथा अवयवाऽवयविनौ, क्रियाक्रियावन्तौ, जातिव्यक्ती विशेषनित्यद्रव्ये चेति ॥ ६८॥

अनादिः सान्तः प्रागभावः । उत्पत्तेः पूर्वं कार्यस्य ।

सादिरनन्तः प्रध्वंसः । उत्पत्यनन्तरं कार्यस्य ।

त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः । यथा भूतले घटो नास्तीति ।

तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः । यथा घटः पटो नेति ॥ ६९॥

सर्वेषां पदार्थानां यथायथमुक्तेष्वन्तर्भावात्सप्तैव पदार्था इति सिद्धम् ॥ ७०॥

कणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये ।

अन्नंभट्टेन विदुषा रचितस्तर्कसंग्रहः ॥

 

इति श्रीमहामहोपाध्याय अन्नंभट्टविरचिततर्कसंग्रहः समाप्तः ॥

FAQs
  • प्रतियोगिता से सम्बन्धित प्रश्न
  • आवेदन से सम्बन्धित प्रश्न
  • अर्हता परीक्षा से सम्बन्धित प्रश्न
  • पुरस्कार तथा यात्रा व्यय से सम्बन्धित प्रश्न
  • वेब पोर्टल से सम्बन्धित प्रश्न
Total Visitors


Last Updates :
कार्यालय सम्पर्क

उत्तर प्रदेश संस्कृत संस्थानम्
संस्कृत भवनम्, न्यू-हैदराबाद,
लखनऊ - 226007
Mob: +91 8979041381
Email: upsanskritpratibhakhoj@gmail.com

© Uttar Pradesh Sanskrit Sansthan | All Rights Reserved