उत्तर प्रदेश संस्कृत संस्थानम्, लखनऊ
upsanskritpratibhakhoj@gmail.com
उत्तर प्रदेश संस्कृत संस्थानम्
For Technical Support
+91 7268079785
Time: 10:00 AM to 6:00 PM
  • प्रतियोगिता के बारे में
    • सूचना 2026
    • प्रतियोगिता का सामान्य नियम
    • एकल संस्कृत गीत प्रतियोगिता
    • संस्कृत सामान्य ज्ञान प्रतियोगिता (बाल एवं युवा वर्ग)
    • श्लोकान्त्याक्षरी प्रतियोगिता
    • संस्कृत भाषण प्रतियोगिता
    • श्रुतलेखन प्रतियोगिता
    • अष्टाध्यायी कंठस्थपाठ प्रतियोगिता
    • अमरकोश कंठस्थपाठ प्रतियोगिता
    • लघुसिद्धान्तकौमुदी कंठस्थपाठ प्रतियोगिता
    • तर्कसंग्रह कंठस्थपाठ प्रतियोगिता
    • संस्कृत अभिनय प्रतियोगिता
  • आवेदन
    • आवेदन करें
    • ऑनलाइन आवेदन कैसे करें
    • मोबाइल से ऑनलाइन आवेदन कैसे करें
    • कम्प्यूटर / लैपटॉप से ऑनलाइन आवेदन कैसे करें
    • आवेदन फॉर्म पुनः प्रिन्ट करें
  • अध्ययन सामग्री
    • अध्ययन सामग्री
    • मार्गदर्शन
    • अर्हता परीक्षा
    • श्लोकान्त्याक्षरी खेलें
    • श्लोकसंधानम्
    • डाउनलोड
  • यात्रा विवरण
    • राज्य प्रतियोगिता यात्रा विवरण
  • परिणाम
    • जनपद स्तरीय परिणाम
    • मंडल स्तरीय परिणाम
    • राज्य स्तरीय परिणाम
  • भुगतान की स्थिति
    • जनपद स्तरीय प्रतियोगिता भुगतान की स्थिति
    • मंडल स्तरीय प्रतियोगिता भुगतान की स्थिति
    • राज्य स्तरीय प्रतियोगिता भुगतान की स्थिति
    • पुनः भुगतान
  • आर्काइव
    • 2023
    • 2024
  • शिकायत / सुझाव
  • प्रतियोगिता स्थल
    • जनपद प्रतियोगिता स्थल, तिथि
    • मंडल प्रतियोगिता स्थल, तिथि
  • संपर्क करें
    • हमसे संपर्क करें
    • हमसे जुड़िये
    • सोशल मीडिया
  1. Home
  2. Portal
  3. laghusiddhantakaumudi

उत्तर प्रदेश संस्कृत संस्थान, लखनऊ

(भाषा विभाग उत्तर प्रदेश शासन के अधीन)

नया हैदराबाद, लखनऊ - 226007

संस्कृत प्रतिभा खोज की लघुसिद्धान्तकौमुदी कण्ठस्थपाठ प्रतियोगिता हेतु अध्ययन सामग्री

https://upsanskritpratibhakhoj.com/

 

लघुसिद्धान्तकौमुदी

 

नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहम्।

पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम् ।।

 

अथ संज्ञाप्रकरणम्

अइउण्।१। ऋलृक्।२। एओङ्।३। ऐऔच्।४। हयवरट्।५। लण्।६। ञमङणम् ।७। झभञ्।८। घढधष् ।९। जबगडदश्।१०। खफछठथचटतव्।११। कपय् ।१२।शषसर्।१३। हल्।१४।।

इति माहेश्वराणि सूत्राण्यणादिसंज्ञार्थानि। एषामन्त्या इतः हकारादिष्वकार उच्चारणार्थः।लण्-मध्ये त्वित्संज्ञकः।।

हलन्त्यम्।१। ३। ३।

उपदेशेऽन्त्यं हलित्स्यात्। उपदेश आद्योच्चारणम्। सूत्रेष्वष्टंपदं सूत्रान्तरादनुवर्तनीयं सर्वत्र ।।

अदर्शनं लोपः।१।१।६०।

प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात्।

तस्य लोपः।१।३।९।

तस्येतो लोपः स्यात्। णादयोऽणाद्यर्थाः।

आदिरन्त्येन सहेता।१।१।७१।

अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च संज्ञा स्यात्। यथाऽणिति अइउवर्णानां संज्ञा। एवमच्हलित्यादयः।

ऊकालोऽज्झ्रस्वदीर्घप्लुतः।१।२।२७।

उश्च ऊश्च ऊ३श्च वः,वां काल इव कालो यस्य सोऽच् क्रमाद् ह्रस्वदीर्घप्लुप्तसंज्ञः स्यात्। सप्रत्येकमुदात्तादिभेदेन त्रिधा।

उच्चैरुदात्तः।१।२।२९।

नीचैरनुदात्तः।१।२।३०।

समाहारः स्वरितः।१।२।३१।

स नवविधोऽपि प्रत्येकमनुनासिकत्वाननुनासिकत्वाभ्यां द्विधा ।।

मुखनासिकावचनोऽनुनासिकः।१।१।८।

मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात्।तदित्थम्। अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः। लृवर्णस्य द्वादश तस्य दीर्घाभावात्। एचामपि द्वादश तेषां ह्रस्वाभावात्।।

तुल्यास्यप्रयत्नं सवर्णम्।१।१।९।

ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात्। (ऋलृवर्णयोर्मिथः सावर्ण्यं वाच्यम् ) ।अकुहविसर्जनीयानां कण्ठः। इचुयशानां तालु। ऋटुरषाणांमूर्धा। लृतुलसानां दन्ताः।उपूपध्मानीयानामोष्ठौ। ञमङ्णनानांनासिका च। एदैतोः कण्ठतालु। ओदौतोः कण्ठोष्ठम्। वकारस्यदन्तोष्ठम्। जिह्वामूलीयस्य जिह्वामूलम्। नासिकाऽनुस्वारस्य।यत्नो द्विधा - आभ्यन्तरो बाह्यश्च । आद्यः पञ्चधा- स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृतभेदात्। तत्र स्पृष्टं प्रयत्नं स्पर्शानाम्। ईषत्स्पृष्टमन्तःस्थानाम्। ईषद्विवृतमूष्मणाम्। विवृतं स्वराणाम्। ह्रस्वस्यावर्णस्य प्रयोगे संवृतम्। प्रक्रियादशायां तु विवृतमेव। बाह्यप्रयत्नस्त्वेकादशधा - विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राणउदात्तोऽनुदात्तः स्वरितश्चेति। खरो विवाराः श्वासा अघोषाश्च।हशः संवारा नादा घोषाश्च। वर्गाणां प्रथमतृतीयपञ्चमा यणश्चाल्पप्राणाः। वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः। कादयोमावसानाः स्पर्शाः। यणोऽन्तःस्थाः। शल ऊष्माणः। अचः स्वराः।⌒⌣क ⌒⌣ख इति कखाभ्यां प्रागर्धविसर्गसदृशो जिह्वामूलीयः।⌒⌣प ⌒⌣फ इति पफाभ्यां प्रागर्धविसर्गसदृश उपध्मानीयः। अं अः इत्यचः परावनुस्वारविसर्गौ ।।

अणुदित्सवर्णस्य चाप्रत्ययः।१।१।६९।

प्रतीयते विधीयत इति प्रत्ययः । अविधीयमानोऽणुदिच्च सवर्णस्य संज्ञा स्यात्। अत्रैवाण् परेणणकारेण। कु चु टु तु पु एते उदितः। तदेवम्–अ इत्यष्टादशानां संज्ञा। तथेकारोकारौ। ऋकारस्त्रिंशतः। एवं लृकारोऽपि। एचोद्वादशानाम्। अनुनासिकाननुनासिकभेदेन यवला द्विधा; तेनाननुनासिकास्ते द्वयोर्द्वयोस्संज्ञा ।।

परः संनिकर्षः संहिता ।१।४।१०९।

वर्णानामतिशयितः संनिधिः संहितासंज्ञः स्यात् ।।

हलोऽनन्तराः संयोगः।१।१।७।

अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः ।।

सुप्तिङन्तं पदम्।१।४।१४।

सुबन्तं तिङन्तं च पदसंज्ञं स्यात्।।

।। इति संज्ञाप्रकरणम् ।।

 

 

अथ अच् सन्धिः

इको यणचि।६।१।७७।

इकः स्थाने यण् स्यादचि संहितायां विषये। सुधी उपास्य इतिस्थिते।।

तस्मिन्निति निर्दिष्टे पूर्वस्य।१।१।६६।

सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्यबोध्यम्।

स्थानेऽन्तरतमः।१।१।५०।

प्रसङ्गेसति सदृशतम आदेशः स्यात्। सु ध् य् उपास्य इति जाते।।

अनचि च।८।४।४७।

अचः परस्य यरो द्वे वा स्तो न त्वचि। इति धकारस्य द्वित्वेन सु ध् ध् य् उपास्य इति जाते ।।

झलां जश् झशि।८।४।५३।

स्पष्टम्। इति पूर्व धकारस्य दकारः।।

संयोगान्तस्य लोपः।८।२।२३।

संयोगान्तं यत् पदं तदन्तस्य लोपः स्यात्।।

अलोऽन्त्यस्य।१।१।५२।

षष्ठीनिर्दिष्टोऽन्त्यस्याल आदेशः स्यात्। इति यलोपे प्राप्ते– (यणः प्रतिषेधो वाच्यः) । सुद्ध्युपास्यः । मद्ध्वरिः।धात्त्रंशः ।लाकृतिः।।

एचोऽयवायावः।६।१।७८।

एचः क्रमादय् अव् आय् आव् एते स्युरचि।।

यथासंख्यमनुदेशः समानाम्।१।३।१०।

समसम्बन्धी विधिर्यथासंख्यं स्यात्। हरये। विष्णवे। नायकः।पावकः।।

वान्तो यि प्रत्यये।६।१।७९।

यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः। गव्यम्। नाव्यम्। (अध्वपरिमाणे च) । गव्यूतिः।।

अदेङ् गुणः।१।१।२।

अत् एङ् च गुणसंज्ञः स्यात्।।

तपरस्तत्कालस्य।१।१।७०।

तः परो यस्मात्स च तात्परश्चोच्चार्यमाणः समकालस्यैव संज्ञा स्यात्।।

आद्गुणः ।६।१।८७।

अवर्णादचि परे पूर्वपरयोरेको गुणादेशः स्यात्। उपेन्द्रः। गङ्गोदकम्।।

उपदेशेऽजनुनासिक इत् ।१।३।२।

उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात्। प्रतिज्ञानुनासिक्याः पाणिनीयाः। लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा ।।

उरण् रपरः।१।१।५१।

ऋ इति त्रिंशतः संज्ञेत्युक्तम् । तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते।कृष्णर्द्धिः । तवल्कारः।।

लोपः शाकल्यस्य।८।३।१९।

अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोपो वाऽशि परे।।

पूर्वत्रासिद्धम्।८।२।१।

सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परंशास्त्रमसिद्धम्। हर इह, हरयिह। विष्ण इह, विष्णविह।।

वृद्धिरादैच्।१।१।१।

आदैच्च वृद्धिसंज्ञः स्यात्।।

वृद्धिरेचि।६।१।८८।

आदेचि परे वृद्धिरेकादेशः स्यात्। गुणापवादः। कृष्णैकत्वम्।गङ्गौघः। देवैश्वर्यम्। कृष्णौत्कण्ठ्यम्।।

एत्येधत्यूठ्सु।६।१।८९।

अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात्। उपैति।उपैधते। प्रष्ठौहः। एजाद्योः किम्? उपेतः। मा भवान्प्रेदिधत्। (अक्षादूहिन्यामुपसंख्यानम्) । अक्षौहिणी सेना। (प्रादूहोढोढ्येषैष्येषु) । प्रौहः। प्रौढः। प्रौढिः। प्रैषः। प्रैष्यः। (ऋते च तृतीयासमासे) । सुखेन ऋतः सुखार्तः। तृतीयेति किम्?परमर्तः। (प्रवत्सतरकम्बलवसनार्णदशानामृणे) । प्रार्णम्, वत्सतरार्णम्इत्यादि।।

उपसर्गाः क्रियायोगे।१।४।५९।

प्रादयः क्रियायोगे उपसर्गसंज्ञाः स्युः।प्र। परा। अप। सम्। अनु। अव। निस्। निर्। दुस्।दुर्। वि। आङ्। नि। अधि। अपि। अति। सु। उद्।अभि। प्रति। परि। उप - एते प्रादयः।।

भूवादयो धातवः।१।३।१।

क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः।।

उपसर्गादृति धातौ।६।१।९१।

अवर्णान्तादुपसर्गादृकारादौ धातौ परे वृद्धिरेकादेशः स्यात् । प्रार्च्छति।।

एङि पररूपम्।६।१।९४।

आदुपसर्गादेङादौ धातौ पररूपमेकादेशः स्यात्। प्रेजते । उपोषति ।।

अचोऽन्त्यादि टि।१।१।६४।

अचां मध्ये योऽन्त्यः स आदिर्यस्य तट्टिसंज्ञं स्यात्। (शकन्ध्वादिषु पररूपं वाच्यम्) । तच्च टेः। शकन्धुः। कर्कन्धुः।मनीषा। आकृतिगणोऽयम्। मार्त्तण्डः।।

ओमाङोश्च।६।१।९५।

ओमि आङि चात्परे पररूपमेकादेशः स्यात्। शिवायोंनमः। शिवेहि।।

अन्तादिवच्च ।६।१।८५।

योऽयमेकादेशः स पूर्वस्यान्तवत्परस्यादिवत् । शिवेहि ।।

अकः सवर्णे दीर्घः।६।१।१०१।

अकः सवर्णेऽचि परे पूर्वपरयोर्दीर्घ एकादेशः स्यात्। दैत्यारिः।श्रीशः। विष्णूदयः। होतॄकारः।।

एङः पदान्तादति।६।१।१०९।

पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात्। हरेऽव। विष्णोऽव।।

सर्वत्र विभाषा गोः।६।१।१२२।

लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः पदान्ते। गोअग्रम्, गोऽग्रम्। एङन्तस्य किम् ? चित्रग्वग्रम्। पदान्ते किम् ? गोः।।

अनेकाल् शित्सर्वस्य।१।१।५५।

इति प्राप्ते ।।

ङिच्च।१।१।५३।

ङिदनेकालप्यन्त्यस्यैव स्यात्।।

अवङ् स्फोटायनस्य।६।१।१२३।

पदान्ते एङन्तस्य गोरवङ् वाऽचि। गवाग्रम् , गोऽग्रम् । पदान्तेकिम् ? गवि ।।

इन्द्रे च।६।१।१२४।

गोरवङ् स्यादिन्द्रे। गवेन्द्रः ।।

दूराद्धूते च।८।२।८४।

दूरात् संबोधने वाक्यस्य टेः प्लुतो वा ।।

प्लुतप्रगृह्या अचि नित्यम्।६।१।१२५।

एतेऽचि प्रकृत्या स्युः । आगच्छ कृष्ण ३ अत्र गौश्चरति ।।

ईदूदेद्विवचनं प्रगृह्यम्।१।१।११।

ईदूदेदन्तं द्विवचनं प्रगृह्यं स्यात्। हरी एतौ। विष्णू इमौ।गङ्गे अमू ।।

अदसो मात्।१।१।१२।

अस्मात् परावीदूतौ प्रगृह्यौ स्तः। अमी ईशाः। रामकृष्णावमूआसाते। मात् किम् ? अमुकेऽत्र ।।

चादयोऽसत्त्वे।१।४।५७।

अद्रव्यार्थाश्चादयो निपाताः स्युः।।

प्रादयः।१।४।५८।

एतेऽपि तथा ।।

निपात एकाजनाङ्।१।१।१४।

एकोऽज् निपात आङ्वर्जः प्रगृह्यःस्यात्। इ इन्द्रः। उ उमेशः। वाक्यस्मरणयोरङित्, आ एवं नु मन्यसे। आ एवं किल तत्। अन्यत्रङित्, आ ईषदुष्णम् ओष्णम् ॥

ओत्।१।१।१५।

ओदन्तो निपातः प्रगृह्यःस्यात्। अहो ईशाः ॥

संबुद्धौ शाकल्यस्येतावनार्षे।१।१।१६।

संबुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे। विष्णो इति, विष्ण इति, विष्णविति ॥

मय उञो वो वा।८।३।३३।

मयः परस्य उञो वो वाऽचि। किम्वुक्तम् । किमु उक्तम् ॥

इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च।६।१।१२७।

पदान्ता इको ह्रस्वा व स्युरसवर्णेऽचि। ह्रस्वविधिसामर्थ्यान्नस्वरसंधिः। चक्रि अत्र, चक्र्यत्र। पदान्ता इति किम्? गौर्यौ–

अचो रहाभ्यां द्वे।८।४।४६।

अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः। गौर्य्यौ। (न समासे) । वाप्यश्वः ॥

ऋत्यकः।६।१।१२८।

ऋति परे पदान्त अकः प्राग्वद्वा। ब्रह्म ऋषिः, ब्रह्मर्षिः।पदान्ताः किम् ? आर्च्छत् ॥

॥ इति अच् सन्धिः ॥

अथ हल्सन्धिः

स्तोः श्चुना श्चुः।८।४।४०।

सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः।रामश्शेते। रामश्चिनोति। सच्चित्। शार्ङ्गिञ्जय ॥

शात्।८।४।४४।

शात्परस्यतवर्गस्य श्चुत्वं न स्यात् । विश्नः । प्रश्नः ॥

ष्टुना ष्टुः।८।४।४१।

स्तोः ष्टुना योगे ष्टुः स्यात् । रामष्षष्ठः। रामष्टीकते। पेष्टा। तट्टीका। चक्रिण्ढौकसे ॥

न पदान्ताट्टोरनाम्।८।४।४२।

पदान्ताट्टवर्गात् परस्यानामः स्तोः ष्टुर्न स्यात्। षट् सन्तः। षट्ते। पदान्तात् किम् ? ईट्टे । टोः किम् ? सर्पिष्टमम्। (अनाम्नवतिनगरीणामिति वाच्यम्) । षण्णाम्। षण्णवतिः । षण्णगर्य्यः ॥

तोः षि।८।४।४३।

न ष्टुत्वम्। सन्षष्ठः ॥

झलां जशोऽन्ते।८।२।३९।

पदान्ते झलां जशः स्युः । वागीशः ॥

यरोऽनुनासिकेऽनुनासिको वा।८।४।४५।

यरः पदान्तस्यानुनासिके परेऽनुनासिको वा स्यात्। एतन्मुरारिः, एतद् मुरारिः। (प्रत्यये भाषायां नित्यम्) । तन्मात्रम्। चिन्मयम् ॥

तोर्लि।८।४।६०।

तवर्गस्य लकारे परे परसवर्णः। तल्लयः। विद्वाँल्लिखति। नस्यानुनासिको लः ॥

उदः स्थास्तम्भोः पूर्वस्य।८।४।६१।

उदः परयोः स्थास्तम्भोः पूर्वसवर्णः ॥

तस्मादित्युत्तरस्य।१।१।६७।

पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम् ॥

आदेः परस्य।१।१।५४।

परस्य यद्विहितं तत् तस्यादेर्बोध्यम्। इति सस्य थः ॥

झरो झरि सवर्णे।८।४।६५।

हलः परस्य झरो वा लोपः सवर्णे झरि ॥

खरि च।८।४।५५।

खरि झलां चरः स्युः। इत्युदो दस्य तः। उत्थानम् । उत्तम्भनम् ॥

झयो होऽन्यतरस्याम्।८।४।६२।

झयः परस्य हस्य वा पूर्वसवर्णः । नादस्य घोषस्य संवारस्य महाप्राणस्य तादृशो वर्गचतुर्थः। वाग्घरिः, वाग्हरिः॥

शश्छोऽटि।८।४।६३।

झयः परस्य शस्य छो वाऽटि। तद् शिव इत्यत्र दस्य श्चुत्वेनजकारे कृते खरि चेति जकारस्य चकारः। तच्छिवः, तच्शिवः । (छत्वममीति वाच्यम्) तच्छ्लोकेन ॥

मोऽनुस्वारः।८।३।२३।

मान्तस्य पदस्यानुस्वारो हलि । हरिं वन्दे ॥

नश्चापदान्तस्य झलि।८।३।२४।

नस्य मस्य चापदान्तस्य झल्यनुस्वारः। यशांसि। आक्रंस्यते। झलि किम् ? मन्यते ॥

अनुस्वारस्य ययि परसवर्णः।८।४।५८।

स्पष्टम् । शान्तः ॥

वा पदान्तस्य।८।४।५९।

त्वङ्करोषि, त्वं करोषि ॥

मो राजि समः क्वौ।८।३।२५।

क्विबन्ते राजतौ परे समो मस्य म एव स्यात्। सम्राट् ॥

हे मपरे वा।८।३।२६।

मपरे हकारे परे मस्य मो वा। किम् ह्मलयति, किं ह्मलयति। (यवलपरे यवला वा) । किय्ँह्यः, किं ह्यः। किव्ँह्वलयति, किं ह्वलयति। किल्ँह्लादयति, किं ह्लादयति ॥

नपरे नः।८।३।२७।

नपरे हकारे मस्य नो वा। किन्ह्नुते, किं ह्नुते ॥

आद्यन्तौ टकितौ ।१।१।४६।

टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः ॥

ङ्णोः कुक् टुक् शरि।८।३।२८।

वा स्तः। (चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्) । प्राङ्ख् षष्ठः, प्राङ्क्षष्ठः, प्राङ् षष्ठः । सुगण्ठ् षष्ठः, सुगण्ट् षष्ठः, सुगण् षष्ठः ॥

डः सि धुट्।८।३।२९।

डात् परस्य सस्यधुड्वा । षट्त्सन्तः, षट् सन्तः ॥

नश्च।८।३।३०।

नान्तात् परस्य सस्य धुड्वा । सन्त्सः। सन्सः ॥

शि तुक्।८।३।३१।

पदान्तस्य नस्य शे परे तुग्वा। सञ्छम्भुः, सञ्च्छम्भुः, सञ्च्शम्भुः, सञ्शम्भुः ॥

ङमो ह्रस्वादचि ङमुण्नित्यम्।८।३।३२।

ह्रस्वात् परो यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो ङमुट् । प्रत्यङ्ङात्मा। सुगण्णीशः। सन्नच्युतः ॥

समः सुटि।८।३।५।

समो रुः सुटि ॥

अत्रानुनासिकः पूर्वस्य तु वा।८।३।२।

अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा ॥

अनुनासिकात्परोऽनुस्वारः।८।३।४।

अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुस्वारागमः ॥

खरवसानयोर्विसर्जनीयः।८।३।१५।

खरि अवसाने च पदान्तस्य रेफस्य विसर्गः। (सम्पुङ्कानां सो वक्तव्यः) । सँस्स्कर्ता, संस्स्कर्ता ॥

पुमः खय्यम्परे।८।३।६।

अम्परे खयि पुमो रुः। पुँस्कोकिलः, पुंस्कोकिलः ॥

नश्छव्यप्रशान्।८।३।७।

अम्परे छवि नान्तस्य पदस्य रुः, न तु प्रशान्शब्दस्य ॥

विसर्जनीयस्य सः।८।३।३४।

खरि। चक्रिँस्त्रायस्व, चक्रिंस्त्रायस्व। अप्रशान् किम् ? प्रशान्तनोति। पदस्येति किम् ? हन्ति ॥

नॄन् पे।८।३।१०।

नॄनित्यस्य रुर्वा पे ॥

कुप्वोः ⌒⌣क ⌒⌣पौ च।८।३।३७।

कवर्गे पवर्गे च विसर्गस्य ⌒⌣क ⌒⌣पौ स्तः, चाद्विसर्गः।नॄँ ⌒⌣पाहि, नॄँ: पाहि, नॄं⌒⌣पाहि,नॄं: पाहि। नॄन्पाहि ॥

तस्य परमाम्रेडितम्।८।१।२।

द्विरुक्तस्य परमाम्रेडितं स्यात् ॥

कानाम्रेडिते।८।३।१२।

कान्नकारस्य रुः स्यादाम्रेडिते। काँस्कान्, कांस्कान् ॥

छे च।६।१।७३।

ह्रस्वस्य छे तुक् । शिवच्छाया ॥

पदान्ताद्वा।६।१।७६।

दीर्घात् पदान्ताच्छे तुग्वा। लक्ष्मीच्छाया, लक्ष्मीछाया ॥

॥ इति हल्सन्धिः ॥

अथ विसर्गसन्धिः

विसर्जनीयस्य सः ।८।३।३४।

खरि । विष्णुस्त्राता ॥

वा शरि।८।३।३६।

शरि विसर्गस्य विसर्गो वा। हरिः शेते, हरिश्शेते ॥

ससजुषो रुः।८।२।६६।

पदान्तस्य सस्य सजुषश्च रुः स्यात् ॥

अतो रोरप्लुतादप्लुते।६।१।११३।

अप्लुतादतः परस्य रोरुः स्यादप्लुतेऽति । शिवोऽर्च्यः ॥

हशि च।६।१।११४।

तथा । शिवो वन्द्यः ॥

भोभगोअघोअपूर्वस्य योऽशि।८।३।१७।

एतत्पूर्वस्य रोर्यादेशोऽशि। देवा इह, देवायिह। भोस् भगोस्अघोस् इति सान्ता निपाताः । तेषां रोर्यत्वे कृते ॥

हलि सर्वेषाम्।८।३।२२।

भोभगोअघोअपूर्वस्य यस्य लोपः स्याद्धलि। भो देवाः। भगोनमस्ते । अघो याहि ॥

रोऽसुपि।८।२।६९।

अह्नो रेफादेशो न तु सुपि। अहरहः । अहर्गणः ॥

रो रि।८।३।१४।

रेफस्य रेफे परे लोपः ॥

ढ्रलोपे पूर्वस्य दीर्घोऽणः।६।३।१११।

ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः। पुना रमते। हरी रम्यः।शम्भू राजते। अणः किम् ? तृढः। वृढः।  मनस् रथ इत्यत्र रुत्वेकृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते ॥

विप्रतिषेधे परं कार्यम्।१।४।२।

तुल्यबलविरोधे परं कार्यं स्यात्। इति लोपे प्राप्ते । पूर्वत्रासिद्धमितिरोरीत्यस्यासिद्धत्वादुत्वमेव । मनोरथः ॥

एतत्तदोः सुलोपोऽकोरनञ्समासे हलि।६।१।१३२।

अककारयोरेतत्तदोर्यः सुस्तस्य लोपो हलि नतु नञ्समासे। एषविष्णुः। स शम्भुः। अकोः किम् ? एषको रुद्रः। अनञ्समासे किम् ? असः शिवः। हलि किम् ? एषोऽत्र ॥

सोऽचि लोपे चेत्पादपूरणम्।६।१।१३४।

स इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्य्येत । सेमामविड्ढि प्रभृतिम् । सैष दाशरथी रामः ॥

॥ इति विसर्गसन्धिः ॥

॥ इति पञ्चसन्धिप्रकरणम् ॥

अथ षड्लिङ्गेषु अजन्तपुँलिङ्गाः

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्।१।२।४५।

धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वा अर्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात् ॥

कृत्तद्धितसमासाश्च।१।२।४६।

कृत्तद्धितान्तौ समासाश्च तथा स्युः ॥

स्वौजसमौट्छष्टाभ्याम्भिस्- ङेभ्याम्भ्यस् ङसिभ्याम्भ्यस्-ङसोसाम् ङ्योस्सुप्।४।१।२।

सु औ जस् इति प्रथमा। अम् औट् शस् इति द्वितीया। टाभ्याम् भिस् इति तृतीया। ङे भ्याम् भ्यस् इति चतुर्थी।ङसिभ्याम् भ्यस् इति पञ्चमी। ङस् ओस् आम् इति षष्ठी। ङि ओस् सुप् इति सप्तमी ॥

ङ्याप्प्रातिपदिकात्।४।१।१।

प्रत्ययः।३।१।१।

परश्च।३।१।२।

इत्यधिकृत्य। ङ्यन्तादाबन्तात् प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः ॥

सुपः।१।४।१०३।

सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः ॥

द्वयेकयोर्द्विवचनैकवचने।१।४।२२।

द्वित्वैकत्वयोरेते स्तः ॥

विरामोऽवसानम्।१।४।११०।

वर्णानामभावोऽवसानसंज्ञः स्यात् । रुत्वविसर्गौ । रामः ॥

सरूपाणामेकशेष एकविभक्तौ।१।२।६४।

एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते ॥

प्रथमयोः पूर्वसवर्णः।६।१।१०२।

अकः प्रथमाद्वितीययोरचि पूर्वसवर्णदीर्घ एकादेशः स्यात्। इति प्राप्ते ॥

नादिचि।६।१।१०४।

आदिचि न पूर्वसवर्णदीर्घः। वृद्धिरेचि । रामौ ॥

बहुषु बहुवचनम्।१।४।२१।

बहुत्वविवक्षायां बहुवचनं स्यात् ॥

चुटू।१।३।७।

प्रत्ययाद्यौ चुटू इतौ स्तः ॥

विभक्तिश्च।१।४।१०४।

सुप्तिङौ विभक्तिसंज्ञौ स्तः ॥

न विभक्तौ तुस्माः।१।३।४।

विभक्तिस्थास्तवर्गसमा नेतः । इति सस्य नेत्त्वम् । रामाः ॥

एकवचनं सम्बुद्धिः।२।३।४९।

संबोधने प्रथमाया एकवचनं सम्बुद्धिसंज्ञं स्यात् ॥

यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्।१।४।१३।

यः प्रत्ययो यस्मात् क्रियते तदादिशब्दस्वरूपं तस्मिन्नङ्गं स्यात् ॥

एङ्ह्रस्वात्सम्बुद्धेः।६।१।६९।

एङन्ताद्ध्रस्वान्ताच्चाङ्गाद्धल्लुप्यते सम्बुद्धेश्चेत्। हे राम। हे रामौ। हे रामाः ॥

अमि पूर्वः ।६।१।१०७।

अकोऽम्यचि पूर्वरूपमेकादेशः। रामम् । रामौ ॥

लशक्वतद्धिते।१।३।८।

तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः ॥

तस्माच्छसो नः पुंसि।६।१।१०३।

पूर्वसवर्णदीर्घात्परो यः शसः सस्तस्य नः स्यात्पुंसि ॥

अट्कुप्वाङ्नुम्व्यवायेऽपि।८।४।२।

अट् कवर्गः पवर्ग आङ् नुम् एतैर्व्यस्तैर्यथासंभवं मिलितैश्चव्यवधानेऽपि रषाभ्यां परस्य नस्य णः समानपदे । इति प्राप्ते ॥

पदान्तस्य।८।४।३७।

नस्य णो न । रामान् ॥

टाङसिङसामिनात्स्याः।७।१।१२।

अदन्ताट्टादीनामिनादयः स्युः। णत्वम्। रामेण ॥

सुपि च।७।३।१०२।

यञादौ सुपि अतोऽङ्गस्य दीर्घः । रामाभ्याम् ॥

अतो भिस ऐस्।७।१।९।

अनेकाल् शित् सर्वस्य । रामैः ॥

ङेर्यः।७।१।१३।

अतोऽङ्गात् परस्य ङेर्यादेशः ॥

स्थानिवदादेशोऽनल्विधौ।१।१।५६।

आदेशः स्थानिवत् स्यान्न तु स्थान्यलाश्रयविधौ। इति स्थानिवत्त्वात् सुपि चेति दीर्घः। रामाय । रामाभ्याम् ॥

बहुवचने झल्येत्।७।३।१०३।

झलादौ बहुवचने सुप्यतोऽङ्गस्यैकारः। रामेभ्यः। सुपि किम् ? पचध्वम् ॥

वाऽवसाने।८।४।५६।

अवसाने झलां चरो वा। रामात्, रामाद् । रामाभ्याम्। रामेभ्यः । रामस्य ॥

ओसि च।७।३।१०४।

अतोऽङ्गस्यैकारः । रामयोः ॥

ह्रस्वनद्यापो नुट्।७।१।५४।

ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात् परस्यामो नुडागमः ॥

नामि।६।४।३।

अजन्ताङ्गस्य दीर्घः। रामाणाम् । रामे । रामयोः । सुपि - एत्त्वे कृते ॥

आदेशप्रत्यययोः।८।३।५९।

इण्कुभ्यां परस्यापदान्तस्यादेशस्य प्रत्ययावयवश्च यः सस्तस्यमूर्धन्यादेशः। ईषद्विवृतस्य सस्य तादृश एव षः। रामेषु। एवं कृष्णादयोऽप्यदन्ताः ॥

सर्वादीनि सर्वनामानि।१।१।२७।

सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत्त्व नेम सम सिम। पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्। स्वमज्ञातिधनाख्यायाम्। अन्तरं बहिर्योगोपसंव्यानयोः।त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम् ॥

जसः शी।७।१।१७।

अदन्तात् सर्वनाम्नो जसः शी स्यात्। अनेकाल्त्वात् सर्वादेशः। सर्वे ॥

सर्वनाम्नः स्मै ।७।१।१४।

अतः सर्वनाम्नो ङेः स्मै । सर्वस्मै ॥

ङसिङयोः स्मात्स्मिनौ ।७।१।१५।

अतः सर्वनाम्न एतयोरेतौ स्तः । सर्वस्मात् ॥

आमि सर्वनाम्नः सुट्।७।१।५२।

अवर्णान्तात् परस्य सर्वनाम्नो विहितस्यामः सुडागमः । एत्वषत्वे। सर्वेषाम्। सर्वस्मिन्। शेषं रामवत्। एवं विश्वादयोऽप्यदन्ताः। उभशब्दो नित्यं द्विवचनान्तः। उभौ २। उभाभ्याम् ३।उभयोः २। तस्येह पाठोऽकजर्थः। उभयशब्दस्य द्विवचनं नास्ति । उभयः । उभये । उभयम् । उभयान् । उभयेन । उभयैः । उभयस्मै । उभयेभ्यः । उभयस्मात् । उभयेभ्यः । उभयस्य । उभयेषाम् । उभयस्मिन् । उभयेषु । डतरडतमौ प्रत्ययौ, प्रत्ययग्रहणे तदन्तग्रहणमिति तदन्ता ग्राह्याः। नेम इत्यर्धे। समःसर्वपर्यायस्तुल्यपर्यास्तु न, यथासंख्यमनुदेशः समानामिति ज्ञापकात् ॥

पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्।१।१।३४।

एतेषां व्यवस्थायामसंज्ञायां सर्वनामसंज्ञा गणसूत्रात् सर्वत्र याप्राप्ता सा जसि वा स्यात् । पूर्वे, पूर्वाः । असंज्ञायां किम् ? उतराः कुरवः। स्वाभिधेयापेक्षावधिनियमो व्यवस्था। व्यवस्थायां किम् ? दक्षिणा गाथकाः, कुशला इत्यर्थः ॥

स्वमज्ञातिधनाख्यायाम्।१।१।३५।

ज्ञातिधनान्यवाचिनः स्वशब्दस्य प्राप्ता संज्ञा जसि वा । स्वे, स्वाः, आत्मीयाः, आत्मान इति वा। ज्ञातिधनवाचिनस्तु, स्वाः, ज्ञातयोऽर्था वा ॥

अन्तरं बहिर्योगोपसंव्यानयोः।१।१।३६।

बाह्ये परिधानीये चार्थेऽन्तरशब्दस्य प्राप्ता संज्ञा जसि वा। अन्तरे, अन्तरा वा गृहाः, बाह्या इत्यर्थः। अन्तरे, अन्तरा वा शाटकाः, परिधानीया इत्यर्थः ॥

पूर्वादिभ्यो नवभ्यो वा।७।१।१६।

एभ्यो ङसिङ्योः स्मात्स्मिनौ वा स्तः। पूर्वस्मात्, पूर्वात्।पूर्वस्मिन्, पूर्वे। एवं परादीनाम् । शेषं सर्ववत् ॥

प्रथमचरमतयाल्पार्द्धकतिपयनेमाश्च।१।१।३३।

एते जसि उक्तसंज्ञा वा स्युः। प्रथमे, प्रथमाः। तयः प्रत्ययः।द्वितये, द्वितयाः। शेषं रामवत् । नेमे, नेमाः । शेषं सर्ववत् । (तीयस्य ङित्सु वा) । द्वितीयस्मै, द्वितीयायेत्यादि । एवं तृतीयः । निर्जरः ॥

जराया जरसन्यतरस्याम्।७।२।१०१।

अजादौ विभक्तौ। (प.) पदाङ्गाधिकारे तस्य च तदन्तस्य च। (प.) निर्दिश्यमानस्यादेशा भवन्ति। (प.) एकदेशविकृतमनन्यवदिति जरशब्दस्यजरस्। निर्जरसौ। निर्जरस इत्यादि । पक्षे हलादौ च रामवत्। विश्वपाः ॥

दीर्घाज्जसि च।६।१।१०५।

दीर्घाज्जसि इचि च परे पूर्वसवर्णदीर्घो न स्यात् । विश्वपौ। विश्वपाः। हे विश्वपाः। विश्वपाम् । विश्वपौ ॥

सुडनपुंसकस्य।१।१।४३।

स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य ॥

स्वादिष्वसर्वनामस्थाने।१।४।१७।

कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं पदं स्यात् ॥

यचि भम्।१।४।१८।

यादिष्वजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं भसंज्ञं स्यात् ॥

आकडारादेका संज्ञा।१।४।१।

इत ऊर्ध्वं कडाराः कर्मधारय इत्यतः प्रागेकस्यैकैव संज्ञा ज्ञेया । या पराऽनवकाशा च ॥

आतो धातोः।६।४।१४०।

आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोपः। अलोऽन्त्यस्य। विश्वपः। विश्वपा। विश्वपाभ्यामित्यादि। एवं शङ्खध्मादयः। धातोः किम् ? हाहान्। हरिः । हरी ॥

जसि च।७।३।१०९।

ह्रस्वान्तस्याङ्गस्य गुणः । हरयः ॥

ह्रस्वस्य गुणः।७।३।१०८।

सम्बुद्धौ। हे हरे। हरिम्। हरी । हरीन् ॥

शेषो घ्यसखि।१।४।७।

शेष इति स्पष्टार्थम्। ह्रस्वौ याविदुतौ तदन्तं सखिवर्जं घिसंज्ञम् ॥

आङो नास्त्रियाम् ।७।३।१२०।

घेः परस्याङो ना स्यादस्त्रियाम्। आङिति टासंज्ञा। हरिणा।हरिभ्याम् । हरिभिः ॥

घेर्ङिति।७।३।१११।

घिसंज्ञस्य ङिति सुपि गुणः। हरये। हरिभ्याम् । हरिभ्यः ॥

ङसिङसोश्च।६।१।११०।

एङो ङसिङसोरति पूर्वरूपमेकादेशः। हरेः२। हर्योः२ । हरीणाम् ॥

अच्च घेः।७।३।११९।

इदुद्भ्यामुत्तरस्य ङेरौत्, घेरच्च । हरौ। हरिषु । एवं कव्यादयः ॥

अनङ् सौ।७।१।९३।

सख्युरङ्गस्यानङादेशोऽसम्बुद्धौ सौ ॥

अलोऽन्त्यात्पूर्व उपधा।१।१।६५।

अन्त्यादलः पूर्वो यो वर्णउपधासंज्ञः स्यात् ॥

सर्वनामस्थाने चासम्बुद्धौ।६।४।८।

नान्तस्योपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने ॥

अपृक्त एकाल् प्रत्ययः।१।२।४१।

एकाल् प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात् ॥

हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।६।१।६८।

हलन्तात् परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल्लुप्यते ॥

नलोपः प्रातिपदिकान्तस्य।८।२।७।

प्रातिपदिकसंज्ञकं यत् पदं तदन्तस्य नस्य लोपः । सखा ॥

सख्युरसम्बुद्धौ।७।१।९२।

सख्युरङ्गात् परं सम्बुद्धिवर्जं सर्वनामस्थानं णिद्वत् स्यात् ॥

अचो ञ्णिति।७।२।११५।

अजन्ताङ्गस्य वृद्धिर्ञिति णिति च परे। सखायौ। सखायः। हेसखे। सखायम्। सखायौ। सखीन्। सख्या । सख्ये ॥

ख्यत्यात्परस्य।६।१।११२।

खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उः । सख्युः ॥

औत्।७।३।११८।

इतः परस्य ङेरौत्। सख्यौ । शेषं हरिवत् ॥

पतिः समास एव।१।४।८।

घिसंज्ञः। पत्युः २ । पत्यौ ।शेषं हरिवत्। समासे तुभूपतये । कतिशब्दो नित्यं बहुवचनान्तः ॥

बहुगणवतुडति संख्या।१।१।२३।

डति च।१।१।२५।

डत्यन्ता संख्या षट्संज्ञा स्यात् ॥

षड्भ्यो लुक्।७।१।२२।

जश्शसोः ॥

प्रत्ययस्य लुक्श्लुलुपः।१।१।६१।

लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात् तत्तत्संज्ञं स्यात् ॥

प्रत्ययलोपे प्रत्ययलक्षणम्।१।१।६२।

प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात्। इति जसि चेति गुणे प्राप्ते ॥

न लुमताङ्गस्य।१।१।६३।

लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात्। कति २।कतिभिः। कतिभ्यः २। कतीनाम्। कतिषु । युष्मदस्मद्षट्संज्ञकास्त्रिषु सरूपाः। त्रिशब्दो नित्यं बहुवचनान्तः। त्रयः। त्रीन्।त्रिभिः। त्रिभ्यः २ ॥

त्रेस्त्रयः ।७।१।५३।

त्रिशब्दस्य त्रयादेशः स्यादामि । त्रयाणाम्। त्रिषु। गौणत्वेऽपि। प्रियत्रयाणाम् ॥

त्यदादीनामः।७।२।१०२।

एषामकारो विभक्तौ। (द्विपर्य्यन्तानामेवेष्टिः) । द्वौ २। द्वाभ्याम् ३।द्वयोः २ । पाति लोकमिति पपीः सूर्यः ॥

दीर्घाज्जसि च।६।१।१०५।

पप्यौ २ । पप्यः । हे पपीः। पपीम्। पपीन्। पप्या। पपीभ्याम्३। पपीभिः। पप्ये।पपीभ्यः २। पप्यः २। पप्योः । दीर्घत्वान्न नुट्। पप्याम्। ङौतु सवर्णदीर्घः। पपी। पप्योः । पपीषु। एवं वातप्रम्यादयः । बह्व्यः श्रेयस्यो यस्य स बहुश्रेयसी ॥

यू स्त्र्याख्यौ नदी ।१।४।३।

ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः। (प्रथमलिङ्गग्रहणं च) ।पूर्वं स्त्र्याख्यस्योपसर्जनत्वेऽपि नदीत्वं वक्तव्यमित्यर्थः ॥

अम्बार्थनद्योर्ह्रस्वः।७।३।१०७।

सम्बुद्धौ । हे बहुश्रेयसि ॥

आण्नद्याः।७।३।११२।

नद्यन्तात्परेषां ङितामाडागमः ॥

आटश्च।६।१।९०।

आटोऽचि परे वृद्धिरेकादेशः। बहुश्रेयस्यै। बहुश्रेयस्याः ।बहुश्रेयसीनाम् ॥

ङेराम्नद्याम्नीभ्यः।७।३।११६।

नद्यन्तादाबन्तान्नीशब्दाच्च परस्य ङेराम्। बहुश्रेयस्याम्। शेषंपपीवत्। अङ्यन्तत्वान्न सुलोपः। अतिलक्ष्मीः । शेषं बहुश्रेयसीवत् । प्रधीः ॥

अचि श्नुधातुभ्रुवां य्वोरियङुवङौ।६।४।७७।

श्नुप्रत्ययान्तस्येवर्णोवर्णान्तस्य धातोर्भ्रू इत्यस्य चाङ्गस्येयङुवङौस्तोऽजादौ प्रत्यये परे । इति प्राप्ते ॥

एरनेकाचोऽसंयोगपूर्वस्य।६।४।८२।

धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकोचोऽङ्गस्य यणजादौ प्रत्यये। प्रध्यौ । प्रध्यः। प्रध्यम् । प्रध्यौ । प्रध्यः । प्रध्यि । शेषं पपीवत्। एवं ग्रामणीः। ङौ तुग्रामण्याम्।अनेकाचः किम् ? नीः। नियौ। नियः । अमि शसि च परत्वादियङ्। नियम्। ङेराम्। नियाम् । असंयोगपूर्वस्य किम् ? सुश्रियौ । यवक्रियौ ॥

गतिश्च। १।४।६०।

प्रादयः क्रियायोगे गतिसंज्ञाः स्युः। (गतिकारकेतरपूर्वपदस्य यण्नेष्यते) । शुद्धधियौ ॥

न भूसुधियोः।६।४।८५।

एतयोरचि सुपि यण् न। सुधियौ। सुधिय इत्यादि। सुखमिच्छतीति सुखीः। सुतीः। सुख्यौ। सुत्यौ। सुख्युः। सुत्युः ।शेषं प्रधीवत्। शम्भुर्हरिवत्। एवं भान्वादयः ॥

तृज्वत्क्रोष्टुः।७।१।९५।

असम्बुद्धौ सर्वनामस्थाने परे । क्रोष्टुशब्दस्य स्थाने क्रोष्टृशब्दः प्रयोक्तव्य इत्यर्थः ॥

ऋतो ङिसर्वनामस्थानयोः।७।३।११०।

ऋतोऽङ्गस्य गुणो ङौ सर्वनामस्थाने च । इति प्राप्ते –

ऋदुशनस्पुरुदंशोऽनेहसां च।७।१।९४।

ऋदन्तानामुशनसादीनां चानङ् स्यादसम्बुद्धौ सौ ॥

अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्।६।४।११।

अबादीनामुपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने। क्रोष्टा।क्रोष्टारौ। क्रोष्टारः । क्रोष्टून् ॥

विभाषा तृतीयादिष्वचि।७।१।९७।

अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत्। क्रोष्ट्रा । क्रोष्ट्रे ॥

ऋत उत्।६।१।१११।

ऋतो ङसिङसोरति उदेकादेशः। रपरः ॥

रात्सस्य।८।२।२४।

रेफात् संयोगान्तस्य सस्यैव लोपो नान्यस्य। रस्य विसर्गः। क्रोष्टुः२।क्रोष्ट्रोः २। (नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन) । क्रोष्टूनाम्। क्रोष्टरि।पक्षे हलादौ च शम्भुवत्। हूहूः। हूह्वौ। हूहूः । हूहूम् इत्यादि । अतिचमूशब्दे तु नदीकार्य्यं विशेषः। हे अतिचमु। अतिचम्वै।अतिचम्वाः । अतिचमूनाम् । खलपूः ॥

ओः सुपि।६।४।८३।

धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यण् स्यादचि सुपि। खलप्वौ। खलप्वः। एवंसुल्वादयः। स्वभूः। स्वभुवौ। स्वभुवः । वर्षाभूः ॥

वर्षाभ्वश्च।६।४।८४।

अस्य यण् स्यादचि सुपि। वर्षाभ्वावित्यादि। दृन्भूः । (दृन्करपुनः पूर्वस्य भूवो यण् वक्तव्यः) । दृन्भ्वौ। एवं करभूः।धाता। हे धातः। धातारौ। धातारः। (ऋवर्णान्नस्य णत्वं वाच्यम्) । धातॄणाम्। एवं नप्त्रादयः । नप्त्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम्। तेनेह न। पिता। पितरौ।पितरः। पितरम्। शेषं धातृवत्। एवं जामात्रादयः। ना। नरौ ॥

नृ च।६।४।६।

अस्य नामि वा दीर्घः। नृणाम्।नॄणाम् ॥

गोतो णित्।७।१।९०।

ओकारान्ताद्विहितं सर्वनामस्थानं णिद्वत्। गौः। गावौ। गावः ॥

औतोऽम्शसोः।६।१।९३।

ओतोऽम्शसोरचि आकार एकादेशः। गाम्। गावौ। गाः। गवा।गवे। गोः । इत्यादि ॥

रायो हलि।७।२।८५।

अस्याकारादेशो हलि विभक्तौ। राः। रायौ। रायः । राभ्यामित्यादि। ग्लौः। ग्लावौ। ग्लावः । ग्लौभ्यामित्यादि॥

॥ इत्यजन्तपुंलिङ्गाः ॥

 

अथाजन्तस्त्रीलिङ्गाः

रमा।

औङ आपः।७।१।१८।

आबन्तादङ्गात् परस्यौङः शी स्यात् । औङित्यौकारविभक्तेः संज्ञा । रमे । रमाः ॥

सम्बुद्धौ च।७।३।१०६।

आप एकारः स्यात् सम्बुद्धौ। एङ्ह्रस्वादिति सम्बुद्धिलोपः। हेरमे। हे रमे। हे रमाः। रमाम्। रमे। रमाः।

आङि चापः।७।३।१०५।

आङि ओसि चाप एकारः। रमया। रमाभ्याम् । रमाभिः।

याडापः।७।३।११३।

आपो ङितो याट्। वृद्धिः। रमायै । रमाभ्याम् । रमाभ्यः ।रमायाः । रमयोः । रमाणाम्। रमायाम्। रमासु । एवं दुर्गाम्बिकादयः ॥

सर्वनाम्नः स्याड्ढ्रस्वश्च।७।३।११४।

आबन्तात् सर्वनाम्नो ङितः स्याट् स्यादापश्च ह्रस्वः। सर्वस्यै । सर्वस्याः । सर्वासाम्। सर्वस्याम्। शेषं रमावत्। एवं विश्वादय आबन्ताः ॥

विभाषा दिक्समासे बहुव्रीहौ।१।१।२८।

सर्वनामता वा। उत्तरपूर्वस्यै, उत्तरपूर्वायै। तीयस्येति वा सर्वनामसंज्ञा। द्वितीयस्यै, द्वितीयायै। एवं तृतीया। अम्बार्थेति ह्रस्वः।हे अम्ब। हे अक्क। हे अल्ल। जरा। जरसौइत्यादि।पक्षे रमावत्। गोपाः, विश्वपावत्। मतीः । मत्या ॥

ङिति ह्रस्वश्च।१।४।६।

इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ, ह्रस्वौ चेवर्णोवर्णौ, स्त्रियां वा नदीसंज्ञौ स्तो ङिति। मत्यै, मतये। मत्याः २। मतेः २ ॥

इदुद्भ्याम् ।७।३।११७।

इदुद्भ्यां नदीसंज्ञकाभ्यां परस्य ङेराम्। मत्याम्, मतौ। शेषं हरिवत्।एवं बुद्ध्यादयः ॥

त्रिचतुरोः स्त्रियां तिसृचतसृ।७।२।९९।

स्त्रीलिङ्गयोरेतौ स्तो विभक्तौ ॥

अचि र ऋतः।७।२।१००।

तिसृचतसृ एतयोर्ऋकारस्य रेफादेशः स्यादचि। गुणदीर्घोत्वानामपवादः । तिस्रः। तिस्रः । तिसृभिः। तिसृभ्यः। तिसृभ्यः । आमि नुट् ॥

न तिसृचतसृ।६।४।४।

एतयोर्नामि दीर्घो न। तिसृणाम्। तिसृषु। द्वे। द्वे । द्वाभ्याम्। द्वाभ्याम् । द्वयोः । द्वयोः ।  गौरी। गौर्य्यौ । गौर्य्यः। हे गौरि। गौर्य्यै इत्यादि।एवं नद्यादयः । लक्ष्मीः। शेषं गौरीवत्। एवं तरीतन्त्र्यादयः।स्त्री। हे स्त्रि ॥

स्त्रियाः।६।४।७९।

अस्येयङ् स्यादजादौ प्रत्यये परे। स्त्रियौ। स्त्रियः।

वाम्शसोः।६।४।८०।

अमि शसि च स्त्रिया इयङ् वा स्यात् । स्त्रियम्, स्त्रीम्। स्त्रियः, स्त्रीः । स्त्रिया । स्त्रियै। स्त्रियाः । परत्वान्नुट्। स्त्रीणाम्। स्त्रीषु। श्रीः। श्रियौ। श्रियः ॥

नेयङुवङ्स्थानावस्त्री।१।४।४।

इयङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो न तु स्त्री।हे श्रीः। श्रियै, श्रिये। श्रियाः, श्रियः ॥

वामि।१।४।५।

इयङुवङ्स्थानौ स्त्र्याख्यौ यू आमि वा नदीसंज्ञौ स्तो न तु स्त्री।श्रीणाम्, श्रियाम्। श्रियि, श्रियाम्। धेनुर्मतिवत्।

स्त्रियां च।७।१।९६।

स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते ॥

ऋन्नेभ्यो ङीप्।४।१।५।

ऋदन्तेभ्यो नान्तेभ्यश्च स्त्रियां ङीप्। क्रोष्ट्री गौरीवत्। भ्रूःश्रीवत् । स्वयम्भूः पुंवत् ॥

न षट्स्वस्रादिभ्यः।४।१।१०।

ङीप्टापौ न स्तः ॥

स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा।

याता मातेति सप्तैते स्वस्रादय उदाहृताः॥

स्वसा । स्वसारौ। माता पितृवत्। शसि मातॄः। द्यौर्गोवत्।राः पुंवत्। नौर्ग्लौवत्।

॥ इत्यजन्तस्त्रीलिङ्गाः ॥

अजन्तनपुंसकलिङ्गाः

अतोऽम्।७।१।२४।

अतोऽङ्गात् क्लीबात् स्वमोरम्। अमि पूर्वः । ज्ञानम्। एङ्ह्रस्वादिति हल्लोपः। हेज्ञान ॥

नपुंसकाच्च।७।१।१९।

क्लीबादौङः शी स्यात् । भसंज्ञायाम् ॥

यस्येति च।६।४।१४८।

ईकारे तद्धिते च भस्येवर्णावर्णयोर्लोपः। इत्यल्लोपे प्राप्ते। (औङः श्यां प्रतिषेधो वाच्यः) । ज्ञाने ॥

जश्शसोः शिः ।७।१।२०।

क्लीबादनयोः शिः स्यात् ।

शि सर्वनामस्थानम्।१।१।४२।

शि इत्येतदुक्तसंज्ञं स्यात् ॥

नपुंसकस्य झलचः।७।१।७२।

झलन्तस्याजन्तस्य च क्लीबस्य नुम् स्यात् सर्वनामस्थाने ॥

मिदचोऽन्त्यात्परः ।१।१।४७।

अचां मध्ये योऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित् स्यात्।उपधादीर्घः। ज्ञानानि। पुनस्तद्वत्। शेषं पुंवत् । एवं धनवनफलादयः ॥

अद्ड्डतरादिभ्यः पञ्चभ्यः। ७।१।२५।

एभ्यः क्लीबेभ्यः स्वमोरद्डादेशः स्यात् ॥

टेः।६।४।१४३।

डिति भस्य टेर्लोपः। कतरत्, कतरद्। कतरे। कतराणि। हेकतरत्। शेषं पुंवत्। एवं कतमत्। इतरत्। अन्यत्। अन्यतरत्। अन्यतमस्य त्वन्यतममित्येव। (एकतरात्प्रतिषेधोः वक्तव्यः) । एकतरम् ॥

ह्रस्वो नपुंसके प्रातिपदिकस्य।१।२।४७।

अजन्तस्येत्येव। श्रीपं ज्ञानवत्  ॥

स्वमोर्नपुंसकात्।७।१।२३।

लुक् स्यात्। वारि ॥

इकोऽचि विभक्तौ।७।१।७३।

इगन्तस्य क्लीबस्य नुमचि विभक्तौ। वारिणी। वारीणि । न लुमतेत्यस्यानित्यत्वात्पक्षे संबुद्धिनिमित्तो गुणः। हे वारे, हे वारि ।घेर्ङितीति गुणे प्राप्ते (वृद्ध्यौत्वतृज्वद्भावगुणोभ्यो नुम् पूर्वविप्रतिषेधेन) । वारिणे। वारिणः । वारिणोः । नुमचिरेति नुट्।वारीणाम्। वारिणि। हलादौ हरिवत् ॥

अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः।७।१।७५।

एषामनङ् स्याट्टादावचि ॥

अल्लोपोऽनः।६।४।१३४।

अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याकारस्यलोपः। दध्ना। दध्ने। दध्नः । दध्नः । दध्नोः । दध्नोः ॥

विभाषा ङिश्योः।६।४।१३६।

अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याकारस्य लोपो वा स्यात् ङिश्योः परयोः। दध्नि, दधनि। शेषं वारिवत्। एवमस्थिसक्थ्यक्षि।सुधि। सुधिनी। सुधीनि। हे सुधे, हे सुधि ॥

तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य ।७।१।७४।

प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा टादावचि । सुधिया, सुधिनेत्यादि। मधु।मधुनी। मधूनि। हे मधो, हे मधु। सुलु। सुलुनी। सुलूनि। सुलुनेत्यादि। धातृ। धातृणी। धातॄणि। हे धातः, हे धातृ । धातॄणाम्। एवं ज्ञात्रादयः ॥

एच इग्घ्रस्वादेशे।१।१।४८।

आदिश्यमानेषु ह्रस्वेषु एच इगेव स्यात् । प्रद्यु। प्रद्युनी। प्रद्यूनि। प्रद्युनेत्यादि। प्ररि। प्ररिणी। प्ररीणि।प्ररिणा। एकदेशविकृतमनन्यवत्। प्रराभ्याम्। प्ररीणाम्। सुनु।सुनुनी। सुनूनि। सुनुनेत्यादि ॥

॥ इत्यजन्तनपुंसकलिङ्गाः ॥

अथ हलन्तपुँल्लिङ्गाः

हो ढः।८।२।३१।

हस्य ढः स्याज्झलि पदान्ते च। लिट्, लिड्। लिहौ। लिहः। लिड्भ्याम्।लिट्सु। लिट्त्सु, लिट्सु ॥

दादेर्धातोर्घः।८।२।३२।

झलि पदान्ते चोपदेशे दादेर्धातोर्हस्य घः ॥

एकाचो बशो भष् झषन्तस्य स्ध्वोः।८।२।३७।

धात्ववयवस्यैकाचो झषन्तस्य बशो भष् से ध्वेपदान्ते च। धुक्, धुग्। दुहौ। दुहः। धुग्भ्याम्। धुक्षु ॥

वा द्रुहमुहष्णुहष्णिहाम्।८।२।३३।

एषां हस्य वा घो झलि पदान्ते च।ध्रुक्, ध्रुग्, ध्रुट्, ध्रुड्।द्रुहौ। द्रुहः। ध्रुग्भ्याम्। ध्रुड्भ्याम्। ध्रुक्षु, ध्रुट्त्सु, ध्रुट्सु । एवं मुक्, मुग् इत्यादि ॥

धात्वादेः षः सः।६।१।६४।

स्नुक्,स्नुग्, स्नुट्, स्नुड्। एवं स्निक्, स्निग्, स्निट्, स्निड् । विश्ववाट्, विश्ववाड् । विश्ववाहौ । विश्ववाहः । विश्ववाहम्। विश्ववाहौ ॥

इग्यणः संप्रसारणम्।१।१।४५।

यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात् ॥

वाह उठ।६।४।१३२।

भस्य वाहः संप्रसारणमूठ् ॥

संप्रसारणाच्च।६।१।१०८।

संप्रसारणादचि पूर्वरूपमेकादेशः। एत्येधत्यूठ्स्विति वृद्धिः। विश्वौहः, इत्यादि ॥

चतुरनडुहोरामुदात्तः।७।१।९८।

अनयोराम् स्यात्सर्वनामस्थाने परे ॥

सावनडुहः।७।१।८२।

अस्य नुम् स्यात् सौ परे । अनड्वान् ॥

अम् संबुद्धौ।७।१।९९।

हे अनड्वन्। हे अनड्वाहौ । हे अनड्वाहः । अनडुहः ॥

वसुस्रंसुध्वंस्वनडुहां दः।८।२।७२।

सान्तवस्वन्तस्य स्रंसादेश्च दः स्यात् पदान्ते । अनडुद्भ्यामित्यादि। सान्तेति किम् ? विद्वान्। पदान्तेति किम् ? स्रस्तम् । ध्वस्तम् ॥

सहेः साडः सः।८।३।५६।

साड् रूपस्य सहेः सस्य मूर्धन्यादेशः । तुराषाट्, तुराषाड् । तुरासाहौ। तुरासाहः । तुराषाड्भ्यामित्यादि ॥

दिव औत्।७।१।८४।

दिविति प्रातिपदिकस्यौत् स्यात् सौ। सुद्यौः । सुदिवौ ॥

दिव उत्।६।१।१३१।

दिवोऽन्तादेश उकारः स्यात् पदान्ते । सुद्युभ्यामित्यादि । चत्वारः। चतुरः। चतुर्भिः । चतुर्भ्यः ॥

षट्चतुर्भ्यश्च।७।१।५५।

एभ्य आमो नुडागमः ॥

रषाभ्यां नो णः समानपदे।८।४।१।

अचो रहाभ्यां द्वे।८।४।४६।

अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः । चतुर्ण्णाम्, चतुर्णाम् ॥

रोः सुपि।८।३।१६।

रोरेव विसर्गः सुपि। षत्वम् । षस्य द्वित्वे प्राप्ते ॥

शरोऽचि।८।४।४९।

अचि परे शरो न द्वे स्तः । चतुर्षु ॥

मो नो धातोः।८।२।६४।

धातोर्मस्य नः पदान्ते । प्रशान् ॥

किमः कः।७।२।१०३।

किमः कः स्याद्विभक्तौ। कः। कौ। के इत्यादि। शेषं सर्ववत् ॥

इदमो मः।७।२।१०८।

सौ। त्यदाद्यत्वापवादः ॥

इदोऽय् पुंसि।७।२।१११।

इदम इदोऽय् सौ पुंसि। अयम्। त्यदाद्यत्वे ॥

अतो गुणे।६।१।९७।

अपदान्तादतो गुणे पररूपमेकादेशः ॥

दश्च।७।२।१०९।

इदमो दस्य मः स्याद्विभक्तौ। इमौ। इमे। त्यदादेः सम्बोधनं नास्तीत्युत्सर्गः ॥

अनाप्यकः।७।२।११२।

अककारस्येदम इदोऽनापि विभक्तौ। आबिति प्रत्याहारः । अनेन ॥

हलि लोपः।७।२।११३।

अककारस्येदम इदो लोप आपि हलादौ। नानर्थकेऽलोऽन्त्यविधिरनभ्यासविकारे ॥

आद्यन्तवदेकस्मिन्।१।१।२१।

एकस्मिन् क्रियमाणं कार्यमादाविवान्त इव स्यात्। सुपि चेतिदीर्घः । आभ्याम् ॥

नेदमदसोरकोः।७।१।११।

अककारयोरिदमदसोर्भिस ऐस् न। एभिः। अस्मै। एभ्यः।अस्मात्। अस्य। अनयोः। एषाम्। अस्मिन्। एषु ॥

द्वितीयाटौस्स्वेनः।२।४।३४।

इदमेतदोरन्वादेशे । किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरंविधातुं पुनरुपादानमन्वादेशः । यथा - अनेन व्याकरणमधीतमेनंछन्दोऽध्यापयेति। अनयोः पवित्रं कुलमेनयोः प्रभूतं स्वमिति । एनम्। एनौ। एनान्। एनेन। एनयोः । एनयोः । राजा ॥

न ङिसम्बुद्ध्योः।८।२।८।

नस्य लोपो न ङौ सम्बुद्धौ च। हे राजन्। (ङावुत्तरपदे प्रतिषेधोः वक्तव्यः) । ब्रह्मनिष्ठः। राजानौ। राजानः। राज्ञः ॥

नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति।८।२।२।

सुब्विधौ स्वरविधौ संज्ञाविधौ कृति तुग्विधौ नलोपोऽसिद्धो नान्यत्र–राजाश्व इत्यादौ । इत्यसिद्धत्वादात्वमेत्त्वमैस्त्वं च न। राजभ्याम्। राजभिः । राज्ञि, राजनि । राजसु । यज्वा। यज्वानौ । यज्वानः॥

न संयोगाद्वमन्तात्।६।४।१३७।

वमन्तसंयोगादनोऽकारस्य लोपो न। यज्वनः। यज्वना। यज्वभ्याम्। ब्रह्मणः । ब्रह्मणा ॥

इन्हन्पूषार्यम्णां शौ।६।४।१२।

एषां शावेवोपधाया दीर्घो नान्यत्र । इति निषेधे प्राप्ते –

सौ च।६।४।१३।

इन्नादीनामुपधाया दीर्घोऽसम्बुद्धौ सौ। वृत्रहा। हे वृत्रहन् ॥

एकाजुत्तरपदे णः।८।४।१२।

एकाजुत्तरपदं यस्य तस्मिन् समासे पूर्वपदस्थान्निमित्तात् परस्यप्रातिपदिकान्तनुम्विभक्तिस्थस्य नस्य णः । वृत्रहणौ ॥

हो हन्तेर्ञ्णिन्नेषु।७।३।५४।

ञिति णिति प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वम्। वृत्रघ्नः इत्यादि ।एवं शार्ङ्गिन्, यशस्विन्, अर्यमन्, पूषन्॥

मघवा बहुलम्।६।४।१२८।

मघवन्शब्दस्य वा तृ इत्यन्तादेशः। ऋ इत् ॥

उगिदचां सर्वनामस्थानेऽधातोः।७।१।७०।

अधातोरुगितो नलोपिनोऽञ्चतेश्च नुम् स्यात् सर्वनामस्थाने। मघवान्। मघवन्तौ। मघवन्तः। हे मघवन्। मघवद्भ्याम्। तृत्वाभावेमघवा। सुटि राजवत् ॥

श्वयुवमधोनामतद्धिते।६।४।१३३।

अन्नन्तानां भानामेषामतद्धिते संप्रसारणम्। मघोनः। मघवभ्याम्।एवं श्वन्, युवन् ॥

न संप्रसारणे संप्रसारणम्।६।१।३७।

संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न स्यात् । इति यकारस्य नेत्वम् । अत एव ज्ञापकादन्त्यस्य यणः पूर्वं संप्रसारणम् । यूनः। यूना। युवभ्याम् इत्यादि। अर्वा । हे अर्वन् ॥

अर्वणस्त्रसावनञः।६।४।१२७।

नञा रहितस्यार्वन्नन्तस्याङ्गस्य तृ इत्यन्तादेशो न तु सौ। अर्वन्तौ।अर्वन्तः । अर्वद्भ्यामित्यादि ॥

पथिमथ्यृभुक्षामात्।७।१।८५।

एषामाकारोऽन्तादेशः स्यात् सौ परे ॥

इतोऽत्सर्वनामस्थाने।७।१।८६।

पथ्यादेरिकारस्याकारः स्यात्सर्वनामस्थाने परे ॥

थो न्थः।७।१।८७।

पथिमथोस्थस्य न्थादेशः सर्वनामस्थाने। पन्थाः। पन्थानौ । पन्थानः ॥

भस्य टेर्लोपः।७।१।८८।

भस्य पथ्यादेष्टेर्लोपः। पथः। पथा। पथिभ्याम्। एवं मथिन्, ऋभुक्षिन् ॥

ष्णान्ता षट् ।१।१।२४।

षान्ता नान्ता च संख्या षट्संज्ञा स्यात्। पञ्चन्शब्दो नित्यं बहुवचनान्तः। पञ्च। पञ्च। पञ्चभिः। पञ्चभ्यः । पञ्चभ्यः । नुट् ॥

नोपधायाः। ६।४।७।

नान्तस्योपधाया दीर्घो नामि। पञ्चानाम् । पञ्चसु ॥

अष्टन आ विभक्तौ।७।२।८४।

हलादौ वा स्यात् ॥

अष्टाभ्य औश्।७।१।२१।

कृताकारादष्टनो जश्शसोरौश्। अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशोजश्शसोर्विषये आत्वं ज्ञापयति। अष्टौ । अष्टाभिः । अष्टाभ्यः । अष्टाभ्यः । अष्टानाम् । अष्टासु । आत्वाभावे अष्ट, पञ्चवत् ॥

ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च।३।२।५९।

एभ्यः क्विन्, अञ्चेः सुप्युपपदे। युजिक्रुञ्चोः केवलयोः, क्रुञ्चेर्नलोपाभावश्च निपात्यते । कनावितौ ॥

कृदतिङ्।३।१।९३।

अत्र धात्वधिकारे तिङ्भिन्नः प्रत्ययः कृत्संज्ञः स्यात् ॥

वेरपृक्तस्य।६।१।६७।

अपृक्तस्य वस्य लोपः ॥

क्विन्प्रत्ययस्य कुः।८।२।६२।

क्विन् प्रत्ययो यस्मात् तस्य कवर्गोऽन्तादेशः पदान्ते। अस्यासिद्धत्वाच्चोः कुरिति कुत्वम्। ऋत्विक्, ऋत्विग् । ऋत्विजौ। ऋत्विम्भ्याम् ॥

युजेरसमासे।७।१।७१।

युजेः सर्वनामस्थाने नुम् स्यादसमासे। सुलोपः। संयोगान्तलोपः।कुत्वेन नस्य ङः। युङ्। अनुस्वारपरसवर्णौ । युञ्जौ। युञ्जः । युग्भ्याम् ॥

चोः कुः।८।२।३०।

चवर्गस्य कवर्गः स्याज्झलि पदान्ते च। सुयुक्, सुयुग् । सुयुजौ।सुयुग्भ्याम्। खन्। खञ्जौ । खन्भ्याम् ॥

व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः।८।२।३६।

झलि पदान्ते च। जश्त्वचर्त्वे। राट्, राड्। राजौ। राजः।राड्भ्याम्। एवं विभ्राट्, देवेट्, विश्वसृट्। (परौ व्रजेः षः पदान्ते ) । परावुपपदे व्रजेः क्विप् स्याद्दीर्घश्चपदान्ते षत्वमपि। परिव्राट्। परिव्राजौ ॥

विश्वस्य वसुराटोः।६।३।१२८।

विश्वशब्दस्य दीर्घोऽन्तादेशः स्याद्वसौ राट्शब्दे च परे । विश्वाराट्, विश्वाराड्। विश्वराजौ । विश्वाराड्भ्याम् ॥

स्कोः संयोगाद्योरन्ते च।८।२।२९।

पदान्ते झलि च यः संयोगस्तदाद्योः स्कोर्लोपः। भृट्। सस्यश्चुत्वेन शः। झलां जश् झशीति शस्य जः। भृज्जौ। भृड्भ्याम्। त्यदाद्यत्वं पररूपत्वं च ॥

तदोः सः सावनन्त्ययोः।७।२।१०६।

त्यदादीनां तकारदकारयोरनन्त्ययोः सः स्यात्सौ। स्यः। त्यौ। त्ये।सः। तौ। ते। यः। यौ। ये। एषः। एतौ। एते ॥

ङेप्रथमयोरम्।७।१।२८।

युष्मदस्मद्भ्यां परस्य ङे इत्येतस्य प्रथमाद्वितीययोश्चामादेशः ॥

त्वाहौ सौ।७।२।९४।

अनयोर्मपर्यन्तस्य त्वाहौ आदेशौ स्तः ॥

शेषे लोपः।७।२।९०।

एतयोष्टिलोपः। त्वम् । अहम् ॥

युवावौ द्विवचने।७।२।९२।

द्वयोरुक्तावनयोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ ॥

प्रथमायाश्च द्विवचने भाषायाम्।७।२।८८।

औङ्येतयोरात्वं लोके । युवाम्। आवाम् ॥

यूयवयौ जसि।७।२।९३।

अनयोर्मपर्यन्तस्य। यूयम्। वयम् ॥

त्वमावेकवचने।७।२।९७।

एकस्योक्तावनयोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ ॥

द्वितीयायाञ्च।७।२।८९।

अनयोरात् स्यात्। त्वाम् । माम् ॥

शसो न।७।१।२९।

आभ्यां शसो नः स्यात् । अमोऽपवादः। आदेः परस्य। संयोगान्तलोपः। युष्मान् । अस्मान् ॥

योऽचि।७।२।८९।

अनयोर्यकारादेशः स्यादनादेशेऽजादौ परतः। त्वया । मया ॥

युष्मदस्मदोरनादेशे।७।२।८६।

अनयोरात् स्यादनादेशे हलादौ विभक्तौ । युवाभ्याम्। आवाभ्याम्।युष्माभिः । अस्माभिः ॥

तुभ्यमह्यौ ङयि।७।२।९५।

अनयोर्मपर्यन्तस्य। टिलोपः। तुभ्यम् । मह्यम् ॥

भ्यसोऽभ्यम्।७।१।३०।

आभ्यां परस्य। युष्मभ्यम् । अस्मभ्यम् ॥

एकवचनस्य च।७।१।३२।

आभ्यां ङसेरत् । त्वत् । मत् ॥

पञ्चभ्या अत्।७।१।३१।

आभ्यां पञ्चम्या भ्यसोऽत्स्यात्। युष्मत् । अस्मत् ॥

तवममौ ङसि।७।२।९६।

अनयोर्मपर्यन्तस्य तवममौ स्तो ङसि ॥

युष्मदस्मद्भ्यां ङसोऽश्।७।१।२७।

तव। मम। युवयोः । आवयोः ॥

साम आकम्।७।१।३३।

आभ्यां परस्य साम आकं स्यात् । युष्माकम्। अस्माकम्। त्वयि। मयि।युवयोः। आवयोः। युष्मासु। अस्मासु ॥

युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ।८।१।२०।

पदात्परयोरपादादौ स्थितयोः षष्ठ्यादिविशिष्टयोर्वांनौ इत्यादेशौ स्तः ॥

बहुवचनस्य वस्नसौ।८।१।२१।

उक्तविधयोरनयोः षष्ठ्यादिबहुवचनान्तयोर्वस्नसौ स्तः ॥

तेमयावेकवचनस्य।८।१।२२।

उक्तविधयोरनयोः षष्ठीचतुर्थ्येकवचनान्तयोर्वस्नसौ स्तः ॥

त्वामौ द्वितीयायाः।८।१।२३।

द्वितीयैकवचनान्तयोस्त्वा मा इत्यादेशौ स्तः ॥

श्रीशस्त्वाऽवतु मापीह दत्तात्ते मेऽपि शर्म सः।

स्वामी ते मेऽपि स हरिः पातु वामपि नौ विभुः ॥

सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः ।

सोऽव्याद्वो नः शिवं वो नो दद्यात् सेव्योऽत्र  वः स नः॥

(एकवाक्ये युष्मदस्मदादेशा वक्तव्याः) । एकतिङ् वाक्यम् । ओदनं पचतव भविष्यति। (एते वान्नावादयोऽनन्वादेशे वा वक्तव्याः) ।अन्वादेशे तु नित्यं स्युः। धाता ते भक्तोऽस्ति, धाता तव भक्तोऽस्ति वा ।तस्मै ते नम इत्येव। सुपात्, सुपाद् । सुपादौ ॥

पादः पत्।६।४।१३०।

पाच्छब्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः। सुपदः।सुपदा। सुपाद्भ्याम्। अग्निमत्,अग्निमद् । अग्निमथौ। अग्निमथम् ॥

अनिदितां हल उपधायाः क्ङिति।६।४।२४।

हलन्तानामनिदितामङ्गानामुपधाया नस्य लोपः किति ङिति । नुम्। संयोगान्तस्य लोपः। नस्य कुत्वेन ङः। प्राङ् । प्राञ्चौ । प्राञ्चः ॥

अचः।६।४।१३८।

लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः ॥

चौ।६।३।१३८।

लुप्ताकारनकारोऽञ्चतौ परे पूर्वस्याणो दीर्घः। प्राचः। प्राचा । प्राग्भ्याम्।प्रत्यङ्। प्रत्यञ्चौ। प्रतीचः। प्रत्यग्भ्याम्। उदङ् । उदञ्चौ ॥

उद ईत्।६।४।१३९।

उच्छब्दात् परस्य लुप्तनकाराञ्चतेर्भस्याकारस्य ईत्। उदीचः। उदीचा । उदग्भ्याम् ॥

समः समि।६।३।९३।

वप्रत्ययान्तेऽञ्चतौ। सम्यङ्। सम्यञ्चौ। समीचः। सम्यग्भ्याम् ॥

सहस्य सध्रिः।६।३।९५।

तथा । सध्र्यङ् ॥

तिरसस्तिर्यलोपे।६।३।९४।

अलुप्ताकारेऽञ्चतौ वप्रत्ययान्ते तिरसस्तिर्यादेशः। तिर्यङ्।तिर्यञ्चौ। तिरश्चः । तिर्यग्भ्याम् ॥

नाञ्चेः पूजायाम्।६।४।३०।

पूजार्थस्याञ्चतेरुपधाया नस्य लोपो न। प्राङ्। प्राञ्चौ। नलोपाभावादलोपो न। प्राञ्चः। प्राङ्भ्याम्। प्राङ्क्षु। एवं पूजार्थे प्रत्यङ्ङादयः।क्रुङ्। क्रुञ्चौ। क्रुङ्भ्याम्। पयोमुक्, पयोमुग्। पयोमुचौ। पयोमुग्भ्याम् । उगित्त्वान्नुमि –

सान्तमहतः संयोगस्य।६।४।१०।

सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घोऽसम्बुद्धौसर्वनामस्थाने। महान्। महान्तौ। महान्तः। हे महन् । महद्भ्याम् ॥

अत्वसन्तस्य चाधातोः।६।४।१४।

अत्वन्तस्योपधाया दीर्घो धातुभिन्नासन्तस्य चासम्बुद्धौ सौ परे । उगित्वान्नुम् । धीमान्।धीमन्तौ। धीमन्तः। हे धीमन्। शसादौ महद्वत्। भातेर्डवतुः।डित्त्वसामर्थ्यादभस्यापि टेर्लोपः। भवान्। भवन्तौ। भवन्तः । शत्रन्तस्य भवन् ॥

उभे अभ्यस्तम्।६।१।५।

षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः ॥

नाभ्यस्ताच्छतुः।७।१।७८।

अभ्यस्तात्परस्य शतुर्नुम् न। ददत्, ददद् । ददतौ। ददतः ॥

जक्षित्यादयः षट्।६।१।६।

षड्धातवोऽन्ये जक्षितिश्च सप्तम एते अभ्यस्तसंज्ञाः स्युः।जक्षत्,जक्षद् । जक्षतौ। जक्षतः। एवं जाग्रत्। दरिद्रत्। शासत्।चकासत्। गुप्,गुब् । गुपौ। गुपः । गुब्भ्याम् ॥

त्यदादिषु दृशोऽनालोचने कञ्च।३।२।६०।

त्यदादिषूपपदेष्वज्ञानार्थाद्दृशेः कञ् स्यात् । चात् क्विन् ॥

आ सर्वनाम्नः।६।३।९१।

सर्वनाम्न आकारोऽन्तादेशः स्याद्दृग्दृशवतुषु। तादृक्,तादृग् । तादृशौ। तादृशः। तादृग्भ्याम्। व्रश्चेतिषः। जश्त्वचर्त्वे। विड्। विट्। विशौ। विशः । विड्भ्याम् ॥

नशेर्वा।८।२।६३।

नशेः कवर्गोऽन्तादेशो वा पदान्ते। नक्,नग् । नट्, नड् । नशौ। नशः।नग्भ्याम्, नड्भ्याम् ॥

स्पृशोऽनुदके क्विन्।३।२।५८।

अनुदके सुप्युपपदे स्पृशेः क्विन्। घृतस्पृक्, घृतस्पृग् ।  घृतस्पृशौ। घृतस्पृशः। दधृक्, दधृग् । दधृषौ। दधृग्भ्याम्। रत्नमुषौ । रत्नमुड्भ्याम् । षट्, षड् । षड्भिः। षड्भ्यः । षण्णाम्। षट्सु। रुत्वं प्रति षत्वस्यासिद्धत्वात्ससजुषो रुरिति रुत्वम् ॥

र्वोरुपधाया दीर्घ इकः।८।२।७६।

रेफवान्तयोर्धात्वोरुपधाया इको दीर्घः पदान्ते। पिपठीः। पिपठिषौ। पिपठीर्भ्याम् ॥

नुम्विसर्जनीयशर्व्यवायेऽपि।८।३।५८।

एतैः प्रत्येकं व्यवधानेऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः। ष्टुत्वेनपूर्वस्य षः। पिपठीष्षु, पिपठीःषु । चिकीः। चिकीर्षौ। चिकीर्भ्याम्। चिकीर्षु। विद्वान्। विद्वांसौ। हे विद्वन् ॥

वसोः संप्रसारणम्।६।४।१३१।

वस्वन्तस्य भस्य संप्रसारणं स्यात्। विदुषः। वसुस्रंस्विति दः। विद्वद्भ्याम् ॥

पुंसोऽसुङ् ।७।१।८९।

सर्वनामस्थाने विवक्षिते पुंसोऽसुङ् स्यात् । पुमान्। हे पुमन्। पुमांसौ। पुंसः। पुम्भ्याम्।पुंसु। ऋदुशनेत्यनङ्। उशना। उशनसौ। (अस्य सम्बुद्धौ वानङ्, नलोपश्च वा वाच्यः) । हे उशन, हेउशनन्, हे उशनः। हे उशनसौ। उशनोभ्याम्। उशनस्सु । अनेहा । अनेहसौ। हे अनेहः। वेधाः। वेधसौ। हे वेधः । वेधोभ्याम् ॥

अदस औ सुलोपश्च।७।२।१०७।

अदस औकारोऽन्तादेशः स्यात्सौ परे सुलोपश्च। तदोरिति सः। असौ। त्यदाद्यत्वम्। पररूपत्वम्। वृद्धिः ॥

अदसोऽसेर्दादु दो मः।८।२।८०।

अदसोऽसान्तस्य दात्परस्य उदूतौ स्तो दस्य मश्च। आन्तरतम्याद्धस्वस्य उः, र्दीर्घस्य ऊः। अमू। जसः शी । गुणः॥

एत ईद्बहुवचने।८।२।८१।

अदसो दात्परस्यैत ईद्दस्य च मो बह्बर्थोक्तौ। अमी। पूर्वत्रासिद्धमिति विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे। अमुम्। अमू। अमून्। मुत्वे कृते घिसंज्ञायां नाभावः ॥

न मु ने।८।२।३।

नाभावे कर्तव्ये कृते च मुभावो नासिद्धः। अमुना। अमूभ्याम्३।अमीभिः। अमुष्मै। अमीभ्यः२। अमुष्मात्। अमुष्य। अमुयोः२।अमीषाम्। अमुष्मिन् । अमीषु ॥

॥ इति हलन्तपुंल्लिङ्गाः ॥

 

अथहलन्तस्त्रीलिङ्गाः

नहो धः।८।२।३४।

नहो हस्य धः स्याज्झलि पदान्ते च ॥

नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ।६।३।११६।

क्विबन्तेषु पूर्वपदस्य दीर्घः। उपानत्, उपानद् । उपानहौ। उपानत्सु।क्विन्नन्तत्वात् कुत्वेन घः। उष्णिक्, उष्णिग्। उष्णिहौ। उष्णिग्भ्याम्।द्यौः। दिवौ। दिवः। द्युभ्याम्। गीः। गिरौ। गिरः। एवं पूः।चतस्रः। चतसृणाम्। का। के। काः । सर्वावत् ॥

यः सौ।७।२।११०।

इदमो दस्य यः। इयम्। त्यदाद्यत्वम्। पररूपत्वम्। टाप्।दश्चेति मः। इमे। इमाः। इमाम्। अनया। हलि लोपः।आभ्याम्। आभिः। अस्यै। अस्याः। अनयोः। आसाम्।अस्याम्। आसु। त्यदाद्यत्वम् । टाप् । स्या । त्ये। त्याः । एवं तद्, एतद् । वाक्, वाग् । वाचौ। वाग्भ्याम्।वाक्षु। अप् शब्दो नित्यं बहुवचनान्तः। अप्तृन्निति दीर्घः। आपः । अपः ॥

अपो भि।७।४।४८।

अपस्तकारो भादौ प्रत्यये। अद्भिः। अद्भ्यः। अपाम्। अप्सु।दिक्, दिग्। दिशौ । दिशः । दिग्भ्याम्। त्यदादिष्विति दृशेः क्विन्विधानादन्यत्रापि कुत्वम्। दृक्, दृग्। दृशौ । दृग्भ्याम्। त्विट्, त्विड् ।त्विषौ। त्विद्भ्याम्। ससजुषोरुरिति रुत्वम्। सजूः। सजुषौ।सजूर्भ्याम्। आशीः। आशिषौ। आशीर्भ्याम्। असौ।उत्वमत्वे।अमू। अमूः। अमुया। अमूभ्याम्३। अमूभिः। अमुष्यै । अमूभ्यः २ । अमुष्याः । अमुयोः २। अमूषाम्। अमुष्याम् । अमूषु ॥

॥ इति हलन्तस्त्रिलिङ्गाः ॥

 

अथ हलन्तनपुंसकलिङ्गाः

स्वमोर्लुक्। दत्वम्। स्वनडुत्, स्वनडुद्। स्वनडुही। चतुरनडुहोरित्याम्।स्वनड्वांहि। पुनस्तद्वत्। शेषं पुंवत्। वाः। वारी। वारि। वारा।वार्भ्याम्। चत्वारि। किम्। के। कानि। इदम्। इमे। इमानि। (अन्वादेशे नपुंसके वा एनद्वक्तव्यः) । एनत्। एने। एनानि। एनेन।एनयोः। अहः । विभाषा ङिश्योः। अह्नी, अहनी। अहानि ॥

अहन् ।८।२।६८।

अहन्नित्यस्य रुः पदान्ते। अहोभ्याम्। दण्डि। दण्डिनी।दण्डीनि। दण्डिना। दण्डिभ्याम्। सुपथि। टेर्लोपः। सुपथी।सुपन्थानि। ऊर्क्, ऊर्ग् । ऊर्जी। ऊर्न्जि । नरजानां संयोगः । तत् । ते। तानि। यत्। ये। यानि। एतत्। एते। एतानि । गवाक्, गवाग् । गोची। गवाञ्चि । पुनस्तद्वत्। गोचा। गवाग्भ्याम्। शकृत्।शकृती। शकृन्ति । ददत् ॥

वा नपुंसकस्य।७।१।७९।

अभ्यस्तात्परो यःशता तदन्तस्य क्लीबस्य वा नुम् सर्वनामस्थाने। ददन्ति। ददति। तुदत् ॥

आच्छीनद्योर्नुम्।७।१।८०।

अवर्णान्तात्दङ्गापरो यः शतुरवयवस्तदन्तस्य नुम् वा शीनद्योः।तुदन्ती, तुदती। तुदन्ति।

शप्श्यनोर्नित्यम्।७।१।८१।

शप्श्यनोरात्परो यः शतुरवयवस्तदन्तस्य नुम् शीनद्योः। पचन्ती।पचन्ति। दीव्यत्। दीव्यन्ती। दीव्यन्ति। धनुः। धनुषी।सान्तेति दीर्घः। नुम्विसर्जनीयेति षः। धनूंषि। धनुषा। धनुर्भ्याम्। एवं चक्षुर्हविरादयः। पयः। पयसी। पयांसि। पयसा।पयोभ्याम्। सुपुम्। सुपुंसी। सुपुमांसि। अदः। विभक्तिकार्यम्।उत्वमत्वे। अमू। अमूनि । शेषं पुंवत् ॥

॥ इति हलन्तनपुंसकलिङ्गाः ॥

॥ इति षड्लिङ्गप्रकरणम् ॥

 

अथाव्ययानि

स्वरादिनिपातमव्ययम्।१।१।३७।

स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः । स्वर्। अन्तर्। प्रातर्। पुनर्। सनुतर्। उच्चैस्। नीचैस्।शनैस्। ऋधक्। ऋते। युगपत्। आरात्। पृथक्। ह्यस्। श्वस्। दिवा। रात्रौ। सायम्। चिरम्। मनाक्। ईषत्। जोषम्। तूष्णीम्। बहिस्। अवस्। समया। निकषा। स्वयम्।वृथा। नक्तम्। नञ्। हेतौ। इद्धा। अद्धा। सामि। वत्।ब्राह्मणवत्। क्षत्रियवत्। सना। सनत् । सनात् । उपधा। तिरस्। अन्तरा। अन्तरेण। ज्योक्। कम्। शम्। सहसा।विना। नाना। स्वस्ति। स्वधा। अलम्। वषट्। श्रौषट्।वौषट्। अन्यत्। अस्ति। उपांशु। क्षमा। विहायसा। दोषा।मृषा। मिथ्या। मुधा। पुरा। मिथो। मिथस्। प्रायस्। मुहुस्।प्रवाहुकम्। प्रवाहिका। आर्यहलम्। अभीक्ष्णम्। साकम्। सार्धम्।नमस्। हिरुक्। धिक्। अथ। अम्। आम्। प्रताम्। प्रशान्।प्रतान्। मा। माङ्। आकृतिगणोऽयम्। च। वा। ह। अह।एव। एवम्। नूनम्। शश्वत्। युगपत्। भूयस्। कूपत्। सूपत्।कुवित्। नेत्। चेत्। चण्। कच्चित्।  यत्र । नह। हन्त।माकिः । माकीम्। नकिः। नकिम्। माङ्। नञ्। यावत्।तावत्। त्वै।द्वै। न्वै । रै। श्रौषट्। वौषट्। स्वाहा। स्वधा।वषट्। तुम्। तथाहि। खलु। किल। अथो। सुष्ठु।स्म। आदह। (उपसर्गविभक्तिस्वरप्रतिरूपकाश्च) । अवदत्तम्।अहंयुः। अस्तिक्षीरा। अ। आ। इ। ई। उ। ऊ। ए। ऐ। ओ।औ। पशु। शुकम्। यथाकथाच। पाट्। प्याट्। अङ्ग। है।हे। भोः। अये। द्य । विषु। एकपदे। युत्। आतः। चादिरप्याकृतिगणः। तसिलादयः प्राक् पाशपः । शस्प्रभृतयः प्राक् समासान्तेभ्यः। अम्। आम्। कृत्वोऽर्थाः। तसिवती। नानाञौ।एतदन्तमव्ययम् ॥

कृन्मेजन्तः।१।१।३९।

कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात् । स्मारंस्मारम्। जीवसे।पिबध्यै ॥

क्त्वातोसुन्कसुनः।१।१।४०।

एतदन्तमव्ययम्। कृत्वा। उदेतोः । विसृपः ॥

अव्ययीभावश्च।१।१।४१।

अधिहरि ॥

अव्ययादाप्सुपः।२।४।८२।

अव्ययाद्विहितस्यापः सुपश्च लुक्। तत्र शालायाम् ।

सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु।

वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्॥

वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः।

आपं चैव हलन्तानां यथा वाचा निशा दिशा॥

वगाहः, अवगाहः। पिधानम्,अपिधानम्॥

॥ इत्यव्ययानि॥

अथ तिङन्ते भ्वादयः

लट् लिट्लुट् लृट् लेट् लोट् लङ् लिङ्लुङ् लृङ् । एषु पञ्चमो लकारश्छन्दोमात्रगोचरः ॥

लः कर्मणि च भावे चाकर्मकेभ्यः।३।४।६९।

लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च ॥

वर्तमाने लट्।३।२।१२३।

वर्तमानक्रियावृत्तेर्धातोर्लट् स्यात् । अटावितौ। उच्चारणसामर्थ्याल्लस्य नेत्त्वम्। भू सत्तायाम् ॥१॥ कर्तृविवक्षायां भू ल् इति स्थिते –

तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।३।४।७८।

एतेऽष्टादश लादेशाः स्युः ॥

लः परस्मैपदम्।१।४।९९।

लादेशाः परस्मैपदसंज्ञाः स्युः ॥

तङानावात्मनेपदम्।१।४।१००।

तङ् प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः । पूर्वसंज्ञापवादः ॥

अनुदात्तङित आत्मनेपदम्।१।३।१२।

अनुदात्तेतो ङितश्च धातोरात्मनेपदं स्यात् ॥

स्वरितञितः कर्त्रभिप्राये क्रियाफले।१।३।७२।

स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात् कर्तृगामिनि क्रियाफले ॥

शेषात्कर्तरि परस्मैपदम्।१।३।७८।

आत्मनेपदनिमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात् ॥

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः।१।४।१०१।

तिङ उभयोः पदयोस्त्रयस्त्रिकाः क्रमादेतत्संज्ञाः स्युः ॥

तान्येकवचनद्विवचनबहुवचनान्येकशः।१।४।१०२।

लब्धप्रथमादिसंज्ञानि तिङस्त्रीणि त्रीणि प्रत्येकमेकवचनादिसंज्ञानि स्युः ॥

युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः।१।४।१०५।

तिङ्वाच्यकारकवाचिनि युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मध्यमः ॥

अस्मद्युत्तमः।१।४।१०७।

तथाभूतेऽस्मद्युत्तमः ॥

शेषे प्रथमः ।१।४।१०८।

मध्यमोत्तमयोरविषये प्रथमः स्यात् । भू ति इति जाते ॥

तिङ् शित्सार्वधातुकम्।३।४।११३।

तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः ॥

कर्तरि शप्।३।१।६८।

कर्त्रर्थे सार्वधातुके परे धातोः शप् ॥

सार्वधातुकार्धधातुकयोः।७।३।८४।

अनयोः परयोरिगन्ताङ्गस्य गुणः। अवादेशः। भवति । भवतः ॥

झोऽन्तः ।७।१।३।

प्रत्ययावयवस्य झस्यान्तादेशः। अतो गुणे। भवन्ति। भवसि।भवथः। भवथ ॥

अतो दीर्घो यञि।७।३।१०१।

अतोऽङ्गस्य दीर्घो यञादौ सार्वधातुके। भवामि। भवावः। भवामः। स भवति। तौ भवतः। ते भवन्ति। त्वं भवसि। युवांभवथः। यूयं भवथ। अहं भवामि। आवां भवावः। वयं भवामः ॥

परोक्षे लिट्।३।२।११५।

भूतानद्यतनपरोक्षार्थवृत्तेर्धातोर्लिट् स्यात् । लस्य तिबादयः ॥

परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।३।४।८२।

लिटस्तिबादीनां नवानां णलादयः स्युः। भू अ इति स्थिते–

भुवो वुग् लुङ्लिटोः ।६।४।८८।

भुवो वुगागमः स्यात् लुङ् लिटोरचि ॥

लिटि धातोरनभ्यासस्य।६।१।८।

लिटि परेऽनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य। भूव् भूव् अ इति स्थिते–

पूर्वोऽभ्यासः।६।१।४।

अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात् ॥

हलादिः शेषः।७।४।६०।

अभ्यासस्यादिर्हल् शिष्यते अन्ये हलो लुप्यन्ते । इति वलोपः ॥

ह्रस्वः।७।४।५९।

अभ्यासस्याचो ह्रस्वः स्यात् ॥

भवतेरः।७।४।७३।

भवतेरभ्यासस्योकारस्य अः स्याल्लिटि ॥

अभ्यासे चर्च।८।४।५४।

अभ्यासे झलां चरः स्युर्जशश्च। झशां जशः खयां चर इतिविवेकः। बभूव। बभूवतुः। बभूवुः॥

लिट् च।३।४।११५।

लिडादेशस्तिङ्ङार्धधातुकसंज्ञः ॥

आर्धधातुकस्येड्वलादेः।७।२।३५।

वलादेरार्धधातुकस्येडागमः स्यात् । बभूविथ। बभूवथुः। बभूव। बभूव। बभूविव । बभूविम ॥

अनद्यतने लुट्।३।३।१५।

भविष्यत्यनद्यतनेऽर्थे धातोर्लुट् ॥

स्यतासी लृलुटोः।३।१।३३।

धातोः स्यतासीएतौ प्रत्ययौ स्तो लृलुटोः परतः। शबाद्यपवादः। लृ इतिलृङ्लृटोर्ग्रहणम् ॥

आर्धधातुकं शेषः।३।४।११४।

तिङ्शिद्भ्योऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात् । इट् ॥

लुटः प्रथमस्य डारौरसः।२।४।८५।

डा रौ रस् एते क्रमात् स्युः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । भविता ॥

तासस्त्योर्लोपः।७।४।५०।

तासेरस्तेश्च सस्य लोपः स्यात्सादौ प्रत्यये परे ॥

रि च।७।४।५१।

रादौ प्रत्यये तथा। भवितारौ। भवितारः। भवितासि।भवितास्थः। भवितास्थ। भवितास्मि। भवितास्वः। भवितास्मः ॥

लृट् शेषे च।३।३।१३।

भविष्यदर्थाद्धातोर्लृट् क्रियार्थायां क्रियायां सत्यामसत्यां वा।स्यः। इट्। भविष्यति। भविष्यतः। भविष्यन्ति। भविष्यसि।भविष्यथः। भविष्यथ। भविष्यामि। भविष्यावः । भविष्यामः ॥

लोट् च।३।३।१६२।

विध्याद्यर्थेषु धातोर्लोट् ॥

आशिषि लिङ्लोटौ।३।३।१७३।

एरुः।३।४।८६।

लोट इकारस्य उः । भवतु ॥

तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्।७।१।३५।

आशिषि तुह्योस्तातङ् वा । परत्वात्सर्वादेशः । भवतात् ॥

लोटो लङ्वत्।३।४।८५।

लोटस्तामादयस्सलोपश्च ॥

तस्थस्थमिपां तान्तन्तामः।३।४।१०१।

ङितश्चतुर्णां तामादयः क्रमात्स्युः । भवताम्। भवन्तु ॥

सेर्ह्यपिच्च।३।४।८७।

लोटः सेर्हिः सोऽपिच्च ॥

अतो हेः। ६।४।१०५।

अतः परस्य हेर्लुक् । भव । भवतात् । भवतम् । भवत ॥

मेर्निः।३।४।८९।

लोटो मेर्निः स्यात् ॥

आडुत्तमस्य पिच्च।३।४।९२।

लोडुत्तमस्याट् पिच्च। हिन्योरुत्वं न, इकारोच्चारणसामर्थ्यात् ॥

ते प्राग्धातोः।१।४।८०।

ते गुत्युपसर्गसंज्ञका धातोः प्रागेव प्रयोक्तव्याः ॥

आनि लोट्।८।४।१६।

उपसर्गस्थान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात्।प्रभवाणि। (दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः)। दुःस्थितिः। दुर्भवानि।(अन्तश्शब्दस्याङ्किविधिणत्वेषूपसर्गत्वं वाच्यम् । अन्तर्भवाणि ॥

नित्यं ङितः।३।४।९९।

सकारान्तस्य ङिदुत्तमस्य नित्यं लोपः। अलोऽन्त्यस्येति सलोपः।भवाव । भवाम ॥

अनद्यतने लङ्।३।२।१११।

अनद्यतनभूतार्थवृत्तेर्धातोर्लङ् स्यात् ॥

लुङ्लङ्लृङ्क्ष्वडुदात्तः ।६।४।७१।

एष्वङ्गस्याट् ॥

इतश्च।३।४।१००।

ङितो लस्य परस्मैपदमिकारान्तं यत्तदन्तस्य लोपः। अभवत्।अभवताम्। अभवन्। अभवः। अभवतम्। अभवत। अभवम्।अभवाव । अभवाम ॥

विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ।३।३।१६१।

एष्वर्थेषु धातोर्लिङ् ॥

यासुट् परस्मैपदेषूदात्तो ङिच्च।३।४।१०३।

लिङः परस्मैपदानां यासुडागमो ङिच्च ॥

लिङः सलोपोऽनन्त्यस्य।७।२।७९।

सार्वधातुकलिङोऽनन्त्यस्य सस्य लोपः । इति प्राप्ते –

अतो येयः।७।२।८०।

अतः परस्य सार्वधातुकावयवस्य यास् इत्यस्य इय् । गुणः ॥

लोपो व्योर्वलि।६।१।६६।

भवेत्। भवेताम् ॥

झेर्जुस्।३।४।१०८।

लिङोः झेर्जुस् स्यात् । भवेयुः। भवेः। भवेतम्। भवेत। भवेयम् । भवेव । भवेम ॥

लिङाशिषि।३।४।११६।

आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात् ॥

किदाशिषि।३।४।१०४।

आशिषि लिङो यासुट् कित्। स्कोः संयोगाद्योरिति सलोपः ॥

क्क्ङिति च ।१।१।५।

गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः। भूयात्। भूयास्ताम्। भूयासुः। भूयाः। भूयास्तम्। भूयास्त। भूयासम्।भूयास्व । भूयास्म ॥

लुङ्।३।२।११०।

भूतार्थे धातोर्लुङ् स्यात् ॥

माङि लुङ्।३।३।१७५।

सर्वलकारापवादः ॥

स्मोत्तरे लङ् च ।३।३।१७६।

स्मोत्तरे माङि लङ् स्याच्चाल्लुङ् ॥

च्लि लुङि।३।१।४३।

शबाद्यपवादः ॥

च्लेः सिच्।३।१।४४।

इचावितौ ॥

गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु।२।४।७७।

एभ्यः सिचो लुक् स्यात् । गापाविहेणादेशपिबती गृह्येते ॥

भूसुवोस्तिङि।७।३।८८।

भूसू एतयोः सार्वधातुके तिङि परे गुणो न। अभूत्। अभूताम्।अभूवन्। अभूः। अभूतम्। अभूत। अभूवम्। अभूव। अभूम ॥

न माङ्योगे।६।४।७४।

अडाटौ न स्तः। मा भवान् भूत्। मा स्म भवत्। मा स्म भूत् ॥

लिङ्निमित्ते लृङ् क्रियातिपत्तौ ।३।३।१३९।

हेतुहेतुमद्भावादि लिङ्निमित्तं तत्र भविष्यत्यर्थे लृङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम्। अभविष्यत्। अभविष्यताम्। अभविष्यन्। अभविष्यः। अभविष्यतम्। अभविष्यत । अभविष्यम् । अभविष्याव। अभविष्याम। सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत्, इत्यादि ज्ञेयम्। अत सातत्यगमने ।२। अतति॥

अत आदेः।७।४।७०।

अभ्यासस्यादेरतो दीर्घः स्यात्। आत। आततुः। आतुः।आतिथ। आतथुः। आत। आत। आतिव। आतिम। अतिता।अतिष्यति। अततु॥

आडजादीनाम्।६।४।७२।

अजादेरङ्गस्याट् लुङ्लङ्लृङ्क्षु । आतत्। अतेत्। अत्यात्।अत्यास्ताम्। लुङि सिचि इडागमे कृते–

अस्तिसिचोऽपृक्ते।७।३।९६।

विद्यमानात् सिचोऽस्तेश्च परस्यापृक्तस्य हल ईडागमः ॥

इट ईटि।८।२।२८।

इटः परस्य सस्य लोपः स्यादीटि परे । (सिज्लोप एकादेशे सिद्धोवाच्यः) । आतीत्। आतिष्टाम् ॥

सिजभ्यस्तविदिभ्यश्च।३।४।१०९।

सिचोऽभ्यस्ताद्विदेश्च परस्य ङित्संबन्धिनो झेर्जुस्। आतिषुः।आतीः। आतिष्टम्। आतिष्ट। आतिषम्। आतिष्व। आतिष्म।आतिष्यत् । षिध गत्याम्॥

ह्रस्वं लघु।१।४।१०।

संयोगे गुरु।१।४।११।

संयोगे परे ह्रस्वं गुरु स्यात् ॥

दीर्घं च।१।४।१२।

गुरु स्यात्॥

पुगन्तलघूपधस्य च।७।३।८६।

पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः सार्वधातुकार्धधातुकयोः।धात्वादेरिति सः। सेधति। षत्वम् । सिषेध ॥

असंयोगाल्लिट् कित्।१।२।५।

असंयोगात् परोऽपिल्लिट् कित् स्यात्। सिषिधतुः। सिषिधुः।सिषेधिथ। सिषिधथुः। सिषिध। सिषेध। सिषिधिव। सिषिधिम।सेधिता। सेधिष्यति। सेधतु। असेधत्। सेधेत्। सिध्यात्।असेधीत्। असेधिष्यत्। एवं चिती संज्ञाने॥ ४॥शुच शोके॥ ५॥ गद व्यक्तायां वाचि॥ ६॥ गदति ॥

नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च।८।४।१७।

उपसर्गस्थान्निमित्तात्परस्य नेर्नस्य णो गदादिषु परेषु । प्रणिगदति ॥

कुहोश्चुः।७।४।६२।

अभ्यासकवर्गहकारयोश्चवर्गादेशः ॥

अत उपधायाः।७।२।११६।

उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे । जगाद। जगदतुः। जगदुः।जगदिथ। जगदथुः। जगद॥

णलुत्तमो वा।७।१।९१।

उत्तमो णल् वा णित् स्यात्। जगाद, जगद। जगदिव। जगदिम। गदिता।गदिष्यति। गदतु। अगदत्। गदेत् । गद्यात् ॥

अतो हलादेर्लघोः ।७।२।७।

हलादेर्लघोरकारस्य वृद्धिर्वेडादौ परस्मैपदे सिचि। अगादीत्, अगदीत्।अगदिष्यत्। णद अव्यक्ते शब्दे॥ ७॥

णो नः।६।१।६५।

धात्वादेर्णस्य नः। णोपदेशास्त्वनर्दूनाटिनाथ्नाध्नन्दनक्कनॄनृतः ॥

उपसर्गादसमासेऽपि णोपदेशस्य।८।४।१४।

उपसर्गस्थान्निमित्तात् परस्य णोपदेशस्य धातोर्नस्य णः। प्रणदति।प्रणिनदति। नदति । ननाद ॥

अत एकहल्मध्येऽनादेशादेर्लिटि।६।४।१२०।

लिण्निमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्यात एत्त्वमभ्यासलोपश्च किति लिटि। नेदतुः । नेदुः ॥

थलि च सेटि।६।४।१२१।

प्रागुक्तं स्यात्। नेदिथ। नेदथुः। नेद। ननाद, ननद।नेदिव। नेदिम। नदिता। नदिष्यति। नदतु। अनदत्। नदेत्।नद्यात्। अनादीत्, अनदीत्। अनदिष्यत्। टुनदि समृद्धौ॥८॥

आदिर्ञिटुडवः।१।३।५।

उपदेशे धातोराद्या एते इतः स्युः॥

इदितो नुम् धातोः।७।१।५८।

नन्दति। ननन्द। नन्दिता। नन्दिष्यति। नन्दतु। अनन्दत्।नन्देत्। नन्द्यात्। अनन्दीत्। अनन्दिष्यत्। अर्च पूजायाम्॥९॥ अर्चति ॥

तस्मान्नुड् द्विहलः।७।४।७१।

द्विहलो धातोर्दीर्धोभूतात्परस्य नुट् स्यात्। आनर्च। आनर्चतुः।अर्चिता। अर्चिष्यति। अर्चतु। आर्चत्। अर्चेत्। अर्च्यात्।आर्चीत्। आर्चिष्यत्। व्रज गतौ॥१०॥ व्रजति। वव्राज।व्रजिता। व्रजिष्यति। व्रजतु। अव्रजत्। व्रजेत्। व्रज्यात्॥

वदव्रजहलन्तस्याचः।७।२।३।

एषामचो वृद्धिः सिचि परमैपदेषु। अव्राजीत्। अव्रजिष्यत्।कटे वर्षावरणयोः॥११॥ कटति। चकाट। चकटतुः। कटिता । कटिष्यति।कटतु। अकटत्। कटेत् । कट्यात् ॥

ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्।७।२।५।

हमयान्तस्य क्षणादेर्ण्यन्तस्य श्वयतेरेदितश्च वृद्धिर्नेडादौ सिचि।अकटीत्। अकटिष्यत्। गुपू रक्षणे॥१२॥

गुपूधूपविच्छिपणिपनिभ्य आयः।३।१।२८।

एभ्य आयः प्रत्ययः स्यात् स्वार्थे ॥

सनाद्यन्ता धातवः।३।१।३२।

सनादयः कर्मेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञकाः।धातुत्वाल्लडादयः । गोपायति ॥

आयादय आर्धधातुके वा।३।१।३१।

आर्धधातुकविवक्षायामायादयो वा स्युः । (कास्यनेकाच आम् वक्तव्यः) । लिटि आस्कासोराम्विधानान्मस्य नेत्त्वम्॥

अतो लोपः।६।४।४८।

आर्धधातुकोपदेशे यददन्तं तस्यातो लोप आर्धधातुके ॥

आमः।२।४।८१।

आमः परस्य लुक् ॥

कृञ् चानुप्रयुज्यते लिटि।३।१।४०।

आमन्ताल्लिट्पराः कृभ्वस्तयोऽनुप्रयुज्यन्ते । तेषां द्वित्वादि ॥

उरत्।७।४।६६।

अभ्यासऋवर्णस्यात् प्रत्यये । रपरः । हलादिः शेषः । वृद्धिः । गोपायाञ्चकार। द्वित्वात्परत्वाद्यणि प्राप्ते –

द्विर्वचनेऽचि।१।१।५९।

द्वित्वनिमित्तेऽचि अच आदेशो न द्वित्वे कर्तव्ये । गोपायाञ्चक्रतुः  ॥

एकाच उपदेशेऽनुदात्तात्।७।२।१०।

उपदेशे यो धातुरेकाजनुदात्तश्च तत आर्धधातुकस्येण्न।

ऊदॄदन्तैर्यौतिरुक्ष्णुशीङ्स्नुनुक्षुश्विडीङ्श्रिभिः।

वृङ्वृञ्भ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः ॥

कान्तेषु शल्केकः। चान्तेषु पच्मुच्रिच्वच्विच्सिचः षट्। छान्तेषुप्रच्छेकः। जान्तेषुत्यज्निजिर्भज्भञ्ज्भुज्भ्रस्ज्मस्ज्यज्युज्रुज्रञ्ज्विजिर्स्वञ्ज्सञ्जसृजः पञ्चदश। दान्तेषु अद् क्षुद् खिद् छिद् तुद्नुद् पद्य भिद् विद्य विनद् विन्द् शद् सद् स्विद्य स्कन्द् हदः षोडश।धान्तेषु क्रुध् क्षुध् बुध्य बन्ध् युध् रुध् राध् व्यध् साध्  शुध् सिध्या एकादश। नान्तेषु मन्यहनी द्वौ। पान्तेषु आप् छुप् क्षिप् तप्तिप् तृप्य दृप्य लिप् लुप् वप् शप् स्वप् सृपस्त्रयोदश। भान्तेषुयभ्रभ्लभस्त्रयः। मान्तेषु गम्नम्यम्रमश्चत्वारः। शान्तेषुक्रुश् दंश् दिश् दृश् मृश् रिश् रुश् लिश् विश् स्पृशो दश। षान्तेषुकृष् त्विष् तुष् द्विष् दुष् पुष्य पिष् विष् शिष् शुष् श्लिष् एकादश ।सान्तेषु घस्वसती द्वौ । हान्ते दह्-दिह्-दुह-नह्-मिह्-रुह्-लिह्-वहोऽष्टौ।अनुदाता हलन्तेषु धातवस्त्र्यधिकं शतम्।

गोपायाञ्चकर्थ । गोपायाञ्चक्रथुः । गोपायाञ्चक्र। गोपायाञ्चकार, गोपायाञ्चकर । गोपायाञ्चकृव । गोपायाञ्चकृम । गोपायाम्बभूव, गोपायामास। जुगोप।जुगुपतुः । जुगुपुः ॥

स्वरतिसूतिसूयतिधूञूदितो वा।७।२।४४।

स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड्वा स्यात्। जुगोपिथ, जुगोप्थ। गोपायिता, गोपिता, गोप्ता। गोपायिष्यति, गोपिष्यति, गोप्स्यति। गोपायतु। अगोपायत्। गोपायेत्। गोपाय्यात्, गुप्यात् । अगोपायीत् ॥

नेटि।७।२।४।

इडादौ सिचि हलन्तस्य वृद्धिर्न । अगोपीत्, अगौप्सीत् ॥

झलो झलि।८।२।२६।

झलः परस्य सस्य लोपो झलि। अगौप्ताम्। अगौप्सुः। अगौप्सीः।अगौप्तम्। अगौप्त। अगौप्सम्। अगौप्स्व। अगौप्स्म। अगोपायिष्यत्,अगोपिष्यत्, अगोप्स्यत्। क्षि क्षये॥१३॥ क्षयति। चिक्षाय।चिक्षियतुः। चिक्षियुः। एकाच इति निषेधे प्राप्ते –

कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि।७।२।१३।

क्रादिभ्य एव लिट इण्न स्यादन्यस्मादनिटोऽपि स्यात् ॥

अचस्तास्वत् थल्यनिटो नित्यम्।७।२।६१।

उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट् ततस्थल इण् न ॥

उपदेशेऽत्वतः।७।२।६२।

उपदेशेऽकारवतस्तसौ नित्यानिटः परस्य थल इण् न स्यात् ॥

ऋतो भारद्वाजस्य।७।२।६३।

तासौ नित्यानिट ऋदन्तादेव थलो नेट् भारद्वाजस्य मते। तेन अन्यस्य स्यादेव । अयमत्र संग्रहः –

अजन्तोऽकारवान्वा यस्तास्यनिट् थलि वेडयम् ।

ऋदन्त ईदृङ्नित्यानिट् क्राद्यन्यो लिटि सेड् भवेत्॥

चिक्षयिथ, चिक्षेथ। चिक्षियथुः। चिक्षिय। चिक्षाय, चिक्षय।चिक्षियिव। चिक्षियिम। क्षेता। क्षेष्यति। क्षयतु। अक्षयत् । क्षयेत् ॥

अकृत्सार्वधातुकयोर्दीर्घः।७।४।२५।

अजन्ताङ्गस्य दीर्घो यादौ प्रत्यये न तु कृत्सार्वधातुकयोः । क्षीयात् ॥

सिचि वृद्धिः परस्मैपदेषु।७।२।१।

इगन्ताङ्गस्य वृद्धिः स्यात् परस्मैपदे सिचि। अक्षैषीत्। अक्षेष्यत्।तप संतापे॥१४॥ तपति। तताप। तेपतुः। तेपुः। तेपिथ, ततप्थ। तेपिव ।तेपिम । तप्ता। तप्स्यति। तपतु। अतपत्। तपेत्। तप्यात्।अताप्सीत्। अताप्ताम्। अतप्स्यत्। क्रमु पादविक्षेपे॥१५॥

वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः ।३।१।७०।

एभ्यः श्यन्वा कर्त्रर्थे सार्वधातुके परे । पक्षे शप् ॥

क्रमः परस्मैपदेषु।७।३।७६।

क्रमो दीर्घः परस्मैपदे शिति। क्राम्यति, क्रामति। चक्राम।क्रिमिता। क्रिमिष्यति। क्राम्यतु, क्रामतु। अक्राम्यत्, अक्रामत्।क्राम्येत्, क्रामेत्। क्रम्यात्। अक्रमीत्। अक्रमिष्यत्। पा पाने ॥१६॥

पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः।७।३।७८।

पादीनां पिबादयः स्युरित्संज्ञकशकारादौ प्रत्यये परे । पिबादेशोऽदन्तस्तेन न गुणः । पिबति ॥

आत औ णलः।७।१।३४।

आदन्ताद्धातोर्णल औकारादेशः स्यात् । पपौ ॥

आतो लोप इटि च।६।४।६४।

अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः। पपतुः।पपुः। पपिथ, पपाथ। पपथुः। पप। पपौ। पपिव। पपिम।पाता। पास्यति। पिबतु। अपिबत् । पिबेत् ॥

एर्लिङि।६।४।६७।

धुसंज्ञकानां मास्थादीनां च एत्वं स्यादार्धधातुके किति लिङि।पेयात्। गातिस्थेति सिचो लुक्। अपात्। अपाताम्।

आतः।३।४।११०।

सिज्लुकि आदन्तादेव झेर्जुस् ॥

उस्यपदान्तात्।६।१।९६।

अपदान्तादकारादुसि पररूपमेकादेशः। अपुः। अपास्यत्।ग्लै हर्षक्षये ॥ १७॥ ग्लायति ॥

आदेच उपदेशेऽशिति।६।१।४५।

उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति। जग्लौ। ग्लाता। ग्लास्यति। ग्लायतु। अग्लायत् । ग्लायेत् ॥

वान्यस्य संयोगादेः।६।४।६८।

घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वार्धधातुके कितिलिङि। ग्लेयात्, ग्लायात् ॥

यमरमनमातां सक् च ।७।२।७३।

एषां सक् स्यादेभ्यः सिच इट् स्यात् परस्मैपदेषु। अग्लासीत्।अग्लास्यत्। ह्वृ कौटिल्ये ॥१८ ॥ ह्वरति ॥

ऋतश्च संयोगादेर्गुणः।७।४।१०।

ऋदन्तस्य संयोगादेरङ्गस्य गुणो लिटि। उपधाया वृद्धिः।जह्वार। जह्वरतुः। जह्वरुः। जह्वर्थ। जह्वरथुः। जह्वर। जह्वार, जह्वर। जह्वरिव। जह्वरिम । ह्वर्ता ॥

ऋद्धनोः स्ये।७।२।७०।

ऋतो हन्तेश्च स्यस्येट्। ह्वरिष्यति। ह्वरतु। अह्वरत्। ह्वरेत् ॥

गुणोऽर्तिसंयोगाद्योः।७।४।२९।

अर्तेः संयोगादेर्ऋदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च। ह्वर्यात्। अह्वार्षीत्। अह्वरिष्यत् । श्रु श्रवणे ॥ १९ ॥

श्रुवः श्रृ च।३।१।७४।

श्रुवः श्रृ इत्यादेशः स्यात् श्नुप्रत्ययश्च । शृणोति ॥

सार्वधातुकमपित्।१।२।४।

अपित्सार्वधातुकं ङिद्वत् । शृणुतः ॥

हुश्नुवोः सार्वधातुके।६।४।८७।

हुश्नुवोरनेकाचोऽसंयोगपूर्वस्योवर्णस्य यण् स्यादचि सार्वधातुके। श्रृण्वन्ति । श्रृणोषि । श्रृणुथः । श्रृणुथ । श्रृणोमि॥

लोपश्चास्यान्यतरस्यां म्वोः।६।४।१०७।

असंयोगपूर्वस्य प्रत्ययोकारस्य लोपो वा म्वोः परयोः। श्रृण्वः। श्रृणुवः। श्रृण्मः,श्रृणुमः। शुश्राव। शुश्रुवतुः। शुश्रुवुः।शुश्रोथ। शुश्रुवथुः। शुश्रुव। शुश्राव, शुश्रुव। शुश्रुम। श्रोता।श्रोष्यति। श्रृणोतु,श्रृणुतात् । श्रृणुताम् । श्रृण्वन्तु ॥

उतश्च प्रत्ययादसंयोगपूर्वात्।६।४।१०६।

असंयोगपूर्वात्प्रत्ययोतो हेर्लुक्। श्रृणु,श्रृणुतात्। श्रृणुतम् ।श्रृणुत। गुणावादेशौ। श्रृणवानि। श्रृणवाव। श्रृणवाम। अश्रृणोत्।अश्रृणुताम्। अश्रृण्वन्। अश्रृणोः। अश्रृणुतम्। अश्रृणुत।अश्रृणवम्। अश्रृण्व, अश्रृणुव। अश्रृण्म, अश्रृणुम। श्रृणुयात्।श्रृणुयाताम्। श्रृणुयुः। श्रृणुयाः। श्रृणुयातम्। श्रृणुयात। श्रृणुयाम्।श्रृणुयाव। श्रृणुयाम। श्रूयात्। अश्रौषीत्। अश्रोष्यत्। गम्लृ गतौ ॥२०॥

इषुगमियमां छः।७।३।७७।

एसां छः स्यात् शिति। गच्छति। जगाम ॥

गमहनजनखनघसां लोपः क्ङित्यनङि।६।४।९८।

एषामुपधाया लोपोऽजादौ क्ङिति न त्वङि। जग्मतुः। जग्मुः।जगमिथ, जगन्थ। जग्मथुः। जग्म। जगाम, जगम। जग्मिव।जग्मिम । गन्ता ॥

गमेरिट् परस्मैपदेषु।७।२।५८।

गमेः परस्य सादेरार्धधातुकस्येट् परस्मैपदेषु। गमिष्यति। गच्छतु।अगच्छत्। गच्छेत् । गम्यात् ॥

पुषादिद्युताद्लृदितः परस्मैपदेषु।३।१।५५।

श्यन्विकरणषुपादेर्द्युतादेर्लृदितश्च परस्य च्लेरङ् परस्मैपदेषु।अगमत् । अगमिष्यत् ॥

॥ इति परस्मैपदिनः ॥

 

एध वृद्धौ ॥१॥

टित आत्मनेपदानां टेरे।३।४।७९।

टितो लस्यात्मनेपदानां टेरेत्वम् । एधते ॥

आतो ङितः।७।२।८१।

अतः परस्य ङितामाकारस्य इय् स्यात् । एधेते । एधन्ते ॥

थासः से।३।४।८०।

टितो लस्य थासः से स्यात्। एधसे। एधेथे । एधध्वे । अतोगुणे। एधे। एधावहे। एधामहे ॥

इजादेश्च गुरुमतोऽनृच्छः।३।१।३६।

इजादिर्योधातुर्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि ॥

आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य।१।३।६३।

आम्प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः। आम्प्रकृत्यातुल्यमनुप्रयुज्यमानात् कृञोऽप्यात्मनेपदम् ॥

लिटस्तझयोरेशिरेच्।३।४।८१।

लिडादेशयोस्तझयोरेश् इरेजेतौ स्तः । एधाञ्चक्रे । एधाञ्चक्राते । एधाञ्चक्रिरे । एधाञ्चकृषे । एधाञ्चक्राथे ॥

इणः षीध्वंलुङ्लिटां धोऽङ्गात्।८।३।७८।

इणन्तादङ्गात्परेषां षीध्वंलुङ्लिटां धस्य ढः स्यात् । एधाञ्चकृढ्वे। एधाञ्चक्रे । एधाञ्चकृवहे । एधाञ्चकृमहे। एधाम्बभूव। एधामास। एधिता। एधितारौ। एधितारः। एधितासे। एधितासाथे ॥

धि च।८।२।२५।

धादौ प्रत्यये परे सस्य लोपः । एधिताध्वे ॥

ह एति।७।४।५२।

तासस्त्योः सस्य हः स्यादेति परे। एधिताहे। एधितास्वहे। एधितास्महे। एधिष्यते। एधिष्येते। एधिष्यन्ते। एधिष्यसे। एधिष्येथे। एधिष्यध्वे। एधिष्ये। एधिष्यावहे । एधिष्यामहे ॥

आमेतः।३।४।९०।

लोट एकारस्याम् स्यात् । एधताम्। एधेताम् । एधन्ताम् ॥

सवाभ्यां वामौ।३।४।९१।

सवाभ्यां परस्य लोडेतः क्रमाद्वामौ स्तः। एधस्व । एधेथाम् । एधध्वम् ॥

एत ऐ।३।४।९३।

लोडुत्तमस्य एत ऐ स्यात् । एधै। एधावहै। एधामहै। आटश्च। ऐधत।ऐधेताम्। ऐधन्त। ऐधथाः। ऐधेथाम्। ऐधध्वम्। ऐधे। ऐधावहि । एधामहि ॥

लिङः सीयुट्।३।४।१०२।

सलोपः। एधेत । एधेयाताम् ॥

झस्य रन्।३।४।१०५।

लिङोः झस्य रन् स्यात् । एधेरन्। एधेथाः। एधेयाथाम् । एधेध्वम् ॥

इटोऽत्।३।४।१०६।

लिङादेशस्य इटोऽत् स्यात् । एधेय। एधेवहि। एधेमहि ॥

सुट् तिथोः।३।४।१०७।

लिङस्तथोः सुट्। यलोपः। आर्धधातुकत्वात् सलोपो न। एधिषीष्ट।एधिषीयास्ताम्। एधिषीरन्। एधिषीष्ठाः। एधिषीयास्थाम्।एधिषीध्वम्। एधिषीय। एधिषीवहि। एधिषीमहि। ऐधिष्ट। ऐधिषाताम् ॥

आत्मनेपदेष्वनतः।७।१।५।

अनकारात्परस्यात्मनेपदेषु झस्यअदित्यादेशः स्यात् । ऐधिषत। ऐधिष्ठाः।ऐधिषाथाम्। ऐधिढ्वम्। ऐधिषि। ऐधिष्वहि। ऐधिष्महि।ऐधिष्यत। ऐधिष्येताम्। ऐधिष्यन्त। ऐधिष्यथाः। ऐधिष्येथाम्।ऐधिष्यध्वम्। ऐधिष्ये। ऐधिष्यावहि। ऐधिष्यामहि। कमु कान्तौ ॥ २॥

कमेर्णिङ्।३।१।३०।

स्वार्थे। ङित्त्वात् तङ् । कामयते ॥

अयामन्ताल्वाय्येत्न्विष्णुषु। ६।४।५५।

आम् अन्त आलु आय्य इत्नु इष्णु एषु णेरयादेशः स्यात् । कामयाञ्चक्रे। आयादय इति णिङ् वा। चकमे।चकमाते। चकमिरे। चकमिषे। चकमाथे। चकमिध्वे। चकमे।चकमिवहे। चकमिमहे। कामयिता। कामयितासे। कमिता।कामयिष्यते, कमिष्यते। कामयताम्। अकामयत। कामयेत।कामयिषीष्ट ॥

विभाषेटः ।८।३।७९।

इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा ढः । कामयिषीढ्वम्, कामयिषीध्वम् । कमिषीष्ट । कमिषीध्वम् ।

णिश्रिद्रुश्रुभ्यः कर्तरि चङ्।३।१।४८।

ण्यन्तात् श्र्यादिभ्यश्च च्लेश्चङ् स्यात् कर्त्रर्थे लुङि परे । अकामि अ त इति स्थिते –

णेरनिटि।६।४।५१।

अनिडादावार्धधातुके परे णेर्लोपः स्यात् ॥

णौ चङ्युपधाया ह्रस्वः।७।४।१।

चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात् ॥

चङि।६।१।११।

चङि परे अनभ्यासस्य धात्ववयवस्यैकाचः प्रथमस्य द्वे स्तोऽजादेर्द्वितीयस्य ॥

सन्वल्लघुनि चङ्परेऽनग्लोपे।७।४।९३।

चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरः तस्य सनीव कार्यंस्याण्णावग्लोपेऽसति ॥

सन्यतः।७।४।७९।

अभ्यासस्यात इत् स्यात् सनि ॥

दीर्घो लघोः ।७।४।९४।

लघोरभ्यासस्य दीर्घः स्यात् सन्वद्भावविषये। अचीकमत, णिङभावपक्षे - (कमेश्च्लेश्चङ् वाच्यः) । अचकमत। अकामयिष्यत, अकमिष्यत । अय गतौ ॥३॥ अयते ॥

उपसर्गस्यायतौ।८।२।१९।

अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात् । प्लायते। पलायते ॥

दयायासश्च।३।१।३७।

दय् अय् आस् एभ्य आम् स्याल्लिटि । अयाञ्चक्रे। अयिता। अयिष्यते । अयताम् । आयत। अयेत। अयिषीष्ट। विभाषेटः । अयिषीढ्वम्, अयिषीध्वम् । आयिष्ट। आयिढ्वम्,आयिध्वम्।आयिष्यत । द्युत दीप्तौ ॥४॥ द्योतते ॥

द्युतिस्वाप्योः संप्रसारणम्।७।४।६७।

अनयोरभ्यासस्य संप्रसारणं स्यात् । दिद्युते ॥

द्युद्भ्यो लुङि।१।३।९१।

द्युतादिभ्योः लुङः परस्मैपदं वा स्यात् । पुषादीत्यङ्। अद्युतत्, अद्योतिष्ट। अद्योतिष्यत। एवं श्विता वर्णे ॥५॥ ञिमिदा स्नेहने ॥६॥ ञिष्विदा स्नेहनमोचनयोः ॥ ७॥मोहनयोरित्येके । ञिक्ष्विदा चेत्येके । रुच दीप्तावभिप्रीतौ च ॥८॥ घुट परिवर्तने ॥९॥ शुभ दीप्तौ ॥१०॥ क्षुभ संचलने ॥११॥ णभ तुभ हिंसायाम् ॥१२-१३॥ स्रंसु भ्रंसु ध्वंसु अवस्रंसने ॥१४-१५-१६॥ ध्वंसु गतौ च । स्रंम्भु विश्वासे ॥१७॥  वृतु वर्तने ॥१८॥ वर्तते। ववृते । वर्तिता ॥

वृद्भ्यः स्यसनोः।१।३।९२।

वृतादिभ्यः पञ्चभ्यो वा परस्मैपदं स्यात्स्ये सनि च ॥

न वृद्भ्यश्चतुर्भ्यः।७।२।५९।

वृतुवृधुश्रृधुस्यन्दूभ्यः सकारादेरार्धधातुकस्येण्न स्यात् तङानयोरभावे।वर्त्स्यति, वर्तिष्यते। वर्तताम्। अवर्तत। वर्तेत। वर्तिषीष्ट।अवर्तिष्ट। अवर्त्स्यत्, अवर्तिष्यत् । दद दाने ॥२०॥ ददते ॥

न शसददवादिगुणानाम्।६।४।१२६।

शसेर्ददेर्वकारादीनां गुणशब्देन विहितो योऽकारस्तस्य एत्वाभ्यासलोपौ न। दददे। दददाते। दददिरे। ददिता। ददिष्यते।ददताम्। अददत। ददेत। ददिषीष्ट। अददिष्ट। अददिष्यत।त्रपूष् लज्जायाम् ॥२१॥ त्रपते ॥

तॄफलभजत्रपश्च।६।४।१२२।

एषामत एत्त्वमभ्यासलोपश्च स्यात् किति लिटि सेटि थलि च। त्रेपे।त्रपिता, त्रप्ता। त्रपिष्यते, त्रप्स्यते। त्रपताम्। अत्रपत। त्रपेत।त्रपिषीष्ट।, त्रप्सीष्ट। अत्रपिष्ट, अत्रप्त। अत्रपिष्यत, अत्रप्स्यत ॥

॥ इत्यात्मनेपदिनः ॥

श्रिञ् सेवायाम् ॥१॥ श्रयति, श्रयते। शिश्राय, शिश्रिये।श्रयितासि, श्रयितासे । श्रयिष्यति, श्रयिष्यते। श्रयतु, श्रयताम्। अश्रयत्, अश्रयत। श्रयेत्, श्रयेत । श्रीयात्, श्रयिषीष्ट। चङ्। अशिश्रियत्, अशिश्रियत। अश्रयिष्यत्, अश्रयिष्यत। भृञ् भरणे ॥२॥ भरति, भरते। बभार। बभ्रतुः। बभ्रुः। बभर्थ। बभृव। बभृम। बभ्रे।बभृषे। भर्तासि, भर्तासे। भरिष्यति, भरिष्यते। भरतु, भरताम्। अभरत्, अभरत। भरेत्, भरेत ॥

रिङ् शयग्लिङ्क्षु।७।४।२८।

शे यकि यादावार्धधातुके लिङि ऋतो रिङ् आदेशः स्यात् । रीङि प्रकृते रिङ्विधानसामर्थ्याद्दीर्घो न । भ्रियात् ॥

उश्च।१।२।१२।

ऋवर्णात्परौ झलादी लिङ्सिचौ कितौ स्तस्तङि। भृषीष्ट । भृषीयास्ताम् । अभार्षीत् ॥

ह्रस्वादङ्गात्।८।२।२७।

सिचो लोपो झलि। अभृत। अभृषाताम् । अभरिष्यत्, अभरिष्यत। हृञ्हरणे ॥३॥ हरति, हरते। जहार। जहर्थ। जह्रिव । जह्रिम । जह्रे । जह्रिषे। हर्तासि, हर्तासे । हरिष्यति, हरिष्यते। हरतु, हरताम्।अहरत्, अहरत। हरेत्, हरेत। ह्रियात्, हृषीष्ट। हृषीयास्ताम्।अहार्षीत्, अहृत। अहरिष्यत्, अहरिष्यत। धृञ् धारणे ॥४॥ धरति, धरते। णीञ् प्रापणे ॥५॥ नयति, नयते। डुपचष् पाके ॥६॥ पचति, पचते। पपाच। पेचिथ, पपक्थ। पेचे। पक्तासि, पक्तासे । भज सेवायाम् ॥७॥ भजति, भजते। बभाज, भेजे। भक्तासि, भक्तासे । भक्ष्यति, भक्ष्यते। अभाक्षीत्, अभक्त। अभक्षाताम्। यज देवपूजासंगतिकरणदानेषु ॥८॥ यजति, यजते ॥

लिट्यभ्यासस्योभयेषाम्।६।१।१७।

वच्यादीनां ग्रह्यादीनां चाभ्यासस्य संप्रसारणं लिटि । इयाज ॥

वचिस्वपियजादीनां किति।६।१।१५।

वचिस्वप्योर्यजादीनां च संप्रसारणं स्यात् किति। ईजतुः। ईजुः। इयजिथ, इयष्ठ। ईजे । यष्टा ॥

षढोः कः सि।८।२।४१।

यक्ष्यति, यक्ष्यते । इज्यात्, यक्षीष्ट। अयाक्षीत्, अयष्ट।वह प्रापणे ॥९॥ वहति, वहते । उवाह । ऊहतुः । ऊहुः । उवाहिथ ॥

झषस्तथोर्धोऽधः।८।२।४०।

झषः परयोस्तथोर्धः स्यान्न तु दधातेः ॥

ढो ढे लोपः।८।३।१३।

सहिवहोरोदवर्णस्य।६।३।११२।

अनयोरवर्णस्य ओत्स्याड्ढलोपे । उवोढ। ऊहे। वोढा। वक्ष्यति। अवाक्षीत्। अवोढाम्।अवाक्षुः। अवाक्षीः। अवोढम्। अवोढ। अवाक्षम्। अवाक्ष्व।अवाक्ष्म। अवोढ। अवक्षाताम्। अवक्षत। अवोढाः। अवक्षाथाम्।अवोढ्वम्। अवक्षि। अवक्ष्वहि। अवक्ष्महि ॥

॥ इति भ्वादयः॥

अथादादयः

अद भक्षणे ॥१।॥

अदिप्रभृतिभ्यः शपः।२।४।७२।

लुक् स्यात्। अत्ति। अत्तः। अदन्ति। अत्सि। अत्थः। अत्थ।अद्मि। अद्वः। अद्मः ॥

लिट्यन्यतरस्याम्।२।४।४०।

अदो घस्लृ वा स्याल्लिटि । जघास। उपधालोपः ॥

शासिवसिघसीनां च।८।३।६०।

इण्कुभ्यां परस्यैषां सस्य षः स्यात् । घस्य चर्त्वम् । जक्षतुः। जक्षुः। जघसिथ। जक्षथुः।जक्ष। जघास,जघस । जक्षिव। जक्षिम। आद। आदतुः। आदुः ॥

इडत्त्यर्तिव्ययतीनाम्।७।२।६६।

अद् ऋ व्येञ् एभ्यस्थलो नित्यमिट् स्यात्। आदिथ। अत्ता।अत्स्यति। अत्तु। अत्तात्। अत्ताम् । अदन्तु ॥

हुझलभ्यो हेर्धिः।६।४।१०१।

होर्झलन्तेभ्यश्च हेर्धिः स्यात् । अद्धि। अत्तात्। अत्तम्। अत्त। अदानि। अदाव । अदाम ॥

अदः सर्वेषाम्।७।३।१००।

अदः परस्यापृक्तसार्वधातुकस्य अट् स्यात्सर्वमतेन । आदत्। आत्ताम्। आदन्।आदः। आत्तम्। आत्त। आदम्। आद्व। आद्म। अद्यात्। अद्याताम्।अद्युः। अद्यात्। अद्यास्ताम् । अद्यासुः ॥

लुङ्सनोर्घस्लृ।२।४।३७।

अदो घस्लृ स्याल्लुङि सनि च । लृदित्त्वादङ् । अघसत्। आत्स्यत्। हन हिंसागत्योः ॥२॥ हन्ति ॥

अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपोझलि क्ङिति।६।४।३७।

अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्झलादौ किति ङिति परे । यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः। तनु क्षणु क्षिणु ऋणु तृणु घृणु वनु मनुतनोत्यादयः। हतः। ध्नन्ति। हंसि। हथः। हथ। हन्मि।हन्वः। हन्मः। जघान। जघ्नतुः। जघ्नुः ॥

अभ्यासाच्च।७।३।५५।

अभ्यासात्परस्य हन्तेर्हस्य कुत्वम् स्यात् । जघनिथ, जघन्थ। जघ्नथुः। जघ्न।जघान, जघन। जघ्निव। जघ्निम। हन्ता। हनिष्यति। हन्तु।हतात्। हताम् । घ्नन्तु ॥

हन्तेर्जः।६।४।३६।

हौ परे ॥

असिद्धवदत्राभात्।६।४।२२।

इत ऊर्ध्वमापादसमाप्तेराभीयम्, समानाश्रये तस्मिन्कर्तव्येतदसिद्धम्। इति जस्यासिद्धत्वान्न हेर्लुक्। जहि, हतात्।हतम्। हत। हनानि। हनाव। हनाम। अहन्। अहताम्। अध्नन्।अहन्। अहतम्। अहत। अहनम्। अहन्व। अहन्म। हन्यात्।हन्याताम् । हन्युः ॥

आर्धधातुके।२।४।३५।

इत्यधिकृत्य ॥

हनो वध लिङि।२।४।४२।

लुङि च।२।४।४३।

वधादेशोऽदन्तः । आर्धधातुके इति विषयसप्तमी, तेन आर्धधातुकोपदेशे आकारान्तत्वादतो लोपः वध्यात् । वध्यास्ताम्। आदेशस्यानेकाच्त्वादेकाच इतीण्निषेधाभावादिट् । ‘अतो हलादेः’इति वृद्धौ प्राप्तायाम् –

अचः परस्मिन् पूर्वविधौ ।१।१।५७।

परनिमित्तोऽजादेशः स्थानिवत्, स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये । इत्यल्लोपस्य स्थानिवत्त्वान्न वृद्धिः । अवधीत् । अहनिष्यत् । यु मिश्रणामिश्रणयोः ॥३॥

उतो वृद्धिर्लुकि हलि।७।३।८९।

लुग्विषये उतो वृद्धिः पिति हलादौ सार्वधातुके न त्वभ्यस्तस्य।यौति। युतः। युवन्ति। यौषि। युथः। युथ। यौमि। युवः। युसः।युयाव। यविता। यविष्यति। यौतु, युतात्। अयौत्। अयुताम्।अयुवन्। युयात। इह उतो वृद्धिर्न, भाष्ये - ‘पिच्च ङिन्न ङिच्च पिन्न’ इतिव्याख्यानात्। युयाताम्। युयुः। यूयात्। यूयास्ताम्। यूयासुः।अयावीत्। अयविष्यत्। या प्रापणे ॥४॥ याति। यातः। यान्ति।ययौ। याता। यास्यति। यातु। अयात् । अयाताम् ॥

लङः शाकटायनस्यैव।३।४।१११।

आदन्तात्परस्य लङो झेर्जुस् वा स्यात् । अयुः। अयान्। यायात्। यायाताम्।यायुः। यायात्। यायास्ताम्। यायासुः। अयासीत्। अयास्यत्।वा गतिगन्धनयोः ॥५॥ भा दीप्तौ ॥६॥ष्णा शौचे ॥७॥श्रापाके ॥८॥ द्रा कुत्सायां गतौ ॥९॥प्सा भक्षणे ॥१०॥रा दाने ॥११॥ला आदाने ॥१२॥दाप् लवने ॥१३॥पा रक्षणे ॥१४॥ ख्या प्रकथने ॥१५॥ अयं सार्वधातुक एव प्रयोक्तव्यः। विद ज्ञाने ॥१६॥

विदो लटो वा।३।४।८३।

वेत्तेर्लटः परस्मैपदानां णलादयो वा स्युः । वेद। विदतुः। विदुः।वेत्थ। विदथुः। विद। वेद। विद्व। विद्म। पक्षे–वेत्ति। वित्तः । विदन्ति ॥

उषविदजागृभ्योऽन्यतरस्याम्।३।१।३८।

एभ्यो लिटि आम्वा स्यात् । विदेरदन्तत्वप्रतिज्ञानादामि न गुणः। विदाञ्चकार, विवेद। वेदिता । वेदिष्यति ॥

विदाङ्कुर्वन्त्वित्यन्यतरस्याम्।३।१।४१।

वेत्तेर्लोटि आम् गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यतेपुरुषवचने न विवक्षिते ॥

तनादिकृञ्भ्य उः।३।१।७९।

तनादेः कृञश्च उः प्रत्ययः स्यात् । शपोऽपवादः। गुणौ । विदाङ्करोतु ॥

अत उत्सार्वधातुके।६।४।११०।

उप्रत्ययान्तस्य कृञोऽत उत्सार्वधातुके क्ङिति । विदाङ्कुरुतात् । विदाङ्कुरुताम् । विदाङ्कुर्वन्तु । विदाङ्कुरु । विदाङ्करवाणि।अवेत्। अवित्ताम् । अविदुः ॥

दश्च।८।२।७५।

धातोर्दस्य पदान्तस्य सिपि रुर्वा। अवेः, अवेत्। विद्यात्।विद्यास्ताम्। विद्युः । विद्यात् । विद्यास्ताम् । अवेदीत्। अवेदिष्यत्। अस् भुवि ॥१७॥ अस्ति ॥

श्नसोरल्लोपः।६।४।१११।

श्नस्यास्तेश्चातो लोपः सार्वधातुके क्ङिति। स्तः। सन्ति।असि। स्थः। स्थ। अस्मि। स्वः। स्मः ॥

उपसर्गप्रादुर्भ्यामस्तिर्यच्परः। ८।३।८७।

उपसर्गेणः प्रादुसश्चास्तेः सस्य षो यकारेऽचि च परे। निष्यात्।प्रनिषन्ति। प्रादुःषन्ति। यच्परः किम् ? अभिस्तः॥

अस्तेर्भूः।२।४।५२।

आर्धधातुके। बभूव। भविता। भविष्यति। अस्तु, स्तात् । स्ताम् । सन्तु ॥

घ्वसोरेद्धावभ्यासलोपश्च।६।४।११९।

घोरस्तेश्चै एत्वं स्याद्धौ परे अभ्यासलोपश्च ।एत्त्वस्यासिद्धत्वाद्धेर्धिः । श्नसोरित्यल्लोपः । तातङ्पक्षे एत्त्वं न, परेणतातङा बाधात् । एधि, स्तात्। स्तम्।स्त। असानि। असाव। असाम। आसीत्। आस्ताम्। आसन्।स्यात्। स्याताम्। स्युः। भूयात्। अभूत्। अभविष्यत्। इण्गतौ ॥१८॥ एति। इतः॥

इणो यण्।६।४।८१।

अजादौ प्रत्यये परे । यन्ति ॥

अभ्यासस्यासवर्णे।६।४।७८।

अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि । इयाय ॥

दीर्घ इणः किति।७।४।६९।

इणोऽभ्यासस्य दीर्घः स्यात् किति लिटि। ईयतुः। ईयुः। इययिथ, इयेथ। एता। एष्यति। एतु। एत् । ऐताम्। आयन्। इयात्॥

एतेर्लिङि।७।४।२४।

उपसर्गात्परस्य इणोऽणो ह्रस्व आर्धधातुके किति लिङि।निरियात्। उभयत आश्रयणे नान्तादिवत्। अभियात्। अणःकिम् ? समेयात् ॥

इणो गा लुङि।२।४।४५।

गातिस्थेति सिचो लुक्। अगात्। ऐष्यत्। शीङ् स्वप्ने ॥१९॥

शीङः सार्वधातुके गुणः।७।४।२१।

क्क्ङिति चेत्यस्यापवादः । शेते । शयाते ॥

शीङो रुट्।७।१।६।

शीङः परस्य झादेशस्यातो रुडागमः स्यात् । शेरते। शेषे। शयाथे। शेध्वे।शये। शेवहे। शेमहे। शिश्ये। शिश्याते। शिश्यिरे। शयिता।शयिष्यते। शेताम्। शयाताम्। अशेत् । अशयाताम् । अशेरत । शयीत। शयीयाताम्। शयीरन्। शयिषीष्ट। अशयिष्ट।अशयिष्यत। इङ् अध्ययने॥२०॥ इङिकावध्युपसर्गतो न व्यभिचरतः। अधीते। अधीयाते । अधीयते ॥

गाङ् लिटि।२।४।४९।

इङो गाङ् स्याल्लिटि । अधिजगे। अधिजगाते । अधिजगिरे । अध्येता। अध्येष्यते। अधीताम्। अधीयाताम्। अधीयताम्। अधीष्व। अधीयाथाम्। अधीध्वम्। अध्ययै। अध्ययावहै। अध्ययामहै। अध्यैत। अध्यैयाताम् । अध्यैयत। अध्यैथाः। अध्यैयाथाम्। अध्यैध्वम् । अध्यैयि। अध्यैवहि। अध्यैमहि। अधीयीत। अधीयीयाताम्। अधीयीरन् । अध्येषीष्ट ॥

विभाषा लुङ्लृङोः।२।४।५०।

इङो गाङ् वा स्यात् ॥

गाङ्कुटादिभ्योऽञ्णिन्ङित्।१।२।१।

गाङादेशात्कुटादिभ्यश्च परेऽञ्णितः प्रत्यया ङितः स्युः ॥

घुमास्थागापाजहातिसां हलि।६।४।६६।

एषामात ईत्स्याद्धलादौ क्ङित्यार्धधातुके। अध्यगीष्ट, अध्यैष्ट। अध्यगीष्यत, अध्यैष्यत। दुह प्रपूरणे॥२१॥दोग्धि। दुग्धः। दुहन्ति। धोक्षि। दुग्धे। दुहाते। दुहते। धुक्षे। दुहाथे। धुग्ध्वे। दुहे। दुह्वहे। दुह्महे। दुदोह, दुदुहे। दोग्धासि, दोग्धासे । धोक्ष्यति, धोक्ष्यते। दोग्धु, दुग्धात्। दुग्धाम्। दुहन्तु। दुग्धि, दुग्धात्। दुग्धम्। दुग्ध। दोहानि। दोहाव । दोहाम । दुग्धाम्। दुहाताम्। दुहताम्।धुक्ष्व। दुहाथाम्। धुग्ध्वम्। दोहै। दोहावहै। दोहामहै।अधोक्। अदुग्धाम्। अदुहन्। अदोहम्। अदुग्ध। अदुहाताम्।अदुहत। अधुग्ध्वम्। दुह्यात्, दुहीत ॥

लिङ्सिचावात्मनेपदेषु।१।२।११।

इक्समीपाद्धलः परौ झलादी लिङ्सचौ कितौ स्तस्तङि । धुक्षीष्ट ॥

शल इगुपधादनिटः क्सः।३।१।४५।

इगुपधो यः शलन्तस्तस्मादनिटश्च्लेः क्सादेशः स्यात् । अधुक्षत् ॥

लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये।७।३।७३।

एषां क्सस्य लुग्वा स्याद्दन्त्ये तङि। अदुग्ध, अधुक्षत ॥

क्सस्याचि।७।३।७२।

अजादौ तङि क्सस्य लोपः। अधुक्षाताम्। अधुक्षन्त। अदुग्धाः, अधुक्षथाः। अधुक्षाथाम्। अधुग्ध्वम्, अधुक्षध्वम्। अधुक्षि।अदुह्वहि, अधुक्षावहि। अधुक्षामहि। अधोक्ष्यत। एवं दिह उपचये॥२२॥लिह आस्वादने॥२३॥ लेढि। लीढः। लिहन्ति। लेक्षि। लीढे।लिहाते। लिहते। लिक्षे। लिहाथे। लीढ्वे। लिलेह, लिलिहे।लेढासि, लेढासे। लेक्ष्यति, लेक्ष्यते। लेढु। लीढाम् । लिहन्तु। लीढि। लेहानि। लीढाम्। अलेट्, अलेड्। अलिक्षत्, अलीढ, अलिक्षत् । अलेक्ष्यत्, अलेक्ष्यत । ब्रूञ् व्यक्तायांवाचि ॥२४॥

ब्रुवः पञ्चानामादित आहो ब्रुवः।३।४।८४।

ब्रुवो लटस्तिबादीनां पञ्चानां णलादयः पञ्च वा स्युर्ब्रुवश्चाहादेशः। आह। आहतुः । आहुः ॥

आहस्थः।८।२।३५।

झलि परे । चर्त्वम्। आत्थ । आहथुः ॥

ब्रुव ईट् ।७।३।९३।

ब्रुवःपरस्य हलादेः पित ईट् स्यात् । ब्रवीति। ब्रूतः। ब्रुवन्ति। ब्रूते।ब्रुवाते । ब्रवते ॥

ब्रुवो वचिः।२।४।५३।

आर्धधातुके। उवाच। ऊचतुः। ऊचुः। उवचिथ, उवक्थ।ऊचे। वक्तासि, वक्तासे । वक्ष्यति, वक्ष्यते। ब्रवीतु, ब्रूतात्। ब्रुवन्तु।ब्रूहि। ब्रवाणि। ब्रूताम्। ब्रवै। अब्रवीत्, अब्रूत। ब्रूयात्, ब्रुवीत। उच्यात्, वक्षीष्ट ॥

अस्यतिवक्तिख्यातिभ्योऽङ्।३।१।५२।

एभ्यश्च्लेरङ् स्यात् ॥

वच उम्।७।४।२०।

अङि परे। अवोचत्,अवोचत । अवक्ष्यत्, अवक्ष्यत। (ग.सू.) चर्करीतं च । चर्करीतमिति यङ्लुगन्तस्य संज्ञा, तददादौ बोध्यम्। ऊर्णुञ्आच्छादने ॥२५॥

ऊर्णोतेर्विभाषा।७।३।९०।

वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके। ऊर्णौति,ऊर्णोति। ऊर्णुतः।ऊर्णुवन्ति। ऊर्णुते। ऊर्णुवाते। ऊर्णुवते।

(ऊर्णोतेराम्नेति वाच्यम्) ॥

न न्द्राः संयोगादयः।६।१।३।

अचः पराः संयोगादयो नदरा द्विर्न भवन्ति। नुशब्दस्य द्वित्वम्।ऊर्णुनाव। ऊर्णुनुवतुः। ऊर्णुनुवुः ॥

विभाषोर्णोः।१।२।३।

इडादिप्रत्ययो वा ङित्स्यात्। ऊर्णुनुविथ, ऊर्णुनविथ। ऊर्णुविता, ऊर्णविता। ऊर्णुविष्यति, ऊर्णविष्यति। ऊर्णौतु, ऊर्णोतु । ऊर्णवानि। ऊर्णवै ॥

गुणोऽपृक्ते।७।३।९१।

ऊर्णोतेर्गुणोऽपृक्ते हलादौ पिति सार्वधातुके। वृद्ध्यपवादः । और्णोत्। और्णोः।ऊर्णुयात्। ऊर्णुयाः। ऊर्णुवीत। ऊर्णूयात्। ऊर्णुविषीष्ट, ऊर्णविषीष्ट ॥

ऊर्णोतेर्विभाषा।७।२।६।

इडादौ सिचि वा वृद्धिः परस्मैपदे परे । पक्षे गुणः। और्णावीत्, और्णवीत्।और्णुवीत् । और्णाविष्टाम्,और्णविष्टाम्, और्णुविष्टाम् ।और्णुविष्ट, और्णविष्ट। और्णुविष्यत्, और्णविष्यत।

॥ इत्यदादयः॥

 

अथ जुहोत्यादयः

हु दानादनयोः ॥ १ ॥

जुहोत्यादिभ्यः श्लुः।२।४।७५।

शपः श्लुः स्यात् ॥

श्लौ।६।१।१०।

धातोर्द्वे स्तः। जुहोति। जुहुतः ॥

अदभ्यस्तात्।७।१।४।

झस्यात्स्यात् । हुश्नुवोरिति यण् । जुह्वति ॥

भीह्रीभृहुवां श्लुवच्च।३।१।३९।

एभ्यो लिटि आम् वा स्यादामि श्लाविव कार्यं च । जुहवाञ्चकार, जुहाव। होता। होष्यति। जुहोतु, जुहुतात्। जुहुताम्। जुह्वतु।जुहुधि। जुहवानि। अजुहोत्। अजुहुताम् ॥

जुसि च।७।३।८३।

इगन्ताङ्गस्य गुणोऽजादौ जुसि। अजुहवुः। जुहुयात्। हूयात्।अहौषीत्। अहोष्यत्। ञिभी भये ॥२॥ बिभेति ॥

भियोऽन्यतरस्याम्।६।४।११५।

इकारो वा स्याद्धलादौ क्ङिति सार्वधातुके। बिभितः, बिभीतः।बिभ्यति।  बिभयाञ्चकार, बिभाय। भेता। भेष्यति। बिभेतु, बिभितात्। अबिभेत् । बिभीयात्। भीयात्।अभैषीत्। अभेष्यत्। ह्री लज्जायाम् ॥३॥ जिह्रेति। जिह्रीतः।जिह्रियति । जिह्रयाञ्चकार, जिह्राय। ह्रेता। ह्रेष्यति। जिह्रेतु।अजिह्रेत्। जिह्रीयात्। ह्रीयात्। अह्रैषीत्। अह्रेष्यत्। पॄ पालनपूरणयोः ॥ ४॥

अर्तिपिपर्त्योश्च।७।४।७७।

अभ्यासस्य इकारोऽन्तादेशः स्यात् श्लौ । पिपर्ति ॥

उदोष्ठ्यपूर्वस्य।७।१।१०२।

अङ्गावयवौष्ठ्यपूर्वो य ऋत् तदन्तस्याङ्गस्य उत् स्यात् ॥

हलि च।८।२।७७।

रेफवान्तस्य धातोरुपधाया इको दीर्घो हलि। पिपूर्तः। पिपुरति । पपार ॥

शॄदॄप्रां ह्रस्वो वा।७।४।१२।

एषां लिटि ह्रस्वो वा स्यात् । पप्रतुः ॥

ऋच्छत्यॄताम्।७।४।११।

तौदादिकऋच्छेर्ऋधातोर्ऋतां च गुणो लिटि। पपरतुः। पपरुः ॥

वॄतो वा।७।२।३८।

वृङ्वृञ्भ्यामॄदन्ताच्चेटो दीर्घो वा स्यान्न तु लिटि। परीता, परिता। परीष्यति, परिष्यति। पिपर्तु। अपिपः। अपिपूर्ताम्।अपिपरुः। पिपूर्यात्। पूर्यात् । अपारीत् ॥

सिचि च परस्मैपदेषु।७।२।४०।

अत्र इटो न दीर्घः। अपारिष्टाम्। अपरीष्यत् । अपरिष्यत् ॥ ओहाक् त्यागे ॥५॥ जहाति ॥

जहातेश्च।६।४।११६।

इद्वा स्याद्धलादौ क्ङिति सार्वधातुके । जहितः ॥

ई हल्यघोः।६।४।११३।

श्नाभ्यस्तयोरात ईत् सार्वधातुके क्ङिति हलादौ न तु घोः । जहीतः ॥

श्नाभ्यस्तयोरातः।६।४।११२।

अनयोरातो लोपः क्ङिति सार्वधातुके । जहति। जहौ। हाता। हास्यति । जहातु, जहितात्, जहीतात् ॥

आ च हौ।६।४।११७।

जहातेर्हौ परे आ स्याच्चादिदीतौ । जहाहि, जहिहि, जहीहि। अजहात्। अजहुः ॥

लोपो यि।६।४।११८।

जहातेरालोपो यादौ सार्वधातुके। जह्यात्। एर्लिङि। हेयात्।अहासीत्। अहास्यत्। माङ् माने शब्दे च ॥ ६॥

भृञामित्।७।४।७६।

भृञ् माङ् ओहाङ् एषां त्रयाणामभ्यासस्य इत्स्यात् श्लौ । मिमीते । मिमाते। मिमते। ममे। माता। मास्यते। मिमीताम्। अमिमीत।मिमीत। मासीष्ट। अमास्त। अमास्यत। ओहाङ् गतौ ॥ ७ ॥ जिहीते। जिहाते। जिहते। जहे। हाता। हास्यते। जिहीताम्।अजिहीत। जिहीत। हासीष्ट। अहास्त। अहास्यत। डुभृञ्धारणपोषणयोः। ॥ ८ ॥ बिभर्ति। बिभृतः। बिभ्रति। बिभृते।बिभ्राते। बिभ्रते । बिभराञ्चकार, बभार। बभर्थ। बभृव । बिभराञ्चक्रे, बभ्रे। भर्तासि, भर्तासे । भरिष्यति, भरिष्यते। बिभर्तु। बिभराणि। बिभृताम्। अबिभः। अबिभृताम्। अबिभरुः। अबिभृत । बिभृयात्, बिभ्रीत। भ्रियात्, भृषीष्ट। अभार्षीत्। अभृत। अभरिष्यत्, अभरिष्यत। डुदाञ् दाने ॥ ९ ॥ ददाति। दत्तः। ददति। दत्ते। ददाते। ददते। ददौ, ददे। दातासि,  दातासे । दास्यति, दास्यते । ददातु ॥

दाधा घ्वदाप्।१।१।२०।

दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना । ध्वसोरित्येत्त्वम्। देहि। दत्तम्। अददात्, अदत्त। दद्यात्, ददीत।देयात्, दासीष्ट। अदात्। अदाताम् । अदुः ॥

स्थाघ्वोरिच्च।१।२।१७।

अनयोरिदन्तादेशः सिच्च कित्स्यादात्मनेपदे। अदित। अदास्यत्, अदास्यत। डुधाञ् धारणपोषणयोः ॥ १० ॥दधाति ॥

दधस्तथोश्च।८।२।३८।

द्विरुक्तस्य झषन्तस्य धाञो बशो भष् स्यात्तथोः स्घ्वोश्च परतः।धत्तः। दधति। दधासि। धत्थः। धत्थ । धत्ते। दधाते। दधते।धत्से । धद्ध्वे ।ध्वसोरेद्धावभ्यासलोपश्च। धेहि। अदधात्, अधत्त। दध्यात्, दधीत। धेयात्। धासीष्ट। अधात्, अधित । अधास्यत्, अधास्यत। णिजिर् शौचपोषणयोः ॥ ११ ॥ (इर इत्संज्ञा वाच्या) ॥

णिजां त्रयाणां गुणः श्लौ।७।४।७५।

णिज्विज्विषामभ्यासस्य गुणः श्लौ। नेनेक्ति। नेनिक्तः। नेनिजति। नेनिक्ते। निनेज, निनिजे। नेक्ता। नेक्ष्यति, नेक्ष्यते।नेनेक्तु । नेनिग्धि ॥

नाभ्यस्तस्याचि पिति सार्वधातुके।७।३।८७।

लघूपधगुणो न स्यात् । नेनिजानि । नेनिक्ताम्। अनेनेक्। अनेनिक्ताम्।अनेनिजुः। अनेनिजम्। अनेनिक्त। नेनिज्यात्। नेनिजीत। निज्यात्, निक्षीष्ट ॥

इरितो वा।३।१।५७।

इरितो धातोश्च्लेरङ् वा परस्मैपदेषु। अनिजत्, अनैक्षीत्, अनिक्त। अनेक्ष्यत्, अनेक्ष्यत ॥

 

॥ इति जुहोत्यादयः ॥

अथ दिवादयः

दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु ॥१॥

दिवादिभ्यः श्यन्।३।१।६९।

शपोऽपवादः। हलि चिति दीर्घः। दीव्यति। दिदेव। देविता।देविष्यति। दीव्यतु। अदीव्यत्। दीव्येत्। दीव्यात्। अदेवीत्।अदेविष्यत्। एवं षिवु तन्तुसंताने ॥ २ ॥नृती गात्रविक्षेपे ॥ ३ ॥ नृत्यति। ननर्त । नर्तिता ॥

सेऽसिचि कृतचृतच्छृदतृदनृतः।७।२।५७।

एभ्यः परस्य सिज्भिन्नस्य सादेरार्धधातुकस्येड्वा। नर्तिष्यति, नर्त्स्यति।नृत्यतु। अनृत्यत्। नृत्येत्। नृत्यात्। अनर्तीत् । अनर्तिष्यत्, अनर्त्स्यत्। त्रसी उद्वेगे ॥ ४ ॥ वा भ्राशेति श्यन्वा।त्रस्यति, त्रसति । तत्रास ॥

वा जॄभ्रमुत्रसाम्।६।४।१२४।

एषां किति लिटि सेटि थलि च एत्वाभ्यासलोपौ वा। त्रेसतुः।तत्रसतुः। त्रेसिथ, तत्रसिथ। त्रसिता। शो तनूकरणे ॥ ५ ॥

ओतः श्यनि।७।३।७१।

लोपः स्यात् । श्यति । श्यतः । श्यन्ति। शशौ। शशतुः। शाता। शास्यति ॥

विभाषा घ्राधेट्शाच्छासः।२।४।७८।

एभ्यः सिचो लुग्वा स्यात्परस्मैपदे परे । अशात्। अशाताम्। अशुः। इट्सकौ । आशासीत् । अशासिष्टाम्। छो छेदने ॥ ६ ॥ छ्यति। षोऽन्तकर्मणि ॥ ७ ॥ स्यति।ससौ। दोऽवखण्डने ॥ ८ ॥ द्यति। ददौ। देयात्। अदात्।व्यध ताडने ॥। ९ ॥

ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनांङिति च।६।१।१६।

एषां संप्रसारणं स्यात्किति ङिति च। विध्यति। विव्याध।विविधतुः। विविधुः। विव्यधिथ, विव्यद्ध। व्यद्धा। व्यत्स्यति।विध्येत्। विध्यात्। अव्यात्सीत्। पुष पुष्टौ ॥ १० ॥ पुष्यति। पुपोष । पुपोषिथ। पोष्टा। पोक्ष्यति। पुषादीत्यङ्। अपुषत्। शुषशोषणे ॥ ११ ॥ शुष्यति। शुशोष। अशुषत्। णश अदर्शने ॥ १२ ॥ नश्यति। ननाश। नेशतुः ॥

रधादिभ्यश्च।७।२।४५।

रध् नश् तृप्, दृप्, द्रुह् मुह् ष्णुह् ष्णिह् एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात् । नेशिथ ॥

मस्जिनशोर्झलि।७।१।६०।

नुम् स्यात् । ननंष्ठ। नेशिव, नेश्व । नेशिम,नेश्म । नशिता, नंष्टा। नशिष्यति, नङ्क्ष्यति। नश्यतु। अनश्यत्। नश्येत्। नश्यात्। अनशत्। षूङ्प्राणिप्रसवे ॥ १३ ॥ सूयते। सुषुवे। क्रादिनियमादिट्। सुषुविषे।सुषुविवहे। सुषुविमहे। सविता, सोता। दूङ् परितापे ॥ १४ ॥ दूयते। दीङ् क्षये ॥ १५ ॥ दीयते ॥

दीङो युडचि क्ङिति।६।४।६३।

दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट्। (वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ) । दिदीये ॥

मीनाति-मिनोति-दीङां ल्यपि च।६।१।५०।

एषामात्त्वंस्याल्ल्यपि चादशित्येज्निमित्ते। दाता। दास्यति। (स्थाध्वोरित्त्वे दीङ् प्रतिषेधः) । अदास्त। डीङ् विहायसा गतौ ॥ १६ ॥ डीयते। डिड्ये। डयिता।पीङ् पाने ॥ १७ ॥ पीयते। पेता। अपेष्ट। माङ् माने ॥ १८ ॥

मायते। ममे। जनी प्रादुर्भावे ॥ १९ ॥

ज्ञाजनोर्जा।७।३।७९।

अनयोर्जादेशः स्याच्छिति । जायते । जज्ञे । जनिता । जनिष्यते ॥

दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्।३।१।६१।

एभ्यश्च्लेश्चिण् वास्यादेकवचने तशब्दे परे ॥

चिणो लुक्।६।४।१०४।

चिणः परस्य लुक् स्यात् ।

जनिवध्योश्च।७।३।३५।

अनयोरुपधाया वृद्धिर्न स्याच्चिणि ञ्णिति कृति च। अजनि, अजनिष्ट।दीपी दीप्तौ ॥ २० ॥ दीप्यते। दिदीपे। अदीपि, अदीपिष्ट। पदगतौ ॥ २१ ॥ पद्यते। पेदे। पत्ता। पत्सीष्ट ॥

चिण् ते पदः।३।१।६०।

पदेश्च्लेश्चिण् स्यात्तशब्दे परे। अपादि। अपत्साताम्। अपत्सत। विदसत्तायाम् ॥ २२ ॥ विद्यते। वेत्ता। अवित्त। बुध अवगमने ॥ २३ ॥ बुध्यते। बोद्धा । भोत्स्यते। भुत्सीष्ट। अबोधि, अबुद्ध । अभुत्साताम्। युध संप्रहारे ॥२४॥ युध्यते। युयुधे। योद्धा । अयुद्ध। सृज विसर्गे ॥ २५ ॥ सृज्यते। ससृजे। ससृजिषे ॥

सृजिदृशोर्झल्यमकिति।६।१।५८।

अनयोरमागमः स्याज्झलादावकिति। स्रष्टा। स्रक्ष्यति। सृक्षीष्ट। असृष्ट।असृक्षाताम्। मृष तितिक्षायाम् ॥२६॥ मृष्यति, मृष्यते। ममर्ष।ममर्षिथ। ममृषिषे। मर्षितासि। मर्षितासे । मर्षिष्यति, मर्षिष्यते। णह बन्धने ॥२७॥ नह्यति, नह्यते। ननाह। नेहिथ, ननद्ध । नेहे । नद्धा। नत्स्यति। अनात्सीत्, अनद्ध ॥

॥ इति दिवादयः॥

अथ स्वादयः

षुञ् अभिषवे ॥ १ ॥

स्वादिभ्यः श्नुः।३।१।७३।

शपोऽपवादः। सुनोति। सुनुतः। हुश्नुवोरिति यण्। सुन्वन्ति। सुन्वः, सुनुवः। सुनुते। सुन्वाते। सुन्वते। सुन्वहे,

सुनुवहे। सुषाव, सुषुवे। सोता। सुनु। सुनवानि। सुनवै । सुनुयात् । सूयात् ॥

स्तुसुधूञ्भ्यः परस्मैपदेषु ।७।२।७२।

एभ्यस्सिच इट् स्यात्परस्मैपदेषु । असावीत्, असोष्ट। चिञ् चयने ॥ २ ॥ चिनोति, चिनुते ॥

विभाषा चेः।७।३।५८।

अभ्यासात्परस्य कुत्वं वा स्यात्सनि लिटि च। चिकाय, चिचाय, चिक्ये, चिच्ये। अचैषीत्, अचेष्ट। स्तृञ् आच्छादने ॥ ३ ॥ स्तृणोति, स्तृणुते ॥

शर्पूर्वाः खयः।७।४।६१।

अभ्यासस्य शर्पूर्वाः खयः शिष्यन्तेऽन्ये हलो लुप्यन्ते। तस्तार।तस्तरतुः। तस्तरे। गुणोऽर्तीति गुणः। स्तर्यात् ॥

ऋतश्च संयोगादेः।७।२।४३।

ऋदन्तात्संयोगादेः परयोर्लिङ्सिचोरिड्वा स्यात्तङि । स्तरिषीष्ट, स्तृषीष्ट । अस्तरिष्ट, अस्तृत। धूञ् कम्पने ॥४॥ धूनोति, धूनुते। दुधाव।स्वरतीति वेट् । दुधविथ, दुधोथ ॥

श्र्युकः किति।७।२।११।

श्रिञ एकाच उगन्ताच्च गित्कितोरिण् न । परमपि स्वरत्यादिविकल्पं बाधित्वा पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादनेन निषेधे प्राप्ते क्रादिनियमान्नित्यमिट्। दुधुविव। दुधुवे। अधावीत्, अधविष्ट, अधोष्ट।अधविष्यत्, अधोष्यत्। अधविष्यताम्, अधोष्यताम्। अधविष्यत, अधोष्यत ॥

॥ इति स्वादयः॥

अथ तुदादयः

तुद व्यथने ॥ १ ॥

तुदादिभ्यः शः।३।१।७७।

शपोऽपवादः। तुदति, तुदते। तुतोद। तुतोदिथ। तुतुदे।तोत्ता। अतौत्सीत्। अतुत्त। णुद प्रेरणे ॥ २ ॥ नुदति, नुदते । नुनोद। नोत्ता। भ्रस्ज पाके ॥ ३ ॥ ग्रहिज्येति संप्रसारणम्। सस्यश्चुत्वेन शः। शस्य जश्त्वेन जः। भृज्जति, भृज्जते ॥

भ्रस्जो रोपधयो रमन्यतरस्याम्।६।४।४७।

भ्रस्जो रेफस्योपधायाश्च स्थाने रमागमो वा स्यादार्धधातुके। मित्त्वादन्त्यादचः परः। स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः। बभर्ज।बभर्जतुः। बभर्जिथ, बभर्ष्ठ। बभ्रज्ज। बभ्रज्जतुः। बभ्रज्जिथ।स्कोरिति सलोपः। व्रश्चेति षः। बभ्रष्ठ। बभर्जे, बभ्रज्जे। भर्ष्टा, भ्रष्टा। भर्क्ष्यति, भ्रक्ष्यति। क्ङिति रमागमं बाधित्वा संप्रसारणंपूर्वविप्रतिषेधेन। भृज्ज्यात्। भृज्ज्यास्ताम्। भृज्ज्यासुः। भर्क्षीष्ट, भ्रक्षीष्ट। अभार्क्षीत्, अभ्राक्षीत्। अभर्ष्ट। अभ्रष्ट। कृष विलेखने ॥ ४ ॥ कृषति, कृषते। चकर्ष, चकृषे ॥

अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् ।६।१।५९।

उपदेशेऽनुदात्तो य ऋदुपधस्तस्याम्वा स्याज्झलादावकिति। क्रष्टा, कर्ष्टा। कृक्षीष्ट। (स्पृशमृशकृषतृपट्टपां च्लेः सिज्वा वाच्यः) । अक्राक्षीत्, अकार्क्षीत्, अकृक्षत्। अकृष्ट। अकृक्षाताम्। अकृक्षत । क्सपक्षे- अकृक्षत । अकृक्षाताम् । अकृक्षन्त ॥ मिल संगमे ॥ ५ ॥मिलति, मिलते। मिमेल। मेलिता। अमेलीत्। मुच्लृ मोचने ॥ ६ ॥

शे मुचादीनाम्।७।१।५९।

मुच्लिप्विद्लुप्सिच्कृत्खिद्पिशां नुम् स्यात् शे परे । मुञ्चति, मुञ्चते।मोक्ता। मुच्यात्। मुक्षीष्ट। अमुचत्, अमुक्त। अमुक्षाताम्। लुप्लृछेदने ॥ ७ ॥  लुम्पति, लुम्पते। लोप्ता। अलुपत्, अलुप्त।विद्लृ लाभे ॥ ८ ॥ विन्दति, विन्दते। विवेद, विविदे । व्याघ्रभूतिमते सेट्।  वेदिता। भाष्यमतेऽनिट्। परिवेत्ता। षिच क्षरणे ॥ ९ ॥ सिञ्चति, सिञ्चते ॥

लिपिसिचिह्वश्च।३।१।५३।

एभ्यश्च्लेरङ् स्यात् । असिचत् ॥

आत्मनेपदेष्वन्यतरस्याम्।३।१।५४।

लिपिसिचिह्वः परस्य च्लेरङ् वा। असिचत, असिक्त। लिपउपदेहे ॥ १० ॥ उपदेहो वृद्धिः। लिम्पति, लिम्पते। लेप्ता।अलिपत्, अलिपत, अलिप्त ॥

॥ इत्युभयपदिनः॥

कृती छेदने ॥ ११ ॥ कृन्तति। चकर्त। कर्तिता। कर्तिष्यति, कर्त्स्यति। अकर्तीत्। खिद परिघाते ॥ १२ ॥ खिन्दति। चिखेद।खेत्ता। पिश अवयवे ॥ १३ ॥ पिंशति। पेशिता। ओव्रश्चू छेदने ॥ १४ ॥ वृश्चति। वव्रश्च। वव्रश्चिथ, वव्रष्ठ। व्रश्चिता, व्रष्टा।व्रश्चिष्यति, व्रक्ष्यति। वृश्च्यात्। अव्रश्चीत्, अव्राक्षीत् ।व्यच व्याजीकरणे ॥१५॥ विचति। विव्याच। विविचतुः। व्यचिता। व्यचिष्यति।विच्यात्। अव्याचीत्, अव्यचीत्। व्यचेः कुटादित्वमनसीति तु नेहप्रवर्तते, अनसीति पर्युदासेन कृन्मात्रविषयत्वात्। उच्छि उञ्छे ॥ १६ ॥ उञ्छति ।‘उञ्छः कणश आदानं कणिशाद्यर्जनं शिलम् ।’

इति यादवः।ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु ॥ १७ ॥ ऋच्छति। ऋच्छत्यॄतामितिगुणः। द्विहल्ग्रहणस्यानेकहलुपलक्षणत्वान्नुट्। आनर्च्छ।आनर्च्छतुः। ऋच्छिता। उज्झ उत्सर्गे ॥ १८ ॥ उज्झति। लुभ

विमोहने ॥ १९ ॥ लुभति ॥

तीषसहलुभरुषरिषः।७।२।४८।

इच्छत्यादेः परस्य तादेरार्धधातुकस्येड्वा स्यात्। लोभिता, लोब्धा। लोभिष्यति। तृपतृम्फ तृप्तौ ॥ २०-२१ ॥ तृपति। ततर्प।तर्पिता। अतर्पीत्। तृम्फति। (शे तृम्फादीनां नुम् वाच्यः) । आदिशब्दः प्रकारे, तेन येऽत्रनकारानुषक्तास्ते तृम्फादयः। ततृम्फ। तृफ्यात्। मृड पृड सुखने ॥ २२-२३ ॥ मृडति। पृडति। शुन गतौ ॥२४॥शुनति। इषु इच्छायाम् ॥ २५ ॥ इच्छति। एषिता, एष्टा। एषिष्यति। इष्यात्। ऐषीत्।कुट कौटिल्ये ॥ २६ ॥ गाङ्कुटादीति ङित्त्वम्। चुकुटिथ। चुकोट, चुकुट। कुटिता। पुट संश्लेषणे ॥ २७ ॥ पुटति। पुटिता। स्फुटविकसने ॥ २८ ॥ स्फुटति। स्फुटिता। स्फुर स्फुल संचलने ॥ २९-३०॥ स्फुरति । स्फुलति ॥

स्फुरतिस्फुलत्योर्निर्निविभ्यः।८।३।७६।

षत्वं वा स्यात् । निःष्फुरति, निःस्फुरति। णू स्तवने ॥ ३१ ॥ परिणूतगुणोदयः। नुवति। नुनाव। नुविता। टुमस्जो शुद्धौ ॥ ३२ ॥ मज्जति। ममज्ज। ममज्जिथ । मस्जिनशोरिति नुम्। (मस्जेरन्त्यात्पूर्वो नुम्वाच्यः) । संयोगादिलोपः । ममङ्क्थ । मङ्क्ता। मङ्क्ष्यति। अमाङ्क्षित्। अमाङ्क्ताम्। अमाङ्क्षुः।रुजो भङ्गे ॥ ३३ ॥ रुजति। रोक्ता। रोक्ष्यति। अरौक्षीत्। भुजोकौटिल्ये ॥ ३४ ॥ रुजिवत्। विश प्रवेशने ॥ ३५ ॥ विशति। मृशआमर्शने ॥ ३६ ॥ आमर्शनं स्पर्शः। अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्।अम्राक्षीत्, अमार्क्षीत्, अमृक्षत्। षद्लृ विशरणगत्यवसादनेषु ॥ ३७ ॥ सीदतीत्यादि। शद्लृ शातने ॥ ३८ ॥

शदेः शितः।१।३।६०।

शिद्भाविनोऽस्मात्तङानौ स्तः। शीयते। शीयताम्। अशीयत। शियेत । शशाद। शत्ता। शत्स्यति। अशदत्। अशत्स्यत्। कॄविक्षेपे ॥ ३९ ॥

ॠत इद्धातोः ।७।१।१००।

ऋदन्तस्य धातोरङ्गस्य इत्स्यात् । किरति। चकार। चकरतुः। चकरुः। करिता। करीता, कीर्यात् ॥

किरतौ लवने।६।१।१४०।

उपात्किरतेः सुट् छेदने। उपस्किरति। (अडभ्यासव्यवायेऽपि सुट् कात् पूर्व इति वक्तव्यम्) ।  उपास्किरत्। उपचस्कार ॥

हिंसायां प्रतेश्च।६।१।१४१।

उपात्प्रतेश्च किरतेः सुट् स्यात् हिंसायाम्। उपस्किरति । प्रतिस्किरति। गॄ निगरणे ॥ ४० ॥

अचि विभाषा।८।२।२१।

गिरते रेफस्य लोवाऽजादौ प्रत्यये। गिरति, गिलति। जगार, जगाल । जगरिथ, जगलिथ। गरीता, गरिता, गलीता, गलिता । प्रच्छ ज्ञीप्सायाम् ॥ ४१ ॥ ग्रहिज्येति संप्रसारणम्। पृच्छति। पप्रच्छ।पप्रच्छतुः। पप्रच्छुः। प्रष्टा। प्रक्ष्यति। अप्राक्षीत्। मृङ् प्राणत्यागे ॥ ४२ ॥

म्रियतेर्लुङ्लिङोश्च।१।३।६१।

लुङ्लिङोः शितश्च प्रकृतिभूतान्मृङस्तङ् नान्यत्र। रिङ्।इयङ्। म्रियते। ममार। मर्ता। मरिष्यति। मृषीष्ट। अमृत। पृङ्व्यायामे ॥ ४३ ॥ प्रायेणायं व्याङ्पूर्वः। व्याप्रियते। व्यापप्रे। व्यापप्राते।व्यापरिष्यते। व्यापृत। व्यापृषाताम्। जुषी प्रीतिसेवनयोः ॥ ४४ ॥  जुषते।जुजुषे। ओविजी भयचलनयोः ॥ ४५ ॥ प्रायेणोत्पूर्वः। उद्विजते ॥

विज इट्।१।२।२।

विजेः पर इडादिप्रत्ययो ङिद्वत् । उद्विजिता ॥

॥ इति तुदादयः॥

 

अथ रुधादयः

रुधिर् आवरणे ॥ १ ॥

रुधादिभ्यः श्नम् ।३।१।७८।

शपोऽपवादः। रुणद्धि। श्नसोरल्लोपः । रुन्धः । रुन्धन्ति। रुणत्सि।रुन्धः । रुन्ध । रुणध्मि। रुन्ध्वः। रुन्ध्मः । रुन्धे । रुन्धाते।रुन्धते। रुन्त्से। रुन्धाथे। रुन्ध्वे । रुन्धे। रुन्ध्वहे। रुन्ध्महे।रुरोध, रुरुधे। रोद्धासि, रोद्धासे । रोत्स्यति, रोत्स्यते । रुणद्धु, रुन्धात्।रुन्धाम्। रुन्धन्तु। रुन्धि । रुणधानि। रुणधाव। रुणधाम।रुन्धाम्। रुन्धाताम्। रुन्धताम्। रुन्त्स्व। रुणधै। रुणधावहै।रुणधामहै। अरुणत्, अरुणद्। अरुन्धाम्। अरुन्धन्। अरुणः, अरुणत्, अरुणद् । अरुन्ध । अरुन्धाताम्। अरुन्धत। अरुन्धाः । रुन्ध्यात् । रुन्धीत । रुध्यात्, रुत्सीष्ट।अरुधत्, अरौत्सीत्। अरुद्ध । अरुत्साताम् । अरुत्सत । अरोत्स्यत्, अरोत्स्यत। भिदिर् विदारणे ॥ २ ॥ छिदिर् द्वैधीकरणे ॥ ३ ॥युजिर् योगे ॥ ४ ॥ रिचिर् विरेचने ॥ ५ ॥ रिणक्त, रिङ्क्ते। रिरेच। रेक्ता। रेक्ष्यति। अरिणक्। अरिचत्, अरैक्षित्, अरिक्त। विचिर् पृथग्भावे ॥ ६ ॥ विनक्ति, विङ्क्ते । क्षुदिर् संपेषणे ॥ ७ ॥ क्षुणत्ति, क्षुन्ते। क्षोत्ता। अक्षुदत्, अक्षौत्सीत्, अक्षुत्त। उच्छृदिर् दीप्तिदेवनयोः ॥ ८ ॥ छृणत्ति, छृन्ते।चच्छर्द। सेऽसिचीति वेट्। चच्छृदिषे, चच्छृत्से । छर्दिता। छर्दिष्यति, छर्त्स्यति। अच्छृदत्, अच्छर्दीत्, अच्छर्दिष्ट। उतृदिर् हिंसानादरयोः। ॥९॥ तृणत्ति, तृन्ते। कृती वेष्टने ॥ १० ॥ कृणत्ति। तृहहिसि हिंसायाम् ॥ ११-१२ ॥

तृणह इम्।७।३।९२।

तृहः श्नमि कृते इमागमो हलादौ पिति सार्वधातुके । तृणेढि। तृण्ढः। ततर्ह।तर्हिता। अतृणेट् ॥

श्नान्नलोपः।६।४।२३।

श्नमः परस्य नस्य लोपः स्यात्। हिनस्ति । जिहिंस । हिंसिता ॥

तिप्यनस्तेः ।८।२।७३।

पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः । ससजुषोरुरित्यस्यापवादः । अहिनत्, अहिनद् । अहिंस्ताम् । अहिंसन् ॥

सिपि धातो रुर्वा ।८।२।७४।

पदान्तस्य धातोः सस्य रुः स्याद्वा, पक्षे दः । अहिनः, अहिनत्, अहिनद् । उन्दीक्लेदने ॥ १३ ॥ उनत्ति। उन्तः। उन्दन्ति । उन्दाञ्चकार। औनत्।औन्ताम्। औन्दन्। औनः, औनत्, औनद् । औनदम् । अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु ॥ १४ ॥ अनक्ति। अङ्क्तः । अञ्जन्ति। आनञ्ज। आनञ्जिथ, आनङ्क्थ। अञ्जिता, अङ्क्ता। अङ्ग्धि । अनजानि । आनक् ॥

अञ्जेः सिचि।७।२।७१।

अञ्जेः सिचो नित्यमिट् स्यात् । आञ्जीत्। तञ्चू संकोचने ॥ १५ ॥ तनक्ति। तञ्चिता, तङ्क्ता । ओविजी भयचलनयोः ॥ १६ ॥ विनक्ति। विङ्क्तः। विज इडिति ङित्त्वम्। विविजिथ। विजिता।अविनक्। अविजीत्। शिष्लृ विशेषणे ॥ १७ ॥ शिनष्टि। शिंष्टः।शिंषन्ति। शिनक्षि। शिशेष। शिशेषिथ। शेष्टा। शेक्ष्यति। हेर्धिः।शिण्ड्ढि । शिनषाणि । अशिनट्। शिंष्यात्। शिष्यात्। अशिषत्।एवं पिष्लृ संचूर्णने ॥ १८ ॥भञ्जो आमर्दने ॥१९ ॥ श्नान्नलोपः । भनक्ति। बभञ्जिथ, बभङ्क्थ।भङ्क्ता। भङ्ग्धि। अभाङ्क्षीत्।भृज पालनाभ्यवहारयोः ॥ २० ॥ भुनक्ति। भोक्ता। भोक्ष्यति । अभुनक् ॥

भुजोऽनवने।१।३।६६।

तङानौ स्तः। ओदनं भुङ्क्ते। अनवने किम् ? महीं भुनक्ति।ञिइन्धीदीप्तौ ॥ २१ ॥ इन्द्धे । इन्धाते । इन्धते । इन्त्से । इन्धाञ्चक्रे। इन्धिता। इन्धाम्। इन्धाताम्। इनधै। ऐन्ध । ऐन्धाताम्। ऐन्धाः । विद विचारणे ॥ २२ ॥ विन्ते । वेत्ता ॥

॥ इति रुधादयः॥

अथ तनादयः

तनु विस्तारे ॥ १ ॥

तनादिकृञ्भ्य उः।३।१।७९।

शपोऽपवादः। तनोति, तनुते। ततान, तेने। तनितासि, तनितासे। तनिष्यति, तनिष्यते । तनोतु । तनुताम्। अतनोत्,अतनुत । तनुयात्, तन्वीत। तन्यात्, तनिषीष्ट। अतानीत्, अतनीत् ॥

तनादिभ्यस्तथासोः।२।४।७९।

तनोदेः सिचो वा लुक् स्यात्तथासोः। अतत, अतनिष्ट। अतथाः, अतनिष्ठाः। अतनिष्यत्, अतनिष्यत ॥षणु दाने ॥ २ ॥ सनोति, सनुते ॥

ये विभाषा ।६।४।४३।

जनसनखनामात्वं वा यादौ क्ङिति। सायात् । सन्यात् ॥

जनसनखनां सञ्झलोः।६।४।४२।

एषामाकारोऽन्तादेशः स्यात् सनि झलादौ क्ङिति। असात, असनिष्ट। असाथाः, असनिष्ठाः। क्षणु हिंसायाम् ॥३॥ क्षणोति, क्षणुते। ह्यन्तेति नवृद्धिः। अक्षणीत्,  अक्षत, अक्षणिष्ट। अक्षथाः, अक्षणिष्ठाः।क्षिणु च ॥ ४ ॥ उप्रत्यये लधूपधस्य गुणो वा। क्षेणोति, क्षिणोति।क्षेणिता। अक्षेणीत्। अक्षित, अक्षेणिष्ट। तृणु अदने ॥ ५ ॥ तृणोति, तर्णोति, तृणुते, तर्णुते। डुकृञ् करणे ॥ ६ ॥ करोति ॥

अत उत्सार्वधातुके।६।४।११०।

उप्रत्ययान्तस्य कृञोऽकारस्य उः स्यात् सार्वधातुके क्ङिति । कुरुतः ॥

न भकुर्छुराम्।८।२।७९।

भस्य कुर्छुरोरुपधाया न दीर्घः । कुर्वन्ति ॥

नित्यं करोतेः।६।४।१०८।

करोतेः प्रत्ययोकारस्य नित्यं लोपो म्वोः परयोः । कुर्वः। कुर्मः।कुरुते। चकार, चक्रे। कर्तासि, कर्तासे । करिष्यति, करिष्यते। करोतु।कुरुताम्। अकरोत् । अकुरुत ॥

ये च।६।४। १०९।

कृञ उलोपो यादौ प्रत्यते परे । कुर्यात्, कुर्वीत। क्रियात्, कृषीष्ट।अकार्षीत्, अकृत। अकरिष्यत्, अकरिष्यत ॥

सम्परिभ्यां करोतौ भूषणे।६।१।१३७।

समवाये च।६।१।१३८।

सम्परिपूर्वस्य करोतेः सुट् स्याद् संघाते भूषणे चार्थे । । संस्करोति । अलङ्करोतीत्यर्थः। संस्कुर्वन्ति । सङ्धीभवन्तीत्यर्थः। संपूर्वस्य क्वचिदभूषणेऽपि सुट्। संस्कृतं भक्षा इति ज्ञापकात् ॥

उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च।६।१।१३९।

उपात्कृञः सुट् स्यादेष्वर्थेषु चात्प्रागुक्तयोरर्थयोः। प्रतियत्नो गुणाधानम्।विकृतमेव वैकृतं विकारः । वाक्याध्याहार आकाङ्क्षितैकदेशपूरणम्।उपस्कृता कन्या। उपस्कृता ब्राह्मणाः। एधो दकस्योपस्कुरुते। उपस्कृतं भुङ्क्ते। उपस्कृतं ब्रूते। वनु याचने ॥ ७ ॥ वनुते। ववने।मनु अवबोधने ॥ ८ ॥ मनुते। मेने। मनिता। मनिष्यते । मनुताम्। अमनुत। मन्वीत। मनिषीष्ट। अमत, अमनिष्ट । अमनिष्यत ॥

॥ इति तनादयः॥

अथ क्र्यादयः

डुक्रीञ् द्रव्यविनिमये ॥ १ ॥

क्र्यादिभ्यः श्ना।३।१।८१।

शपोऽपवादः । क्रीणाति। ईहल्यघोः। क्रीणीतः। श्नाभ्यस्तयोरातः।क्रीणन्ति। क्रीणासि। क्रीणीथः। क्रीणीथ। क्रीणामि। क्रीणीवः।क्रीणीमः। क्रीणीते। क्रीणाते। क्रीणते। क्रीणीषे। क्रीणाथे।क्रीणीध्वे। क्रीणे। क्रीणीवहे। क्रीणीमहे। चिक्राय। चिक्रियतुः।चिक्रियुः। चिक्रयिथ, चिक्रेथ । चिक्रिय । चिक्रिये । क्रेता। क्रेष्यति, क्रेष्यते। क्रीणातु, क्रीणीतात्। क्रीणीताम्। अक्रीणात्, अक्रीणीत।क्रीणीयात्, क्रीणीत। क्रीयात्, क्रेषीष्ट। अक्रैषीत्, अक्रेष्ट।अक्रेष्यत्, अक्रेष्यत। प्रीञ् तर्पणे कान्तौ च ॥ २ ॥ प्रीणाति, प्रीणीते। श्रीञ् पाके ॥ ३ ॥ श्रीणाति, श्रीणीते। मीञ् हिंसायाम् ॥ ४ ॥

हिनुमीना।८।४।१५।

उपसर्गस्थान्निमित्तात्परस्यैतयोर्नस्य णः स्यात्। प्रमीणाति, प्रमीणीते। मीनातीत्यात्वम्। ममौ। मिम्यतुः ।  ममिथ, ममाथ।मिम्ये। माता। मास्यति। मीयात्, मासीष्ट। अमासीत्।अमासिष्टाम्। अमास्त। षिञ् बन्धने। ॥ ५ ॥ सिनाति, सिनीते।सिषाय, सिष्ये। सेता। स्कुञ् आप्लवने ॥ ६ ॥

स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च।३।१।८२।

चात् श्ना। स्कुनोति, स्कुनाति । स्कुनुते, स्कुनीते। चुस्काव, चुस्कुवे। स्कोता। अस्कौषीत्, अस्कोष्ट । स्तन्भ्वादयश्चत्वारः सौत्राः । सर्वे रोधनार्थाः परस्मैपदिनः ॥

हलः श्नः शानज्झौ।३।१।८३।

हलः परस्य श्नः शानजादेशः स्याद्धौ परे । स्तभान ॥

जॄस्तन्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च।३।१।५८।

च्लेरङ् वा स्यात् ॥

स्तन्भेः।८।३।६७।

स्तन्भेः सौत्रस्य सस्य षः स्यात्। व्यष्टभत्। अस्तम्भीत्।युञ् बन्धने ॥ ७ ॥ युनाति, युनीते। योता। क्नूञ् शब्दे॥८॥ क्नूनाति, क्नूनीते। क्नविता। द्रूञ् हिंसायाम् ॥ ९ ॥ द्रूणाति, द्रूणीते । दॄविदारणे ॥ १० ॥दृणाति, दृणीते। पूञ् पवने ॥ ११ ॥

प्वादीनां ह्रस्वः ।७।३।८०।

पूञ्लूञ्स्तॄञ्कॄञ्वॄञ्धूञ्शॄपॄवॄभॄमॄदॄजॄझॄधॄनॄकॄॠगॄज्यारीलीव्लीप्लीनां चतुर्विंशतेः शिति ह्रस्वः । पुनात, पुनीते। पविता। लूञ्छेदने ॥ १२ ॥ लुनाति, लुनीते। स्तॄञ् आच्छादने ॥ १३ ॥ स्तृणाति। शर्पूर्वाः खयः। तस्तार। तस्तरतुः। तस्तरे। स्तरीता, स्तरिता। स्तृणीयात्, स्तृणीत । स्तीर्यात् ॥

लिङ्सिचोरात्मनेपदेषु।७।२।४२।

वृङ्वृञ्भ्यामॄदन्ताच्च परयोर्लिङ्सिचोरिड् वा स्यात् तङि ॥

न लिङि।७।२।३९।

वॄत इटो लिङि न दीर्घः। स्तरिषीष्ट। उश्चेति कित्त्वम् । स्तीर्षीष्ट। सिचि च परस्मैपदेषु। अस्तारीत्। अस्तारिष्टाम् । अस्तारिषुः। अस्तरीष्ट, अस्तरिष्ट, अस्तीर्ष्ट। कृञ् हिंसायाम् ॥ १४ ॥ कृणाति, कृणीते। चकार, चकरे। वॄञ् वरणे ॥ १५ ॥ वृणाति, वृणीते।ववार, ववरे। वरिता, वरीता। उदोष्ठ्येत्युत्वम्। वूर्यात्। वरिषीष्ट, वूर्षीष्ट। अवारीत्। अवारिष्टाम्। अवरिष्ट, अवरीष्ट, अवूर्ष्ट। धूञ्कम्पने ॥ १६ ॥ धुनाति, धुनीते। धविता, धोता। अधावीत्।अधविष्ट, अधोष्ट। ग्रह उपादाने ॥।१७ ॥ गृह्णाति, गृह्णीते।जग्राह, जगृहे ॥

ग्रहोऽलिटि दीर्घः।७।२।३७।

एकाचो ग्रहेर्विहितस्येटो दीर्घो न तु लिटि। ग्रहीता।  गृह्णातु।हलः श्नः शानज्झाविति श्नः शानजादेशः । गृहाण । गृह्यात् । ग्रहीषीष्ट।ह्यन्तेति न वृद्धिः। अग्रहीत्। अग्रहीष्टाम्। अग्रहीष्ट। अग्रहीषाताम्। कुष निष्कर्षे ॥ १८ ॥ कुष्णाति। कोषिता। अश भोजने ॥ १९ ॥ अश्नाति। आश। अशिता। अशिष्यति। अश्नातु। अशान। मुषस्तेये ॥ २० ॥ मोषिता। मुषाण। ज्ञा अवबोधने ॥ २१ ॥ जज्ञौ।वृङ् संभक्तौ ॥ २२ ॥ वृणीते। ववृषे। ववृढ्वे। वरिता, वरीता।अवरीष्ट, अवरिष्ट, अवृत ॥

॥ इति क्र्यादयः॥

 

अथ चुरादयः

चुर स्तेये ॥ १ ॥

सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।३।१।२५।

एभ्यो णिच् स्यात् । चूर्णान्तेभ्यः ‘प्रातिपदिकाद्धात्वर्थे’ इत्येव सिद्धे तेषामिह ग्रहणं प्रपञ्चार्थम् । चुरादिभ्यस्तु स्वार्थे। पुगन्तेति गुणः। सनाद्यन्ता इति धातुत्वम्। तिप्शबादि।गुणायादेशौ। चोरयति ॥

णिचश्च।१।३।७४।

णिजन्तादात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले। चोरयते। चोरयामास।चोरयिता। चोर्यात्, चोरयिषीष्ट। णिश्रीति चङ्। णौ चङीतिह्रस्वः । चङीति द्वित्वम्। हलादिः शेषः। दीर्घो लघोरित्यभ्यासस्यदीर्घः। अचूचुरत्, अचूचुरत। कथ वाक्यप्रबन्धे ॥ २ ॥ अल्लोपः ॥

अचः परस्मिन्पूर्वविधौ।१।१।५७।

अल्विध्यर्थमिदम् । परनिमित्तोऽजादेशः स्थानिवत् स्यात्स्थानिभूतादचः पूर्वत्वेन दृष्टस्यविधौ कर्तव्ये। इति स्थानिवत्त्वान्नोपधावृद्धिः। कथयति। अग्लोपित्वाद्दीर्घसन्वद्भावौ न। अचकथत्। गण संख्याने ॥ ३ ॥ गणयति॥

ई च गणः।७।४।९७।

गणयतेरभ्यासस्य ईस्याच्चाङ्परे णौ चादत् । अजीगणत्। अजगणत् ॥

॥ इति चुरादयः॥

अथ ण्यन्तप्रक्रिया

स्वतन्त्रः कर्ता।१।४।५४।

क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् ॥

तत्प्रयोजको हेतुश्च।१।४।५५।

कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात् ॥

हेतुमति च ।३।१।२६।

प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच् स्यात् । भवन्तं प्रेरयति भावयति ॥

ओः पुयण्ज्यपरे।७।४।८०।

सनि परे यदङ्गं तदवयवाभ्यासोकारस्य इत्स्यात् पवर्गयण्जकारेष्ववर्णपरेषु परतः। अबीभवत्। ष्ठा गतिनिवृत्तौ॥

अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ् णौ ।७।३।३६।

स्थापयति ॥

तिष्ठतेरित्।७।४।५।

उपधाया इदादेशः स्याच्चङ्परेणौ। अतिष्ठिपत्। घट चेष्टायाम् ॥

मितां ह्रस्वः।६।४।९२।

घटादीनां ज्ञपादीनां चोपधाया ह्रस्वः स्याण्णौ । घटयति। ज्ञप ज्ञाने ज्ञापनेच। ज्ञपयति । अजिज्ञपत् ॥

॥ इति ण्यन्तप्रक्रिया॥

 

 

अथ सन्नन्तप्रक्रिया

धातोः कर्मणः समानकर्तृकादिच्छायां वा।३।१।७।

इषिकर्मणो इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम् । पठ व्यक्तायां वाचि  ॥

सन्यङोः।६।१।९।

सन्नन्तस्य यङन्तस्य च धातोरनभ्यासस्य प्रथमस्यैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य। सन्यतः। पठितुमिच्छति पिपठिषति। कर्मणः किम् ?गमनेनेच्छति। समानकर्तृकात् किम् ? शिष्याः पठन्त्वितीच्छति गुरुः।वाग्रहणाद्वाक्यमपि। लुङ्सनोर्घस्लृ ॥

सः स्यार्धधातुके।७।४।४९।

सस्य तः स्यात्सादावार्धधातुके। अत्तुमिच्छति जिघत्सति।एकाच इति नेट् ॥

अज्झनगमां सनि।६।४।१६।

अजन्तानां हन्तेरजादेशगमेश्च दीर्घो झलादौ सनि ॥

इको झल्।१।२।९।

इगन्ताज्झलादिः सन् कित् स्यात् । ऋत इद्धातोः। कर्तुमिच्छतिचिकीर्षति ॥

सनि ग्रहगुहोश्च।७।२।१२।

ग्रहेर्गुहेरुगन्ताच्च सन इण् न स्यात्। बुभूषति ॥

॥इति सन्नन्ताः॥

अथ यङन्तप्रक्रिया

धातोरेकाचो हलादेः क्रियासमभिहारे यङ्।३।१।२२।

पौनःपुन्ये भृशार्थे च द्योत्ये धातोरेकाचो हलादेर्यङ् स्यात् ॥

गुणो यङ्लुकोः।७।४।८२।

अभ्यासस्य गुणो यङि यङ्लुकि च परतः । ङिदन्तत्वादात्मनेपदम्। पुनः पुनरतिशयेन वा भवति बोभूयते । बोभूयाञ्चक्रे।अबोभूयिष्ट ॥

नित्यं कौटिल्ये गतौ।३।१।२३।

गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे ॥

दीर्घोऽकितः।७।४।८३।

अकितोऽभ्यासस्य दीर्घो यङ्यङ्लुकोः। कुटिलं व्रजति । वाव्रज्यते ॥

यस्य हलः।६।४।४९।

यस्येति संघातग्रहणम् । हलः परस्य यशब्दस्य लोप आर्धधातुके। आदेः परस्य। अतोलोपः । वाव्रजाञ्चक्रे। वाव्रजिता ॥

रीगृदुपधस्य च।७।४।९०।

ऋदुपधस्य धातोरभ्यासस्य रीगागमो यङ्यङ्लुकोः। वरीवृत्यते।वरीवृताञ्चक्रे । वरीवर्तिता ॥

क्षुभ्नादिषु च।८।४।३९।

णत्वं न। नरीनृत्यते । जरीगृह्यते ॥

॥ इति यङन्तप्रक्रिया॥

अथ यङ्लुक्प्रक्रिया

यङोऽचि च  ।२।४।७४।

यङोऽचि प्रत्यये लुक् स्यात्, चकारात्तं विनापि क्वचित्। अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवति। ततः प्रत्ययलक्षणेन यङन्तत्वाद्द्वित्वम्। अभ्यासकार्यम्। धातुत्वाल्लडादयः। शेषात्कर्तरीतिपरस्मैपदम्। चर्करीतं चेत्यदादौ पाठाच्छपो लुक् ॥

यङो वा।७।३।९४।

यङ्लुगन्तात्परस्य हलादेः पितः सार्वधातुकस्येड् वा  स्यात्। भूसुवोरिति गुणनिषेधो यङ्लुकि भाषायां न, बोभोतु तेतिक्ते इति छन्दसिनिपातनात्। बोभवीति, बोभोति। बोभूतः। अदभ्यस्तात्।बोभुवति । बोभवाञ्चकार, बोभवामास। बोभविता। बोभविष्यति।बोभवीतु, बोभोतु, बोभूतात्। बोभूताम्। बोभुवतु। बोभूहि।बोभवानि। अबोभवीत्, अबोभोत्। अबोभूताम्। अबोभवुः।बोभूयात्। बोभूयाताम्। बोभूयुः। बोभूयात्। बोभूयास्ताम्।बोभूयासुः। गातिस्थेति सिचो लुक्। यङो वेतीट्पक्षे गुणं बाधित्वानित्यत्वाद्वुक्। अबोभूवीत्, अबोभोत्। अबोभूताम्। अबोभूवुः।अबोभविष्यत् ॥

॥ इति यङ्लुक्प्रक्रिया ॥

अथ नामधातवः

सुप आत्मनः क्यच्।३।१।८।

इषिकर्मण एषितुः संबन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात् ॥

सुपो धातुप्रातिपदिकयोः ।२।४।७१।

एतयोरवयवस्य सुपो लुक् ॥

क्यचि च।७।४।३३।

अवर्णस्य ईः । आत्मनः पुत्रमिच्छति पुत्रीयति ॥

नः क्ये।१।४।१५।

क्यचि क्यङि च नान्तमेव पदं नान्यत्। नलोपः। राजीयति।नान्तमेवेति किम् ? वाच्यति। हलि च। गीर्यति। पूर्यति।धातोरित्येव। नेह - दिवमिच्छति दिव्यति ॥

क्यस्य विभाषा।६।४।५०।

हलः परयोः क्यच्क्यङोर्लोपो वार्धधातुके। आदेः परस्य। अतोलोपः। तस्य स्थानिवत्त्वाल्लघूपधगुणो न। समिधिता, समिध्यिता ॥

काम्यच्च।३।१।९।

उक्तविषये काम्यच् स्यात् । पुत्रमात्मन इच्छतिपुत्रकाम्यति। पुत्रकाम्यिता ॥

उपमानादाचारे।३।१।१०।

उपमानात्कर्मणः सुबन्तादाचारेऽर्थे क्यच् । पुत्रमिवाचरतिपुत्रीयति छात्रम्। विष्णूयति द्विजम्। (सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः) । अतो गुणे । कृष्ण इवाचरति कृष्णति। स्व इवाचरति स्वति। सस्वौ ॥

अनुनासिकस्य क्विझलोः क्ङिति।६।४।१५।

अनुनासिकान्तस्योपधाया दीर्घः स्यात्क्वौ झलादौ च क्ङिति।इदमिवाचरति इदामति। राजेव राजानति । पन्था इव पथीनति ॥

कष्टाय क्रमणे।३।१।१४।

चतुर्थ्यन्तात्कष्टशब्दादुत्साहेऽर्थे क्यङ् स्यात् । कष्टाय क्रमते कष्टायते। पापं कर्तुमुत्सहत इत्यर्थः ॥

शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे।३।१।१७।

एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात् । शब्दं करोति शब्दायते ॥ (ग.सू.) तत्करोति तदाचष्टे, इति णिच्। (ग.सू.)

प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च। प्रातिपदिकाद्धात्वर्थे णिच्स्यात्, इष्ठे यथा प्रातिपदिकस्य पुंवद्भावरभावटिलोपविन्मतुब्लोपयणादिलोपप्रस्थस्फाद्यादेशभसंज्ञास्तद्वण्णावपि स्युः। इत्यग्लोपः।घटं करोत्याचष्टे वा घटयति ॥

॥ इति नामधातवः॥

अथ कण्ड्वादयः

कण्ड्वादिभ्यो यक्।३।१।२७।

एभ्यो धातुभ्यो नित्यं यक् स्यात् स्वार्थे। कण्डूञ् गात्रविधर्षणे ॥ १ ॥ कण्डूयति। कण्डूयते । इत्यादि ॥

॥ इति कण्ड्वादयः॥

 

॥अथात्मनेपदप्रक्रिया ॥

कर्तरि कर्मव्यतिहारे।१।३।१४।

क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदम्। व्यतिलुनीते। अन्यस्य योग्यं लवनं करोतीत्यर्थः ॥

न गतिहिंसार्थेभ्यः।१।३।१५।

व्यतिगच्छन्ति । व्यतिघ्नन्ति ॥

नेर्विशः।१।३।१७।

निविशते ॥

परिव्यवेभ्यः क्रियः।१।३।१८।

परिक्रीणीते। विक्रीणीते । अवक्रीणीते ॥

विपराभ्यां जेः।१।३।१९।

विजयते । पराजयते ॥

समवप्रविभ्यः स्थः।१।३।२२।

संतिष्ठते। अवतिष्ठते। प्रतिष्ठते। वितिष्ठते ॥

अपह्नवे ज्ञः।१।३।४४।

शतमपजानीते। अपलपतीत्यर्थः ॥

अकर्मकाच्च ।१।३।४५।

सर्पिषो जानीते। सर्पिषोपायेन प्रवर्तत इत्यर्थः।

उदश्चरः सकर्मकात् १।३।५३।

धर्ममुच्चरते । उल्लङ्घ्य गच्छतीत्यर्थः ॥

समस्तृतीयायुक्तात्।१।३।५४।

रथेन सञ्चरते ॥

दाणश्च सा चेच्चतुर्थ्यर्थे।१।३।५५।

सम्पूर्वाद्दाणस्तृतीयान्तेन युक्तादुक्तं स्यात् तृतीया चेच्चतुर्थ्यर्थे।दास्या संयच्छते कामी॥

पूर्ववत्सनः।१।३।६२।

सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात्। एदिधिषते ॥

हलन्ताच्च।१।२।१०।

इक्समीपाद्धलः परो झलादिः सन् कित् । निविविक्षते ॥

गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः।१।३।३२।

गन्धनं सूचनम्। उत्कुरुते । सूचयतीत्यर्थः। अवक्षेपणं भर्त्सनम्।श्येनो वर्तिकामुत्कुरुते। भर्त्सयतीत्यर्थः। हरिमुपकुरुते। सेवतइत्यर्थः। परदारान्प्रकुरुते । तेषु सहसा प्रवर्तते। एधो दकस्योपस्कुरुते । गुणमाधत्ते। कथाः प्रकुरुते। प्रकथयतीत्यर्थः। शतंप्रकुरुते । धर्मार्थं विनियुङ्क्ते। एषु किम् ? कटं करोति॥

भुजोऽनवने।१।३।६६।

ओदनं भुङ्क्ते। अनवने किम् ? महीं भुनक्ति ॥

॥इत्यात्मनेपदप्रक्रिया॥

 

अथ परस्मैपदप्रक्रिया

अनुपराभ्यां कृञः।१।३।७९।

कर्तृगे च फले गन्धनादौ च परस्मैपदं स्यात् । अनुकरोति । पराकरोति ॥

अभिप्रत्यतिभ्यः क्षिपः।१।३।८०।

क्षिप प्रेरणे। स्वरितेत् । अभिक्षिपति ॥

प्राद्वहः।१।३।८१।

प्रवहति॥

परेर्मृषः। १।३।८२।

परिमृष्यति ॥

व्याङ्परिभ्यो रमः।१।३।८३।

रमु क्रीडायाम् । विरमति ॥

उपाच्च। १।३।८४।

यज्ञदत्तमुपरमति। उपरमयतीत्यर्थः। अन्तर्भावितण्यर्थोऽयम्॥

॥ इति परस्मैपदप्रक्रिया ॥

॥ इति पदव्यवस्था ॥

अथ भावकर्मप्रक्रिया

भावकर्मणोः।१।३।१३।

लस्यात्मनेपदम् ॥

सार्वधातुके यक्।३।१।६७।

धातोर्यक् भावकर्मवाचिनि सार्वधातुके। भावः क्रिया सा चभावार्थकलकारेणानूद्यते। युष्मदस्मद्भ्यां सामानाधिकरण्याभावात्प्रथमः पुरुषः। तिङ्वाच्यक्रियाया अद्रव्यरूपत्वेन द्वित्वाद्यप्रतीतेर्नद्विवचनादि किंत्वेकवचनमेवोत्सर्गतः। त्वया मया अन्यैश्च भूयते। बभूवे ॥

स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च।६।४।६२।

उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्यं वा स्यात्स्यादिषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च। चिण्वद्भावपक्षेऽयमिट्। चिण्वद्भावाद् वृद्धिः। भाविता, भविता । भाविष्यते, भविष्यते। भूयताम्। अभूयत। भाविषीष्ट । भविषीष्ट ॥

चिण् भावकर्मणोः।३।१।६६।

च्लेश्चिण् स्याद्भावकर्मवाचिनि तशब्दे परे। अभावि। अभाविष्यत, अभविष्यत। अकर्मकोऽप्युपसर्गवशात्- सकर्मकः। अनुभूयते। आनन्दश्चैत्रैण त्वया मया च। अनुभूयेते। अनुभूयन्ते। त्वमनुभूयसे।अहमनुभूये। अन्वभावि। अन्वभाविषाताम्, अन्वभविषाताम्।णिलोपः। भाव्यते । भावयाञ्चक्रे, भावयाम्बभूवे, भावयामासे।चिण्वदिट्। आभीयत्वेनासिद्धत्वाण्णिलोपः। भाविता, भावयिता। भाविष्यते, भावयिष्यते । अभाव्यत् । भाव्येत । भाविषीष्ट, भावयिषीष्ट । अभावि। अभाविषाताम्, अभावयिषाताम्। बुभूष्यते। बुभूषाञ्चक्रे। बुभूषिता। बुभूषिष्यते। बोभूय्यते। बोभूयते । अकृत्सार्वधातुकयोर्दीर्घः। स्तूयते विष्णुः। स्ताविता, स्तोता।स्ताविष्यते, स्तोष्यते। अस्तावि। अस्ताविषाताम्, अस्तोषाताम्।ऋ गतौ। गुणोऽर्तीति गुणः। अर्यते। स्मृ स्मरणे। स्मर्यते। सस्मरे।उपदेशग्रहणाच्चिण्वदिट्। आरिता, अर्ता। स्मारिता, स्मर्ता।अनिदितामिति नलोपः। स्रस्यते। इदितस्तु नन्द्यते।संप्रसारणम् । इज्यते ॥

तनोतेर्यकि।६।४।४४।

आकारोऽन्तादेशो वा स्यात् । तायते, तन्यते ॥

तपोऽनुतापे च।३।१।६५।

तपश्च्लेश्चिण् न स्यात् कर्मकर्तर्यनुतापे च। अन्वतप्त पापेन।धुमास्थेतीत्त्वम्। दीयते। धीयते। ददे॥

आतो युक् चिण्कृतोः।७।३।३३।

आदन्तानां युगागमः स्याच्चिणि ञ्णिति कृति च। दायिता, दाता।दायिषीष्ट, दासीष्ट। अदायि। अदायिषाताम् । भज्यते ॥

भञ्जेश्च चिणि।६४।३३॥

नलोपो वा स्यात् । अभाजि, अभञ्जि । लभ्यते ॥

विभाषा चिण्णमुलोः।७।१।६९।

लभेर्नुमागमो वा स्यात् । अलम्भि, अलाभि॥

॥इति भावकर्मप्रक्रिया॥

 

अथ कर्मकर्तृप्रक्रिया

यदा कर्मैव कर्तृत्वेन विवक्षितं तदा सकर्मकाणामप्यकर्मकत्वात्कर्तरि भावे च लकारः ॥

कर्मवत्कर्मणा तुल्यक्रियः।३।१।८७।

कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत्स्यात्। कार्यातिदेशोऽयम्। तेन यगात्मनेपदचिण्चिण्वदिटः स्युः। पच्यते फलम्।भिद्यते काष्ठम्। अपाचि। अभेदि। भावे, भिद्यते काष्ठेन ॥

॥इति कर्मकर्तृप्रक्रिया॥

 

अथ लकारार्थप्रक्रिया

अभिज्ञावचने लृट्।३।२।११२।

स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लृट्। लङोऽपवादः। वसनिवासे। स्मरसि कृष्ण गोकुले वत्स्यामः। एवं बुध्यसे चेतयसेइत्यादिप्रयोगेऽपि॥

न यदि।३।२।११३।

यद्योगे उक्तं न। अभिजानासि कृष्ण यद्वने अभुञ्जमहि ॥

लट् स्मे।३।२।११८।

लिटोऽपवादः । यजति स्म युधिष्ठिरः ॥

वर्तमानसामीप्ये वर्तमानवद्वा।३।३।१३१।

वर्तमाने ये प्रत्यया उक्तास्ते वर्तमानसामीप्ये भूते भविष्यति चवा स्युः। कदागतोऽसि । अयमागच्छामि,अयमागमं वा। कदा गमिष्यसि । एष गच्छामि, गमिष्यामि वा ॥

हेतुहेतुमतोर्लिङ्।३।३।१५६।

वा स्यात्। कृष्णं नमेच्चेत्सुखं यायात्। कृष्णं नंस्यति चेत्सुखंयास्यति। (भविष्यत्येवेष्यते) । नेह। हन्तीति पलायते॥ विधिनिमन्त्रणेति लिङ् । विधिः प्रेरणं भृत्यादेर्निकृष्टस्य प्रवर्तनम्।यजेत। निमन्त्रणं नियोगकरणम्, आवश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम्। इह भुञ्जीत। आमन्त्रणं कामचारानुज्ञा।इहासीत। अधीष्टं सत्कारपूर्वको व्यापारः। पुत्रमध्यापयेद्भवान्।संप्रश्नः संप्रधारणम्। किं भो वेदमधीयीय उत तर्कम्। प्रार्थनंयाच्ञा। भो भोजनं लभेय । एवं लोट् ॥

॥इति लकारार्थप्रक्रिया ॥

॥ इति तिङन्तं समाप्तम् ॥

 

अथ कृदन्ते कृत्यप्रक्रिया

धातोः।३।१।९१।

आतृतीयाध्यायसमाप्तेर्ये प्रत्ययास्ते धातोः परे स्युः। कृदतिङिति कृत्संज्ञा ॥

वासरूपोऽस्त्रियाम्।३।१।९४।

अस्मिन्धात्वधिकारेऽसरूपोऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात् स्त्र्यधिकारोक्तं विना ॥

कृत्याः।३।१।९५।

ण्वुल्तृचावित्यतः प्राक् कृत्यसंज्ञाः स्युः ॥

कर्तरि कृत्।३।४।६७।

कृत्प्रत्ययः कर्तरि स्यात् । इति प्राप्ते –

तयोरेव कृत्यक्तखलर्थाः।३।४।७०।

एते भावकर्मणोरेव स्युः ॥

तव्यत्तव्यानीयरः।३।१।९६।

धातोरेते प्रत्ययाः स्युः। एधितव्यम्, एधनीयं त्वया। भावे औत्सर्गिकमेकवचनं क्लीबत्वं च। चेतव्यश्चयनीयो वा धर्मस्त्वया। (केलिमर उपसंख्यानम्) पचेलिमा माषाः। पक्तव्या इत्यर्थः।भिदेलिमाः सरलाः। भेत्तव्याः इत्यर्थः। कर्मणि प्रत्ययः॥

कृत्यल्युटो बहुलम्।३।३।११३।

क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव ।

विधेर्विधानं बहुधा समीक्ष्यचतुर्विधं बाहुलकं वदन्ति॥१॥

स्नात्यनेनेति स्नानीयं चूर्णम् । दीयतेऽस्मै दानीयो विप्रः ॥

अचो यत् ।३।१।९७।

अजन्ताद्धातोर्यत् स्यात् । चेयम् ॥

ईद्यति।६।४।६५।

यति परे आत ईत्स्यात्। देयम् । ग्लेयम् ॥

पोरदुपधात्।३।१।९८।

पवर्गान्ताददुपधाद्यत्स्यात् । ण्यतोऽपवादः। शप्यम् । लभ्यम् ॥

एतिस्तुशास्वृदृजुषः क्यप्।३।१।१०९।

एभ्यः क्यप् स्यात् ॥

ह्रस्वस्य पिति कृति तुक्।६।१।७१।

इत्यः । स्तुत्यः। शासु अनुशिष्टौ ॥

शास इदङ्हलोः।६।४।३४।

शास उपधाया इत्स्यादङि हलादौ क्ङिति । शिष्यः।वृत्यः। आदृत्यः । जुष्यः ॥

मृजेर्विभाषा।३।१।११३।

मृजेः क्यब्वा । मृज्यः ॥

ऋहलोर्ण्यत्।३।१।१२४।

ऋवर्णान्ताद्धलन्ताच्च धातोर्ण्यत्। कार्यम्। हार्यम् । धार्यम् ॥

चजोः कु घिण्ण्यतोः ।७।३।५२।

चजोः कुत्वं स्यात् घिति ण्यति च परे ॥

मृजेर्वृद्धिः।७।२।११४।

मृजेरिको वृद्धिः सार्वधातुकार्धधातुकयोः । मार्ग्यः ॥

भोज्यं भक्ष्ये।७।३।६९।

भोग्यमन्यत् ॥

॥इति कृत्यप्रक्रिया॥

 

अथ पूर्वकृदन्तम्

ण्वुल्तृचौ। ३।१।१३३।

धातोरेतौ स्तः। कर्तरि कृदिति कर्त्रर्थे॥

युवोरनाकौ।७।१।१।

यु वु एतयोरनाकौ स्तः। कारकः । कर्ता ॥

नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः।३।१।१३४।

नन्द्यादेर्ल्युः, ग्रह्यादेर्णिनिः, पचादेरच् स्यात् । नन्दयतीति नन्दनः। जनमर्दयतीति जनार्दनः । लवणः। ग्राही। स्थायी। मन्त्री । पचादिराकृतिगणः ॥

इगुपधज्ञाप्रीकिरः कः।३।१।१३५।

एभ्यः कः स्यात् । बुधः । कृशः। ज्ञः। प्रियः। किरः॥

आतश्चोपसर्गे।३।१।१३६।

प्रज्ञः। सुग्लः ॥

गेहे कः।३।१।१४४।

गेहे कर्तरि ग्रहेः कः स्यात् । गृहम् ॥

कर्मण्यण्।३।२।१।

कर्मण्युपपदे धातोरण् प्रत्ययः स्यात् । कुम्भं करोतीति कुम्भकारः ॥

आतोऽनुपसर्गे कः।३।२।३।

आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यात् । अणोऽपवादः। आतो लोप इटि च । गोदः। धनदः। कम्बलदः। अनुपसर्गे किम् ? गोसन्दायः । (वा.) मूलविभुजादिभ्यःकः। मूलानि विभूजति मूलविभुजो रथः।आकृतिगणोऽयम्। महीध्रः । कुध्रः॥

चरेष्टः।३।२।१६।

अधिकरणे उपपदे । कुरुचरः ॥

भिक्षासेनादायेषु च।३।२।१७।

भिक्षाचरः। सेनाचरः। आदायेति ल्यबन्तम्। आदायचरः॥

कृञो हेतुताच्छील्यानुलोम्येषु।३।२।२०।

एषु द्योत्येषु करोतेष्टः स्यात् ॥

अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य।८।३।४६।

अदुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सादेशः करोत्यादिषुपरेषु। यशस्करी विद्या। श्राद्धकरः। वचनकरः॥

एजेः खश्।३।२।२८।

ण्यन्तादेजेः खश् स्यात् ॥

अरुर्द्विषदजन्तस्य मुम्।६।३।६७।

अरुषो द्विषतोऽजन्तस्य च मुमागमः स्यात्खिदन्ते परे न त्वव्ययस्य। शित्त्वाच्छबादिः। जनमेजयतीति जनमेजयः॥

प्रियवशे वदः खच्।३।२।३८।

प्रियंवदः। वंशवदः ॥

अन्येभ्योऽपि दृश्यन्ते।३।२।७५।

मनिन् क्वनिप् वनिप् विच् एते प्रत्यया धातोः स्युः ॥

नेड्वशि कृति।७।२।८।

वशादेः कृत इण् न स्यात् । शॄ हिंसायाम्। सुशर्मा प्रातरित्वा ॥

विड्वनोरनुनासिकस्याऽऽत्।६।४।४१।

अनुनासिकस्याऽऽत्स्यात्। विजायत इति विजावा। ओणृ अपनयने। अवावा। विच्। रुष रिष हिंसायाम्। रोट्। रेट् । सुगण् ॥

क्विप् च।३।२।७६।

अयमपि दृश्यते। उखास्रत्। पर्णध्वत् । वाहभ्रट् ॥

सुप्यजातौ णिनिस्ताच्छील्ये।३।२।७८।

अजात्यर्थे सुपि धातोर्णिनिस्ताच्छील्ये द्योत्ये । उष्णभोजी ॥

मनः।३।२।८२।

सुपि मन्यतेर्णिनिः स्यात्। दर्शनीयमानी ॥

आत्ममाने खश् च।३।२।८३।

स्वकर्मके मनने वर्तमानान्मन्यतेः सुपि खश् स्यात्चाण्णिनिः।पण्डितमात्मानं मन्यते पण्डितम्मन्यः। पण्डितमानी ॥

खित्यनव्ययस्य।६।३।६६।

खिदन्ते परे पूर्वपदस्य ह्रस्वः।  ततो मुम् । कालिम्मन्या ॥

करणे यजः।३।२।८५।

करणे उपपदे भूतार्थे यजेर्णिनिः कर्तरि। सोमेनेष्टवान् सोमयाजी। अग्निष्टोमयाजी ॥

दृशेः क्वनिप्।३।२।९४।

कर्मणि भूते। पारं दृष्टवान्। पारदृश्वा ॥

राजनि युधिकृञः।३।२।९५।

क्वनिप्स्यात् । युधिरन्तर्भावितण्यर्थः। राजानं योधितवान् राजयुध्वा । राजकृत्वा ॥

सहे च।३।२।९६।

कर्मणीति निवृत्तम् । सह योधितवान् सहयुध्वा। सहकृत्वा ॥

सप्तम्यां जनेर्डः। ३।२।९७।

तत्पुरुषे कृति बहुलम्।६।३।१४।

ङेरलुक्। सरसिजम्, सरोजम् ॥

उपसर्गे च संज्ञायाम्।३।२।९९।

प्रजा स्यात्संततौ जने ॥

क्तक्तवतू निष्ठा ।१।१।२६।

एतौ निष्ठासंज्ञौ स्तः ॥

निष्ठा।३।२।१०२।

भूतार्थवृत्तेर्धातोर्निष्ठा स्यात् । तत्र तयोरेवेति भावकर्मणोः क्तः । कर्तरिकृदिति कर्तरि क्तवतुः उकावितौ । स्नातं मया। स्तुतस्त्वया विष्णुः। विश्वं कृतवान् विष्णुः ॥

रदाभ्यां निष्ठातो नः पूर्वस्य च दः।८।२।४२।

रदाभ्यां परस्य निष्ठातस्य नः स्यात् निष्ठापेक्षया पूर्वस्य धातोर्दस्य च । श्रृहिंसायाम्। ऋत इत् ।  रपरः । णत्वम्।  शीर्णः। भिन्नः । छिन्नः ॥

संयोगादेरातो धातोर्यण्वतः।८।२।४३।

निष्ठातस्य नः स्यात्। द्राणः । ग्लानः ॥

ल्वादिभ्यः।८।२।४४।

एकविंशतेर्लूञादिभ्यः प्राग्वत्। लूनः। ज्या धातुः। ग्रहिज्येति संप्रसारणम् ॥

हलः।६।४।२।

अङ्गावयवाद्धलः परं यत्संप्रसारणं तदन्तस्य दीर्घः । जीनः ॥

ओदितश्च।८।२।४५।

भुजो भुग्नः । टुओश्वि, उच्छूनः ॥

शुषः कः।८।२।५१।

निष्ठातस्य कः । शुष्कः ॥

पचो वः।८।२।५२।

पक्वः। क्षै क्षये ॥

क्षायो मः।८।२।५३।

क्षामः ॥

निष्ठायां सेटि।६।४।५२।

णेर्लोपः। भावितः। भावितवान्।दृह हिंसायाम् ॥

दृढः स्थूलबलयोः।७।२।२०।

स्थूले बलवति च निपात्यते ॥

दधातेर्हिः।७।४।४२।

तादौ किति । हितम् ॥

दो दद् घोः ।७।४।४६।

घुसंज्ञकस्य दा इत्यस्य दथ् तादौ किति। चर्त्वम् । दत्तः ॥

लिटः कानज्वा।३।२।१०६।

क्वसुश्च।३।२।१०७।

लिटः कानच् क्वसुश्च वा स्तः। तङानावात्मनेपदम् । चक्राणः ॥

म्वोश्च।८।२।६५।

मान्तस्य धातोर्नत्वं म्वोः परतः । जगन्वान् ॥

लटः शतृशानचावप्रथमासमानाधिकरणे।३।२।१२४।

अप्रथमान्तेन समानाधिकरणे लट एतौ वा स्तः। शबादिः। पचन्तं चैत्रं पश्य ॥

आने मुक्।७।२।८२।

अदन्ताङ्गस्य मुगागमः स्यादाने परे । पचमानं चैत्रं पश्य। लडित्यनुवर्तमाने पुनर्लड्ग्रहणात्- प्रथमासामानाधिकरण्येऽपि क्वचित् । सन् द्विजः ॥

विदेः शतुर्वसुः।७।१।३६।

वेत्तेः परस्य शतुर्वसुरादेशो वा। विदन् । विद्वान् ॥

तौ सत्।३।२।१२७।

तौ शतृशानचौ सत्संज्ञौ स्तः ॥

लृटः सद्वा।३।३।१४।

व्यवस्थितविभाषेयम् । तेनाप्रथमासामानाधिकरण्ये प्रत्ययोत्तरपदयोः संबोधने लक्षणहेत्वोश्च नित्यम् । करिष्यन्तं करिष्यमाणं पश्य ॥

आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु।३।२।१३४।

क्विपमभिव्याप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलादिषु कर्तृषु बोध्याः ॥

तृन्।३।२।१३५।

कर्ता कटान् ॥

जल्पभिक्षकुट्टलुण्टवृङः षाकन्।३।२।१५५।

षः प्रत्ययस्य।१।३।६।

प्रत्ययस्यादिः ष इत्संज्ञः स्यात्। जल्पाकः। भिक्षाकः । कुट्टाकः । लुण्टाकः । वराकः । वराकी ॥

सनाशंसभिक्ष उः।३।२।१६८।

चिर्कीर्षुः। आशंसुः । भिक्षुः ॥

भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् ।३।२।१७७।

विभ्राट् । भाः ॥

राल्लोपः।६।४।२१।

रेफाच्छ्वोर्लोपः क्वौ झलादौ क्ङिति । धूः। विद्युत्। ऊर्क्।पूः। दृशिग्रहणस्यापकर्षाज्जवतेर्दीर्घः। जूः। ग्रावस्तुत्।

(क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च ) । वक्तीति वाक् ॥

च्छ्वोः शूडनुनासिके च।६।४।१९।

सतुक्कस्य छस्य वस्य च क्रमात् श् ऊठ् इत्यादेशौ स्तोऽनुनासिके क्वौझलादौ च क्ङिति । पृच्छतीति प्राट्। आयतं स्तौतीति आयतस्तूः। कटं प्रवते कटप्रूः। जूरुक्तः । श्रयति हरिं श्रीः ॥

दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे।३।२।१८२।

दाबादेः ष्ट्रन् स्यात्करणेऽर्थे। दात्यनेन दात्रम्। नेत्रम् ॥

तितुत्रतथसिसुसरकसेषु च।७।२।९।

एषां दशानां कृत्यप्रत्ययानामिण् न । शस्त्रम्। योत्रम्। योक्त्रम्। स्तोत्रम्।तोत्त्रम्। सेत्रम्। सेक्त्रम्। मेढ्रम्। पत्त्रम्। दंष्ट्रा। नद्ध्री ॥

अर्तिलूधूसूखनसहचर इत्रः।३।२।१८४।

अरित्रम्। लवित्रम्। धवित्रम्। सवित्रम्। खनित्रम्। सहित्रम्। चरित्रम् ॥

पुवः संज्ञायाम्।३।२।१८५।

पवित्रम् ॥

॥ इति पूर्वकृदन्तम् ॥

 

अथोणादयः

कृवापाजिमिस्वदिसाध्यशूभ्य उण् ॥ १॥करोतीति कारुः। वातीति वायुः।पायुर्गुदम्। जायुरौषधम्। मायुः पित्तम्। स्वादुः। साध्नोति परकार्यमिति साधुः । आशु शीघ्रम् ॥

उणादयो बहुलम्।३।३।१।

एते वर्तमाने संज्ञायां च बहुलं स्युः । केचिदविहिता अप्यूह्याः ॥

संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे।

कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ॥

॥ इत्युणादयः ॥

 

अथोत्तरकृदन्तम्

तमुन्ण्वुलौ क्रियायां क्रियार्थायाम्।३।३।१०।

क्रियार्थायां किर्यायामुपपदे भविष्यत्यर्थे धातोरेतौ स्तः। मान्तत्वादव्ययत्वम्। कृष्णं द्रष्टुं याति। कृष्णं दर्शको याति॥

कालसमयवेलासु तुमुन्।३।३।१६७।

कालार्थेषूपपदेषु तुमुन् । कालः समयो वेला वा भोक्तुम् ॥

भावे।३।३।१८।

सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घञ् । पाकः ॥

अकर्तरि च कारके संज्ञायाम्।३।३।१९।

कर्तृभिन्ने कारके घञ् स्यात् ॥

घञि च भावकरणयोः।६।४।२७।

रञ्जेर्नलोपः स्यात्। रागः। अनयोः किम् ? रज्यत्यस्मिन्निति रङ्गः ॥

निवासचितिशरीरोपसमाधानेष्वादेश्च कः।३।३।४१।

एषु चिनोतेर्घञ् आदेश्च ककारः । उपसमाधानं राशीकरणम्।निकायः। कायः। गोमयनिकायः॥

एरच्।३।३।५६।

इवर्णान्तादच् । चयः। जयः ॥

ॠदोरप्।३।३।५७।

ॠवर्णान्तादुवर्णान्ताच्चाप्। करः। गरः। यवः। स्तवः। लवः।पवः। (घञर्थे कविधानम्) प्रस्थः। विघ्नः।

 

ड्वितः क्त्रिः ।३।३।८८।

क्त्रेर्मम्नित्यम्।४।४।२०।

क्त्रिप्रत्ययान्तान्मप् निर्वृत्तेऽर्थे। पाकेन निर्वृत्तं पक्त्रिमम्। डुवप् उप्त्रिमम् ॥

ट्वितोऽथुच्।३।३।८९।

टुवेपृ कम्पने, वेपथुः ॥

यजयाचयतविच्छप्रच्छरक्षो नङ् ।३।३।९०।

यज्ञः। याच्ञा। यत्नः। विश्नः। प्रश्नः। रक्ष्णः।

स्वपो नन्।३।३।९१।

स्वप्नः ॥

उपसर्गे घोः किः।३।३।९२।

प्रधिः । उपधिः ॥

स्त्रियां क्तिन्।३।३।९४।

स्त्रीलिङ्गे भावे क्तिन् स्यात् । घञोऽपवादः। कृतिः। स्तुतिः। (ॠल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः) । तेन नत्वम्। कीर्णिः । लूनिः।धूनिः। पूनिः। (संपदादिभ्य क्विप्) । संपत्। विपत्। आपत्। (क्तिन्नपीष्यते) संपत्तिः। विपत्तिः। आपत्तिः ॥

ऊतियूतिजूतिसातिहेतिकीर्तयश्च।३।३।९७।

एते निपात्यन्ते ॥

ज्वरत्वरस्रिव्यविमवामुपधायाश्च।६।४।२०।

एषामुपधावकारयोरूठ् अनुनासिके क्वौ झलादौ क्ङिति । अतः क्विप्। जूः। तूः। स्रूः। ऊः। मूः ॥

इच्छा।३।३।१०१।

इषेर्निपातोऽयम् ॥

अ प्रत्ययात्।३।३।१०२।

प्रत्ययान्तेभ्यः धातुभ्यः स्त्रियामकारः प्रत्ययः स्यात्। चिकीर्षा। पुत्रकाम्या ॥

गुरोश्च हलः।३।३।१०३।

गुरुमतो हलन्तात्स्त्रियामकारः प्रत्ययः स्यात् । ईहा ॥

ण्यासश्रन्थो युच्।३।३।१०७।

अकारस्यापवादः। कारणा । हारणा ॥

नपुंसके भावे क्तः।३।३।११४।

ल्युट् च।३।३।११५।

हसितम्, हसनम् ॥

पुंसि संज्ञायां घः प्रायेण।३।३।११८।

छादेर्घेऽद्व्युपसर्गस्य।६।४।९६।

द्विप्रभृत्युपसर्गहीनस्य छादेर्ह्रस्वो घे परे । दन्ताश्छाद्यन्तेऽनेनेति । दन्तच्छदः । आकुर्वन्त्यस्मिन्नित्याकरः ॥

अवे तॄस्त्रोर्घञ्।३।३।१२०।

अवतारः कूपादेः । अवस्तारो जवनिका ॥

हलश्च।३।३।१२१।

हलन्ताद् घञ् । घापवादः। रमन्ते योगिनोऽस्मिन्निति रामः।अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः ॥

ईषद्दुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल्।३।३।१२६।

करणाधिकरणयोरिति निवृत्तम् । एषु दुःखसुखार्थेषूपपदेषु खल्तयोरेवेतिभावे कर्मणि च।कृच्छ्रे-दुष्करः कटो भवता। अकृच्छ्रे-ईषत्करः । सुकरः ॥

आतो युच्।३।३।१२८।

खलोऽपवादः। ईषत्पानः सोमो भवता। दुष्पानः। सुपानः ॥

अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा।३।४।१८।

प्रतिषेधार्थयोरलंखल्वोरुपपदयोः क्त्वा स्यात् । प्राचां ग्रहणं पूजार्थम् । अमैवाव्ययेनेति नियमान्नोपपदसमासः ।  दो दद्घोः । अलं दत्त्वा । घुमास्थेतीत्त्वम्। पीत्वा खलु। अलंखल्वोः किम् ? मा कार्षीत्।प्रतिषेधयोः किम् ? अलंकारः ॥

समानकर्तृकयोः पूर्वकाले।३।४।२१।

समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात् । भुक्त्वा व्रजति । द्वित्वमतन्त्रम्। भुक्त्वा पीत्वा व्रजति ॥

न क्त्वा सेट्।१।२।१८।

सेट् क्त्वा किन्न स्यात्। शयित्वा। सेट् किम् ? कृत्वा ॥

रलो व्युपधाद्धलादेः संश्च।१।२।२६।

इवर्णोवर्णोपधाद्धलादेः रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः।द्युतित्वा, द्योतित्वा। लिखित्वा, लेखित्वा। व्युपधात्किम् ? वर्तित्वा। रलः किम् ? सेवित्वा। हलादेः किम् ? एषित्वा।सेट् किम् ? भुक्त्वा ॥

उदितो वा।७।२।५६।

उदितः परस्य क्त्व इड्वा। शमित्वा, शान्त्वा। देवित्वा, द्यूत्वा। दधातेर्हिः । हित्वा ॥

जहातेश्च क्त्वि।७।४।४३।

हित्वा। हाङस्तु-हात्वा ॥

समासेऽनञ्पूर्वे क्त्वो ल्यप्।७।१।३७।

अव्ययपूर्वपदेऽनञ्समासे क्त्वो ल्यबादेशः स्यात् । तुक्प्रकृत्य।अनञ् किम् ? अकृत्वा ॥

आभीक्ष्ण्ये णमुल् च।३।४।२२।

आभीक्ष्ण्ये द्योत्ये पूर्वविषये णमुल् क्त्वा च ॥

नित्यवीप्सयोः।८।१।४।

आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्वित्वं स्यात्। आभीक्ष्ण्यंतिङन्तेष्वव्ययसंज्ञकेषु कृदन्तेषु च। स्मारंस्मारं नमति शिवम्।स्मृत्वास्मृत्वा । पायम्पायम् । भोजम्भोजम्। श्रावं श्रावम् ॥

अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्।३।४।२७।

एषु कृञो णमुल् स्यात् । सिद्धोऽप्रयोगोऽस्यएवम्भूतश्चेत् कृञ्।व्यर्थत्वात्प्रयोगानर्ह इत्यर्थः। अन्यथाकारम् । एवङ्कारम्। कथङ्कारम् । इत्थङ्कारं भुङ्क्ते। सिद्धेति किम् ? शिरोऽन्यथा कृत्वाभुङ्क्ते। इत्युत्तरकृदन्तम् ॥

॥ इति कृदन्तम् ॥

 

॥ अथ विभक्त्यर्थाः ॥

प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा।२।३।४६।

नियतोपस्थितिकः प्रातिपदिकार्थः। मात्रशब्दस्य प्रत्येकं योगः।प्रातिपदिकार्थमात्रे लिङ्गमात्रद्याधिक्ये संख्यामात्रे च प्रथमा स्यात्।प्रातिपदिकार्थमात्रे-उच्चैः। नीचैः। कृष्णः। श्रीः। ज्ञानम्।लिङ्गमात्रे-तटः, तटी, तटम्। परिमाणमात्रे। द्रोणो व्रीहिः।वचनं संख्या। एकः, द्वौ, बहवः ॥

सम्बोधने च।२।३।४७।

प्रथमा स्यात् । हे राम ॥

कर्तुरीप्सिततमं कर्म।१।४।४९।

कर्तुः क्रिययाप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात् ॥

कर्मणि द्वितीया।२।३।२।

अनुक्ते कर्मणि द्वितीया स्यात् । हरिं भजति। अभिहिते तु कर्मादौप्रथमा-  हरिः सेव्यते । लक्ष्म्या सेवितः ॥

अकथितं च।१।४।५१।

अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात्।

दुह्याच्पच्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम्।

कर्मयुक् स्यादकथितंतथा स्यान्नीहृकृष्वहाम्॥१॥

गां दोग्धि पयः। बलिं याचते वसुधाम्। तण्डुलानोदनं पचति।गर्गान् शतं दण्डयति। व्रजमवरुणद्धि गाम्। माणवकं पन्थानंपृच्छति। वृक्षमवचिनोति फलानि। माणवकं धर्मं ब्रूतेशास्तिवा। शतं जयति देवदत्तम्। सुधां क्षीरनिधिं मथ्नाति। देवदत्तंशतं मुष्णाति। ग्राममजां नयति हरति कर्षति वहति वा।अर्थनिबन्धनेयं संज्ञा। बलिं भिक्षते वसुधाम्। माणवकं धर्मंभाषते। अभिधत्तेवक्तीत्यादि ॥

॥ इति द्वितीया ॥

स्वतन्त्रः कर्ता ।१।४।५४।

क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् ॥

साधकतमं करणम्।१।४।४२।

क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात्॥

कर्तृकरणयोस्तृतीया।२।३।१८।

अनभिहिते कर्तरि करणे च तृतीया स्यात्। रामेण बाणेन हतो बाली ॥

॥ इति तृतीया ॥

कर्मणा यमभिप्रैति स संप्रदानम्।१।४।३२।

दानस्य कर्मणा यमभिप्रैति स संप्रदानसंज्ञः स्यात् ॥

चतुर्थी संप्रदाने।२।३।१३।

विप्राय गां ददाति ॥

नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च।२।३।१६।

एभिर्योगे चतुर्थी। हरये नमः। प्रजाभ्यः स्वस्ति। अग्नयेस्वाहा। पितृभ्यः स्वधा। अलमिति पर्याप्त्यर्थग्रहणम्। तेनदैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त इत्यादि॥

॥ इति चतुर्थी ॥

ध्रुवमपायेऽपादानम्। १।४।२४।

अपायो विश्लेषस्तस्मिन्साध्ये यद्ध्रुवमवधिभूतं कारकं तदपादानसंज्ञं स्यात् ॥

अपादाने पञ्चमी।२।३।२८।

ग्रामादायाति। धावतोऽश्वात्पततीत्यादि ॥

॥ इति पञ्चमी ॥

षष्ठी शेषे।२।३।५०।

कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिः शेषस्तत्र षष्ठी।राज्ञः पुरुषः। कर्मादीनामपि संबन्धमात्रविवक्षायां षष्ठ्येव।  सतांगतम्। सर्पिषो जानीते। मातुः स्मरति। एधो दकस्योपस्कुरुते। भजे शम्भोश्चरणयोः ॥

॥ इति षष्ठी ॥

आधारोऽधिकरणम्।१।४।४५।

कर्तृकर्मद्वारा तन्निष्ठक्रियाया आधारः कारकमधिकरणं स्यात् ॥

सप्तम्यधिकरणे च।२।३।३६।

अधिकरणे सप्तमी स्यात्, चकाराद्दूरान्तिकार्थेभ्यः। औपश्लेषिको वैषयिकोऽभिव्यापकश्चेत्याधारस्त्रिधा। कटे आस्ते। स्थाल्यां पचति। मोक्षे इच्छास्ति।सर्वस्मिन्नात्मास्ति। वनस्य दूरे अन्तिके वा॥

॥ इति सप्तमी ॥

॥इति विभक्त्यर्थाः॥

 

अथ समासाः

तत्रादौ केवलसमासः । समासः पञ्चधा।तत्र समसनं समासः। स च विशेषसंज्ञाविनिर्मुक्तः केवलसमासःप्रथमः॥१॥ प्रायेण पूर्वपदार्थप्रधानोऽव्ययीभावो द्वितीयः॥२॥ प्रायेणोत्तरपदार्थप्रधानस्तत्पुरुषस्तृतीयः। तत्पुरुषभेदः कर्मधारयः। कर्मधारयभेदो द्विगुः ॥३॥ प्रायेणान्यपदार्थप्रधानो बहुव्रीहिश्चतुर्थः ॥४॥ प्रायेणोभयपदार्थप्रधानो द्वन्द्वः पञ्चमः ॥५॥

समर्थः पदविधिः।२।१।१।

पदसंबन्धी यो विधिः स समर्थाश्रितो बोध्यः॥

प्राक्कडारात्समासः।२।१।३।

कडाराः कर्मधारय इत्यतः प्राक् समास इत्यधिक्रियते ॥

सह सुपा।२।१।४।

सुप् सुपा सह वा समस्यते। समासत्वात्प्रातिपदिकत्वेन सुपोलुक्। परार्थाभिधानं वृत्तिः। कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः। वृत्त्यर्थावबोधकं वाक्यं विग्रहः। स च लौकिकोऽलौकिकश्चेति द्विधा। तत्र पूर्वं भूत इति लौकिकः। ‘पूर्व अम्भूत सु’ इत्यलौकिकः। भूतपूर्वः। भूतपूर्वेचरडिति निर्देशात्पूर्वनिपातः। (इवेन समासो विभक्त्यलोपश्च) । वागर्थौ इव वागर्थाविव ॥

॥इति केवलसमासः ॥१॥

 

अथाव्ययीभावः

अव्ययीभावः।२।१।५।

अधिकरोऽयं प्राक् तत्पुरुषात् ॥

अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसंपत्ति-

साकल्यान्तवचनेषु।२।१।६।

विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह नित्यं समस्यते सोऽव्ययीभावं । प्रायेणाविग्रहो नित्यसमासः, प्रायेणास्वपदविग्रहो वा। विभक्तौ, हरि ङि अधि इति स्थिते ॥

प्रथमानिर्दिष्टं समास उपसर्जनम्।१।२।४३।

समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनं स्यात् ॥

उपसर्जनं पूर्वम्।२।२।३०।

समासे उपसर्जनं प्राक्प्रयोज्यम्। इत्यधेः प्राक् प्रयोगः। सुपोलुक् । एकदेशविकृतस्यानन्यत्वात्प्रातिपदिकसंज्ञायां स्वाद्युत्पत्तिः।अव्ययीभावश्चेत्यव्ययत्वात्सुपो लुक् । अधिहरि ॥

अव्ययीभावश्च।२।४।१८।

अयं नपुंसकं स्यात् ॥

नाव्ययीभावादतोऽम्त्वपञ्चम्याः।२।४।८३।

अदन्तादव्ययीभावात्सुपो न लुक्, तस्य पञ्चमीं विना अमादेशश्च स्यात् । गाः पातीति गोपास्तस्मिन्नित्यधिगोपम्॥

तृतीयासप्तम्योर्बहुलम्।२।४।८४।

अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलमम्भावः स्यात् । अधिगोपम्, अधिगोपेन, अधिगोपे वा । कृष्णस्य समीपम् उपकृष्णम्।मद्राणां समृद्धिः सुमद्रम्। यवनानां व्यृद्धिर्दुर्यवनम्।मक्षिकाणामभावो निर्मक्षिकम्। हिमस्यात्ययोऽतिहिमम्। निद्रासंप्रति न युज्यत इत्यतिनिद्रम्। हरिशब्दस्य प्रकाश इतिहरि।विष्णोः पश्चादनुविष्णु। योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानियथार्थाः। रूपस्य योग्यमनुरूपम्। अर्थमर्थं प्रति प्रत्यर्थम्। शक्तिमनतिक्रम्य यथाशक्ति ॥

अव्ययीभावे चाकाले।६।३।८१।

सहस्य सः स्यादव्ययीभावे न तु काले। हरेः सादृश्यं सहरि।ज्येष्ठस्यानुपूर्व्येणेत्यनुज्येष्ठम्। चक्रेण युगपत् सचक्रम्। सदृशः सख्याससखि। क्षत्राणां संपतिः सक्षत्रम् । तृणमप्यपरित्यज्य सतृणमत्ति । अग्निग्रन्थपर्यन्तमधीते साग्नि ॥

नदीभिश्च।२।१।२०।

नदीभिः सह संख्या समस्यते। (समाहारे चायमिष्यते) ।पञ्चगङ्गम् । द्वियमुनम् ॥

तद्धिताः।४।१।७६।

आपञ्चमसमाप्तेरधिकारोऽयम् ॥

अव्ययीभावे शरत्प्रभृतिभ्यः।५।४।१०७।

शरदादिभ्यष्टच् स्यात्समासान्तोऽव्ययीभावे। शरदः समीपमुपशरदम्। प्रतिविपाशम्। (जराया जरश्च) । उपजरसमिइत्यादि ॥

अनश्च।५।४।१०८।

अन्नन्तादव्ययीभावाट्टच् स्यात् ॥

नस्तद्धिते।६।४।१४४।

नान्तस्य भस्य टेर्लोपस्तद्धिते। उपराजम् । अध्यात्मम् ॥

नपुंसकादन्यतरस्याम्।५।४।१०९।

अन्नन्तं यत् क्लीबं तदन्तादव्ययीभावाट्टज्वा स्यात् । उपचर्मम्। उपचर्म ॥

झयः।५।४।१११।

झयन्तादव्ययीभावाट्टज्वा स्यात् । उपसमिधम्। उपसमित् ॥

॥ इत्यव्ययीभावः॥

 

अथ तत्पुरुषः

तत्पुरुषः।२।१।२२।

अधिकारोऽयं प्राग्बहुव्रीहेः ॥

द्विगुश्च।२।१।२३।

द्विगुरपि तत्पुरुषसंज्ञकः स्यात् ॥

द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः।२।१।२४।

द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तै सह वा समस्यते स च तत्पुरुषः । कृष्णंश्रितःकृष्णश्रित इत्यादि ॥

तृतीया तत्कृतार्थेन गुणवचनेन।२।१।३०।

तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थेन च सह वा प्राग्वत्।शङ्कुलया खण्डः शङ्कुलाखण्डः। धान्येनार्थोः धान्यार्थः। तत्कृतेतिकिम् ? अक्ष्णा काणः ॥

कर्तृकरणे कृता बहुलम्।२।१।३२।

कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत्। हरिणा त्रातो हरित्रातः।नखैर्भिन्नो नखभिन्नः । (प.) कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् । नखनिर्भिन्नः ॥

चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः।२।१।३६।

चतुर्थ्यन्तार्थाय यत् तद्वाचिना अर्थादिभिश्च चतुर्थ्यन्तं वाप्राग्वत्। यूपाय दारुयूपदारु। (तदर्थेन प्रकृतिविकृतिभाव एवेष्टः) ।तेनेह न-रन्धनाय स्थली। (अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्) । द्विजार्थः सूपः। द्विजार्था यवागूः। द्विजार्थं पयः।भूतबलिः। गोहितम्। गोसुखम् । गोरक्षितम् ॥

पञ्चमी भयेन।२।१।३७।

चोराद्भयम् चोरभयम् ॥

स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन।२।१।३९।

पञ्चम्याः स्तोकादिभ्यः। ६।३।२।

अलुगुत्तरपदे। स्तोकान्मुक्तः। अन्तिकादागतः। अभ्यासादागतः। दूरादागतः । कृच्छ्रादागतः ॥

षष्ठी।२।२।८।

सुबन्तेन प्राग्वत् । राजपुरुषः ॥

पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे।२।२।१।

अवयविना सह पूर्वादयः समस्यन्ते एकत्वसंख्याविशिष्टश्चेदवयवी। षष्ठीसमासापवादः। पूर्वं कायस्य पूर्वकायः। अपरकायः।एकाधिकरणे किम् ? पूर्वश्छात्राणाम् ॥

अर्धं नपुंसकम्।२।२।२।

समांशवाच्यर्धशब्दो नित्यं क्लीबे,स प्राग्वत्। अर्धं पिप्पल्या अर्धपिप्पली ॥

सप्तमी शौण्डैः।२।१।४०।

सप्तम्यन्तं शौण्डादिभिः प्राग्वत्। अक्षेषु शौण्डः अक्षशौण्डः इत्यादि। द्वितीयातृतीयेत्यादियोगविभागादन्यत्रापि तृतीयादिविभक्तीनां प्रयोगवशात्समासो ज्ञेयः ॥

दिक्संख्ये संज्ञायाम्।२।१।५०।

संज्ञायामेवेति नियमार्थं सूत्रम्। पूर्वेषुकामशमी। सप्तर्षयः । तेनेह न-उत्तरा वृक्षाः । पञ्च ब्राह्मणाः ॥

तद्धितार्थोत्तरपदसमाहारे च।२।१।५१।

तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वत्। पूर्वस्यां शालायां भवः-पूर्वाशाला इति समासे जाते। (सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः) ॥

दिक्पूर्वपदादसंज्ञायां ञः।४।२।१०७।

अस्माद्भवाद्यर्थे ञः स्यादसंज्ञायाम् ॥

तद्धितेष्वचामादेः।७।२।११७।

ञिति णिति च तद्धितेष्वचामादेरचो वृद्धिः स्यात्। यस्येतिच। पौर्वशालः। पञ्च गावो धनं यस्येति त्रिपदे बहुव्रीहौ। (द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम्) ॥

गोरतद्धितलुकि। ५।४।९२।

गोऽन्तात्तत्पुरुषाट्टच् स्यात् समासान्तो न तु तद्धितलुकि । पञ्चगवधनः ॥

तत्पुरुषः समानाधिकरणः कर्मधारयः।१।२।४२।

संख्यापूर्वो द्विगुः। २।१।५२।

तद्धितार्थेत्यत्रोक्तस्त्रिविधः संख्यापूर्वो द्विगुसंज्ञः स्यात् ॥

द्विगुरेकवचनम्।२।४।१।

द्विग्वर्थः समाहार एकवत् स्यात् ॥

स नपुंसकम्।२।४।१७।

समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यात्। पञ्चानां गवां समाहारः पञ्चगवम् ॥

विशेषणं विशेष्येण बहुलम्।२।१।५७।

भेदकं भेद्येन समानाधिकरणेन बहुलं प्राग्वत्। नीलमुत्पलं नीलोत्पलम्। बहुलग्रहणात्क्वचिन्नित्यम्-कृष्णसर्पः। क्वचिन्न रामो जामदग्न्यः ॥

उपमानानि सामान्यवचनैः।२।१।५५।

घन इव श्यामो घनश्यामः । (शाकपार्थिवादीनां सिद्धये उत्तरपदलोपोस्योपसंख्यानम्) । शाकप्रियः पार्थिवःशाकपार्थिवः। देवपूजको ब्राह्मणो देवब्राह्मणः ॥

नञ्।२।२।६।

नञ् सुपा सहसमस्यते ॥

नलोपो नञः।६।३।७३।

नञो नस्य लोप उत्तरपदे। न ब्राह्मणः अब्राह्मणः ॥

तस्मान्नुडचि।६।३।७४।

लुप्तनकारान्नञ उत्तरपदस्याजादेर्नुडागमः स्यात् । अनश्वः। नैकधेत्यादौ तुनशब्देन सह सुप्सुपेति समासः ॥

कुगतिप्रादयः।२।२।१८।

एते समर्थेन नित्यं समस्यन्ते। कुत्सितः पुरुषःकुपुरुषः ॥

ऊर्यादिच्विडाचश्च।१।४।६१।

ऊर्यादयश्चव्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञाः स्युः । ऊरीकृत्य। शुक्लीकृत्य।सुपुरुषः। (पादयो गताद्यर्थे प्रथमया) । प्रगत आचार्यःप्राचार्यः। (अत्यादयः क्रान्ताद्यर्थे द्वितीयया) । अतिक्रान्तो मालामिति विग्रहे-

एकविभक्ति चापूर्वनिपाते।१।२।४४।

विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यान्न तु तस्य पूर्वनिपातः ॥

गोस्त्रियोरुपसर्जनस्य।१।२।४८।

उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्यह्रस्वः स्यात् । अतिमालः। (अवादयः क्रुष्टाद्यर्थे तृतीयया) । अवक्रुष्टः कोकिलया-अवकोकिलः। (पर्यादयो ग्लानाद्यर्थे चतुर्थ्या) । परिग्लानोऽध्ययनाय पर्यध्ययनः।

(निरादयः क्रान्ताद्यर्थे पञ्चम्या) । निष्क्रान्तः कौशाम्ब्याः -  निष्कौशाम्बिः ॥

तत्रोपपदं सप्तमीस्थम्।३।१।९२।

सप्तम्यन्ते पदे कर्मणीत्यादौ वाच्यत्वेन स्थितं यत्कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात् ॥

उपपदमतिङ्।२।२।१९।

उपपदं सुबन्तं समर्थेन नित्यं समस्यते । अतिङन्तश्चायं समासः। कुम्भंकरोतीति कुम्भकारः। अतिङ् किम् ? मा भवान् भूत्। माङिलुङीति सप्तमीनिर्देशान्माङुपपदम्। (प.) गतिकारकोपपदानां कृद्भिःसह समासवचनं प्राक् सुबुत्पत्तेः। व्याघ्री। अश्वक्रीती। कच्छीत्यादि ॥

तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः।५।४।८६।

संख्याव्ययादेरङ्गुल्यन्तस्य तत्पुरुषस्य समासान्तोऽच् स्यात्।द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलम् । निर्गतमङ्गुलिभ्यो निरङ्गुलम् ॥

अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः।५।४।८७।

एभ्यो रात्रेरच् स्याच्चात्संख्याव्ययादेः । अहर्ग्रहणं द्वन्द्वार्थम् ॥

रात्राह्नाहाः पुंसि।२।४।२९।

एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव। अहश्च रात्रिश्चाहोरात्रः।सर्वरात्रः। संख्यातरात्रः। (संख्यापूर्वं रात्रं क्लीबम्) । द्विरात्रम् । त्रिरात्रम् ॥

राजाहःसखिभ्यष्टच्।५।४।९१।

एतदन्तात्तत्पुरुषाट्टच् स्यात् । परमराजः ॥

आन्महतः समानाधिकरणजातीययोः।६।३।४६।

महत आकारोऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे । महाराजः। प्रकारवचने जातीयर् । महाप्रकारो महाजातीयः ॥

द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः।६।३।४७।

आत्स्यात्। द्वौ च दश च द्वादश । अष्टाविंशतिः ॥

त्रेस्त्रयः ।६।३।४८।

त्रयोदश । त्रयोविंशतिः । त्रयस्त्रिंशत् ॥

परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः।२।४।२६।

एतयोः परपदस्येव लिङ्गं स्यात् । कुक्कुटमयूर्याविमे। मयूरीकुक्कुटाविमौ। अर्धपिप्पली। (द्विगुप्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधो वाच्यः) । पञ्चसु कपालेशु संस्कृतः पञ्चकपालः पुरोडाशः ॥

प्राप्तापन्ने च द्वितीयया ।२।२।४।

समस्येते । अकारश्चानयोरन्तादेशः । प्राप्तो जीविकां प्राप्तजीविकः । आपन्नजीविकः । अलं कुमार्यै- अलंकुमारिः। अत एव ज्ञापकात्समासः । निष्कौशाम्बिः ॥

अर्धर्चाः पुंसि च।२।४।३१।

अर्धर्चादयः शब्दाः पुंसि क्लीबे च स्युः। अर्धर्चः । अर्धर्चम्। एवंध्वजतीर्थशरीरमण्डपयूपदेहाङ्कुशपात्रसूत्रादयः।

सामान्ये नपुंसकम्। मृदु पचति । प्रातः कमनीयम् ॥

॥ इति तत्पुरुषः ॥

 

अथ बहुव्रीहिः

शेषो बहुव्रीहिः।२।२।२३।

अधिकारोऽयम्प्राग्द्वन्द्वात् ॥

अनेकमन्यपदार्थे।२।२।२४।

अनेकं प्रथमान्तमन्यस्य पदस्यार्थे वर्तमानं वा समस्यते स बहुव्रीहिः ॥

सप्तमीविशेषणे बहुव्रीहौ।२।२।३५।

सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्वं स्यात्। अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः ॥

हलदन्तात्सप्तम्याः संज्ञायाम्।६।३।९।

हलन्ताददन्ताच्च सप्तम्या अलुक्। कण्ठेकालः । प्राप्तमुदकं यं स प्राप्तोदको ग्रामः । ऊढरथोऽनड्वान्। उपहृतपशू रुद्रः। उद्धृतौदनास्थाली। पीताम्बरो हरिः। वीरपुरुषको ग्रामः। (प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः) । प्रपतितपर्णः, प्रपर्णः। (नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः) । अविद्यमानपुत्रः, अपुत्रः ॥

स्त्रियाः पुंवद्भाषितपुंस्कादनूङ्समानाधिकरणे स्त्रियामपूरणीप्रियादिषु।६।३।३४।

उक्तपुंस्कादनूङ् ऊङोऽभावोऽस्यामिति बहुब्रीहिः । निपातनात्पञ्चम्या अलुक् षष्ठ्याश्च लुक् । तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात्पर ऊङोऽभावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्यपुंवाचकस्येव रूपं समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे न तु पूरण्यां प्रियादौ च परतः ।गोस्त्रियोरिति ह्रस्वः। चित्रगुः। रूपवद्भार्यः । अनूङ् किम् ? वामोरूभार्यः। पूरण्यां तु –

अप्पूरणीप्रमाण्योः।५।४।११६।

पूरणार्थप्रत्ययान्तं यत्स्त्रीलिङ्गं तदन्तात्प्रमाण्यन्ताच्च बहुब्रीहेरप्स्यात्। कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपञ्चमारात्रयः। स्त्री प्रमाणी यस्य स स्त्रीप्रमाणः। अप्रियादिषु किम् ?कल्याणीप्रिय इत्यादि ॥

बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्।५।४।११३।

स्वाङ्गवाचिसक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच् स्यात् । दीर्घसक्थः। जलजाक्षी।स्वाङ्गात्किम् ? दीर्घसक्थि शकटम्। स्थूलाक्षा वेणुयष्टिः। अक्ष्णोऽदर्शनादिति वक्ष्यमाणोऽच् ॥

द्वित्रिभ्यां ष मूर्ध्नः।५।४।११५।

आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ । द्विमूर्धः । त्रिमूर्धः ॥

अन्तर्बहिर्भ्यां च लोम्नः।५।४।११७।

आभ्यां लोम्नोऽप्स्याद्बहुव्रीहौ । अन्तर्लोमः । बहिर्लोमः ॥

पादस्य लोपोऽहस्त्यादिभ्यः।५।४।१३८।

हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपः स्याद्बहुव्रीहौ । व्याघ्रस्येव पादावस्य व्याघ्रपात्। अहस्त्यादिभ्यः किम् ? हस्तिपादः । कुशूलपादः ॥

संख्यासुपूर्वस्य।५।४।१४०।

पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ । द्विपात् । सुपात् ॥

उद्विभ्यां काकुदस्य।५।४।१४८।

लोपः स्यात्। उत्काकुत् । विकाकुत् ॥

पूर्णाद्विभाषा।५।४।१४९।

पूर्णकाकुत् । पूर्णकाकुदः ॥

सुहृद्दुर्हृदौ मित्रामित्रयोः।५।४।१५०।

सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते । सुहृन्मित्रम्। दुर्हृदमित्रः ॥

उरःप्रभृतिभ्यः कप्।५।४।१५१।

सोऽपदादौ ।८।३।३८।

पाशकल्पककाम्येषु विसर्गस्य सः ॥

कस्कादिषु च।८।३।४८।

एष्विण उत्तरस्य विसर्गस्य षोऽन्यस्य तु सः। इति सः। व्यूढोरस्कः ॥

इणः षः ।८।३।३९।

इण उत्तरस्य विसर्गस्य षः पाशकल्पककाम्येषु परेषु । प्रियसर्पिष्कः ॥

निष्ठा।२।२।३६।

निष्ठान्तं बहुव्रीहौ पूर्वं स्यात् । युक्तयोगः ॥

शेषाद्विभाषा।५।४।१५४।

अनुक्तसमासान्ताद्बहुव्रीहेः कब्वा। महायशस्कः, महायशाः ॥

॥ इति बहुव्रीहिः॥

 

अथ द्वन्द्वः

चार्थे द्वन्द्वः।२।२।२९।

अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्वः। समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः । तत्र ‘ईश्वरं गुरुं च भजस्व’ इतिपरस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयः समुच्चयः। ‘भिक्षामट गां चानय’ इत्यन्यतरस्यानुषङ्गिकत्वेनान्वयोऽवाचयः। अनयोरसामर्थ्यात्समासो न। ‘धवखदिरौ छिन्धि’ इति मिलितानामन्वय इतरेतरयोगः।‘संज्ञापरिभाषम्’ इति समूहः समाहारः ॥

राजदन्तादिषु परम्।२।२।३१।

एषु पूर्वप्रयोगार्हं परं स्यात्। दन्तानां राजानो राजदन्ताः । (धर्मादिष्वनियमः) । अर्थधर्मौ। धर्मार्थावित्यादि ॥

द्वन्द्वे घि ।२।२।३२।

द्वन्द्वे घिसंज्ञं पूर्वं स्यात्। हरिश्च हरश्च हरिहरौ ॥

अजाद्यदन्तम्।२।२।३३।

द्वन्द्वे पूर्वं स्यात् । ईशकृष्णौ ॥

अल्पाच्तरम्।२।२।३४।

शिवकेशवौ ॥

पिता मात्रा।१।२।७०।

मात्रा सहोक्तौ पिता वा शिष्यते। माता च पिता च पितरौ, मातापितरौ वा ॥

द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्।२।४।२।

एषां द्वन्द्व एकवत्। पाणिपादम्। मार्दङ्गिकपाणविकम्। रथिकाश्वारोहम् ॥

द्वन्द्वाच्चुदषहान्तात्समाहारे।५।४।१०६।

चवर्गान्ताद्दषहान्ताच्च द्वन्द्वाट्टच् स्यात्समाहारे। वाक् च् त्वक् च वाक्त्वचम् । त्वक्स्रजम्। शमीदृषदम्। वाक्त्विषम्। छत्रोपानहम्। समाहारेकिम् ? प्रावृट्शरदौ ॥

॥ इति द्वन्द्वः॥

 

अथ समासान्ताः

ऋक्पूरव्धूःपथामानक्षे।५।४।७४।

अ अनक्षे इतिच्छेदः । ऋगाद्यन्तस्य समासस्य अप्रत्ययोऽन्तावयवोऽक्षे या धूस्तदन्तस्य तु न। अर्धर्चः। विष्णुपुरम्। विमलापं सरः। राजधुरा।अक्षे तु अक्षधूः । दृढधूरक्षः ।सखिपथः । रम्यपथो देशः ॥

अक्ष्णोऽदर्शनात्।५।४।७६।

अचक्षुःपर्यायादक्ष्णोऽच् स्यात्समासान्तः । गवामक्षीव गवाक्षः ॥

उपसर्गादध्वनः।५।४।८५।

प्रगतोऽध्वानं प्राध्वो रथः ॥

न पूजनात्। ५।४।६९।

पूजनार्थात्परेभ्यः समासान्ता न स्युः। सुराजा । अतिराजा ॥

॥ इति समासान्ताः ॥

 

अथ तद्धिताः, तत्रादौ साधारणप्रत्ययाः

समर्थानां प्रथमाद्वा।४।१।८२।

इदं पदत्रयमधिक्रियते प्राग्दिश इति यावत् ॥

अश्वपत्यादिभ्यश्च।४।१।८४।

एभ्योऽण् स्यात्प्राग्दीव्यतीयेष्वर्थेषु । अश्वपतेरपत्यादि आश्वपतम् । गाणपतम् ।

दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः।४।१।८५।

दित्यादिभ्यः पत्युत्तरपदाच्च प्राग्दीव्यतीयेष्वर्थेषु ण्यः स्यात् । अणोऽपवादः । दितेरपत्यं दैत्यः। अदितेरादित्यस्य वा ॥

हलो यमां यमि लोपः ।८।४।६४।

हलः परस्य यमो लोपः स्याद् वा यमि । इति यलोपः । आदित्यः । प्राजापत्यः। (देवाद्यञञौ) । दैव्यम्। दैवम्।

(बहिषष्टिलोपो यञ्) । बाह्यः। (ईकक्च) ॥

किति च।७।२।११८।

किति तद्धिते चाचामादेरचो वृद्धिः स्यात् । बाहीकः । (गोरजादिप्रसङ्गे यत्) । गोरपत्यादि । गव्यम् ॥

उत्सादिभ्योऽञ्।४।१।८६।

औत्सः ॥

॥ इत्यपत्यादिविकारान्तार्थसाधारणप्रत्ययाः॥

 

अथापत्याधिकारः

स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् ।४। १। ८७।

धान्यानां भवन इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रमान्नञ्स्नञौ स्तः । स्त्रैणः।पौंस्नः ॥

तस्यापत्यम्।४।१।९२।

षष्ठ्यन्तात्कृतसंधेः समर्थादपत्येऽर्थे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः ॥

ओर्गुणः।६।४।१४६।

उवर्णान्तस्य भस्य गुणस्तद्धिते। उपगोरपत्यमौपगवः । आश्वपतः । दैत्यः। औत्सः। स्त्रैणः । पौंस्नः ॥

अपत्यं पौत्रप्रभृति गोत्रम्।४।१।१६२।

अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात् ॥

एको गोत्रे।४।१।९३।

गोत्रे एक एवापत्यप्रत्ययः स्यात् । उपगोर्गोत्रापत्यमौपगवः ॥

गर्गादिभ्यो यञ्।४।१।१०५।

गोत्रापत्ये। गर्गस्य गोत्रापत्यं गार्ग्यः। वात्स्यः॥

यञञोश्च।२।४।६४।

गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक् स्यात्तत्कृते बहुत्वेन तु स्त्रियाम्। गर्गाः । वत्साः ॥

जीवति तु वंश्ये युवा।४।१।१६३।

वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव स्यात् ॥

गोत्राद्यून्यस्त्रियाम्।४।१।९४।

यून्यपत्ये गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात्, स्त्रियां तु न युवसंज्ञा ॥

यञिञोश्च।४।१।१०१।

गोत्रे यौ यञिञौ तदन्तात्फक् स्यात् ॥

आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्।७।१।२।

प्रत्ययादेः फस्य आयन्, ढस्य एय्, खस्य ईन्, छस्य ईय्, घस्य इय्, एते स्युः। गर्गस्य युवापत्यं गार्ग्यायणः । दाक्षायणः ॥

अत इञ्।४।१।९५।

अपत्येऽर्थे। दाक्षिः ॥

बाह्वादिभ्यश्च।४।१।९६।

बाहविः। औडुलोमिः। (लोम्नोऽपत्येषु बहुष्वकारो वक्तव्यः) । उडुलोमाः आकृतिगणोऽयम् ॥

अनृष्यानन्तर्ये विदादिभ्योऽञ्।४।१।१०४।

एभ्योऽञ् गोत्रे । ये त्वत्रानृषयस्तेभ्योऽपत्येऽन्यत्र तु गोत्रे। बिदस्य गोत्रं बैदः। बैदौ। बिदाः । पुत्रस्यापत्यं पौत्रः। पौत्रौ। पौत्राः। एवं दौहित्रादयः ॥

शिवादिभ्योऽण्।४।१।११२।

अपत्ये। शैवः । गाङ्गः ॥

ऋष्यन्धकवृष्णिकुरुभ्यश्च।४।१।११४।

ऋषिभ्यः- वासिष्ठः। वैश्वामित्रः। अन्धकेभ्यः–श्वाफल्कः।वृष्णिभ्यः- वासुदेवः। कुरुभ्यः- नाकुलः । साहदेवः ॥

मातुरुत्संख्यासंभद्रपूर्वायाः।४।१।११५।

संख्यादिपूर्वस्य मातृशब्दस्ययोदादेश स्यादण् प्रत्ययश्च। द्वैमातुरः। षाण्मातुरः। सांमातुरः। भाद्रमातुरः ॥

स्त्रीभ्यो ढक्।४।१।१२०।

स्त्रीप्रत्ययान्तेभ्यो ढक् । वैनतेयः ॥

कन्यायाः कनीन च।४।१।११६।

चादण्। कानीनो व्यासः कर्णश्च ॥

राजश्वशुराद्यत्।४।१।१३७।

(राज्ञो जातावेवति  वाच्यम्) ॥

ये चाभावकर्मणोः।६।४।१६८।

यादौ तद्धिते परेऽन् प्रकृत्या स्यान्न तु भावकर्मणोः। राजन्यः। जातावेवेति किम् ? –

अन्।६।४।१६७।

अन् प्रकृत्या स्यादणि परे। राजनः । श्वशुर्यः ॥

क्षत्त्राद् घः ।४।१।१३८।

क्षत्त्रियः। जातावित्येव। क्षात्त्रिरन्यत्र ॥

रेवत्यादिभ्यष्ठक्।४।१।१४६।

ठस्येकः।७।३।५०।

अङ्गात्परस्य ठस्येकादेशः स्यात् । रैवतिकः ॥

जनपदशब्दात्क्षत्त्रियादञ्।४।१।१६८।

जनपदक्षत्त्रियवाचकाच्छब्दादञ् स्यादपत्ये। पाञ्चालः ॥ (क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत्) । पञ्चालानांराजा पाञ्चालः। (पुरोरण् वक्तव्यः । पौरवः। (पाण्डोर्ड्यण्) । पाण्ड्यः ॥

कुरुनादिभ्यो ण्यः।४।१।१७२।

कौरव्यः । नैषध्यः ॥

ते तद्राजाः।४।१।१७४।

अञादयस्तद्राजसंज्ञाः स्युः ॥

तद्राजस्य बहुषु तेनैवास्त्रियाम्।२।४।६२।

बहुष्वर्थेषु तद्राजस्य लुक् तदर्थकृते बहुत्वे न तु स्त्रियाम् । इक्ष्वाकवः । पञ्चालाः, इत्यादि ॥

कम्बोजाल्लुक्।४।१।१७५।

अस्मात्तद्राजस्य लुक्। कम्बोजः। कम्बोजौ। (कम्बोजादिभ्य इति वक्तव्यम्) । चोलः। शकः। केरलः। यवनः ॥

॥ इत्यपत्याधिकारः॥

 

अथ रक्ताद्यर्थकाः

तेन रक्तं रागात्।४।२।१।

अण् स्यात्। रज्यतेऽनेनेति रागः । कषायेण रक्तं वस्त्रं काषायम् ॥

नक्षत्रेण युक्तः कालः।४।२।३।

अण् स्यात्। (तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम्) । पुष्येण युक्तं पौषमहः ॥

लुबविशेषे।४।२।४।

पूर्वेण विहितस्य लुप् स्यात् षष्ठिदण्डात्मकस्य कालस्यावान्तरविशेषश्चेन्न गम्यते । अद्य पुष्यः ॥

दृष्टं साम।४।२।७।

तेनेत्येव । वसिष्ठेन दृष्टं वासिष्ठं साम ॥

वामदेवाड्ड्यड्ड्यौ।४।२।९।

वामदेवेन दृष्टं साम वामदेव्यम् ॥

परिवृतो रथः।४।२।१०।

अस्मिन्नर्थेऽण् प्रत्ययो भवति । वस्त्रेण परिवृतो वास्त्रो रथः ॥

तत्रोद्धृतममत्रेभ्यः।४।२।१४।

शरावे उद्धृतः शाराव ओदनः ॥

संस्कृतं भक्षाः।४।२।१६।

सप्तम्यन्तादण् स्यात्संस्कृतेऽर्थे यत्संस्कृतं भक्षाश्चेत्ते स्युः।भ्राष्ट्रेषु संस्कृता भ्राष्ट्रा यवाः ॥

साऽस्य देवता।४।२।२४।

इन्द्रो देवताऽस्येति ऐन्द्रं हविः। पाशुपतम्। बार्हस्पत्यम् ॥

शुक्राद्घन्।४।२।२६।

शुक्रियम् ॥

सोमाट्ट्यण्।४।२।३०।

सौम्यम् ॥

वाय्वृतुपित्रुषसो यत्।४।२।३१।

वायव्यम् । ऋतव्यम् ॥

रीङ् ऋतः।७।४।२७।

अकृद्यकारे असार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः।यस्येति च। पित्र्यम् । उषस्यम् ॥

पितृव्यमातुलमातामहपितामहाः ।४।२।३६।

एते निपात्यन्ते। पितुर्भ्राता पितृव्यः। मातुर्भ्राता मातुलः।मातुः पिता मातामहः। पितुः पिता पितामहः॥

तस्य समूहः।४।२।३७।

काकानां समूहः काकम् ॥

भिक्षादिभ्योऽण्।४।२।३८।

भिक्षाणां समूहो भैक्षम्। गर्भिणीनां समूहो गार्भिणम्। इह (भस्याढे तद्धित) ।  इति पुंवद्भावे कृते –

इनण्यनपत्ये।६।४।१६४।

अनपत्यार्थेऽणि परे इन् प्रकृत्या स्यात् । तेन नस्तद्धित इति टिलोपो न। युवतीनां समूहो यौवनम् ॥

ग्रामजनबन्धुभ्यस्तल्।४।२।४३।

तलन्तं स्त्रियाम्। ग्रामता। जनता। बन्धुता। (गजसहायाभ्यां चेति वक्तव्यम्) । गजता। सहायता। (अह्नः खः क्रतौ) । अहीनः ॥

अचित्तहस्तिधेनोष्ठक्।४।२।४७।

इसुसुक्तान्तात्कः।७।३।५१।

इस्उस्उक्तान्तात्परस्य ठस्य कः । साक्तुकम् । हास्तिकम् । धैनुकम् ॥

तदधीते तद्वेद।४।२।५९।

न य्वाभ्यां पदान्ताभ्यां पूर्वो तु ताभ्यामैच्।७।३।३।

पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः किंतु ताभ्यां पूर्वौक्रमादैजावागमौ स्तः । व्याकरणमधीते वेद वा वैयाकरणः ॥

क्रमादिभ्यो वुन।४।२।६१।

क्रमकः। पदकः। शिक्षकः । मीमांसकः ॥

॥ इति रक्ताद्यर्थकाः ॥

 

अथ चातुरर्थिकाः

तदस्मिन्नस्तीति देशे तन्नाम्नि।४।२।६७।

उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरो देशः ॥

तेन निर्वृत्तम्।४।२।६८।

कुशाम्बेन निर्वृत्ता नगरी कौशाम्बी ॥

तस्य निवासः।४।२।६९।

शिबीनां निवासो देशः शैबः ॥

अदूरभवश्च।४।२।७०।

विदिशाया अदूरभवं वैदिशम् ॥

जनपदे लुप्।१।२।५१।

जनपदे वाच्ये चातुरर्थिकस्य लुप् ॥

लुपि युक्तवद्व्यक्तिवचने।१।२।५१।

लुपि सति प्रकृतिवल्लिङ्गवचने स्तः। पञ्चालानां निवासो जनपदःपञ्चालाः। कुरवः। अङ्गाः। वङ्गाः । कलिङ्गाः ॥

वरणादिभ्यश्च।४।२।८२।

अजनपदार्थ आरम्भः । वरणानामदूरभवं नगरं वरणाः ॥

कुमुदनडवेतसेभ्यो ड्मतुप्।४।२।८७।

झयः। ८।२।१०।

झयन्तान्मतोर्मस्य वः। कुमुद्वान् । नड्वान् ॥

मादुपधायाश्च मतोर्वोऽयवादिभ्यः।८।२।९।

मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः । वेतस्वान् ॥

नडशादाड्डवलच् ।४।२।८८।

नड्वलः। शाद्वलः ॥

शिखाया वलच्।४।२।८९।

शिखावलः ॥

॥ इति चातुरर्थिकाः॥

 

अथ शैषिकाः

शेषे।४।२।९२।

अपत्यादिचतुरर्थ्यन्तादन्योऽर्थः शेषस्तत्राणादयः स्युः। चक्षुषागृह्यते चाक्षुषं रूपम्। श्रावणः शब्दः। औपनिषदः पुरुषः। दृषदिपिष्टा दार्षदाः सक्तवः। चतुर्भिरुह्यं चातुरं शकटम्। चातुर्दश्यांदृश्यते चातुर्दशं रक्षः। ‘तस्य विकार’ इत्यतः प्राक् शेषाधिकारः ॥

राष्ट्रावारपाराद्घखौ।४।२।९३।

आभ्यां क्रमाद् घखौ स्तः शेषे । राष्ट्रे जातादिः राष्ट्रियः। अवारपारीणः। (अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम्) । अवारीणः।पारीणः। पारावारीणः। इह प्रकृतिविशेषाद् घादयष्ट्युट्युलन्ताः प्रत्यया उच्यन्ते तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते ॥

ग्रामाद्यखञौ।४।२।९४।

ग्राम्यः । ग्रामीणः ॥

नद्यादिभ्यो ढक्।४।२।९७।

नादेयम्। माहेयम् । वाराणसेयम् ॥

दक्षिणापश्चात्पुरसस्त्यक्।४।२।९८।

दाक्षिणात्यः। पाश्चात्त्यः । पौरस्त्यः ॥

द्युप्रागपागुदक्प्रतीचो यत्।४।२।१०१।

दिव्यम्। प्राच्यम्। अपाच्यम्। उदीच्यम् । प्रतीच्यम् ॥

अव्ययात्त्यप्।४।२।१०४।

(अमेहक्वतसित्रेभ्य एव) । अमात्यः। इहत्यः। क्वत्यः।ततस्त्यः। तत्रत्यः। (त्यब्नेर्ध्रुव इति वक्तव्यम) । नित्यः ॥

वृद्धिर्यस्याचामादिस्तद्वृद्धम्।१।१।७३।

यस्य समुदायस्याचां मध्ये आदिर्वृद्धिस्तद्वृद्धसंज्ञं स्यात् ॥

त्यदादीनि च।१।१।७४।

वृद्धसंज्ञानि स्युः ॥

वृद्धाच्छः ।४।२।११४।

शालीयः । मालीयः । तदीयः । (वा नामधेयस्य वृद्धसंज्ञा वक्तव्या) । देवदत्तीयः, दैवदत्तः ॥

गहादिभ्यश्च।४।२।१३८।

गहीयः ॥

युष्मदस्मदोरन्यतरस्यां खञ् च।४।३।१।

चाच्छः। पक्षेऽण्। युवयोर्युष्माकं वायं युष्मदीयः। अस्मदीयः ॥

तस्मिन्नणि च युष्माकास्माकौ।४।३।२।

युष्मदस्मदोरेतावादेशौ स्तः खञ्यणि च । यौष्माकीणः । आस्माकीनः। यौष्माकः। आस्माकः ॥

तवकममकावेकवचने।४।३।३।

एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञि अणि च।तावकीनः। तावकः। मामकीनः। मामकः । छे तु –

प्रत्ययोत्तरपदयोश्च।७।२।९८।

मपर्यन्तयोरेतयोरेकार्थवाचिनोस्त्वमौ स्तः प्रत्यये उत्तरपदे चपरतः। त्वदीयः। मदीयः। त्वत्पुत्रः। मत्पुत्रः ॥

मध्यान्मः।४।३।८।

मध्यमः ॥

कालाट्ठञ्।४।३।११।

कालवाचिभ्यष्ठञ् स्यात् । कालिकम्। मासिकम् । सांवत्सरिकम् । (अव्ययानां भमात्रे टिलोपः) । सायम्प्रातिकः । पौनःपुनिकः ॥

प्रावृष एण्यः।४।३।१७।

प्रावृषेण्यः ॥

सायञ्चिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च।४।३।२३।

सायमित्यादिभ्यश्चतुर्भ्योऽव्ययेभ्यश्च कालवाचिभ्यष्ट्युट्युलौ स्तस्तयोस्तुट् च । सायन्तनम् । चिरन्तनम् । प्राह्णेप्रगे अनयोरेदन्तत्वं निपात्यते। प्राह्णेतनम्। प्रगेतनम् । दोषातनम् ॥

तत्र जातः।४।३।२५।

सप्तमीसमर्थाज्जात इत्यर्थेऽणादयो घादयश्च स्युः। स्रुग्घ्ने जातःस्रौग्घ्नः। उत्से जातः औत्सः । राष्ट्रे जातो राष्ट्रियः। अवारपारे जातःअवारपारीणः, इत्यादि ॥

प्रावृषष्ठप्।४।३।२६।

एण्यापवादः । प्रावृषिकः ॥

प्रायभवः।४।३।३९।

तत्रेत्येव। स्रुग्घ्ने प्रायेण बाहुल्येन भवति स्रौग्घ्नः ॥

सम्भूते।४।३।४१।

स्रुग्घ्ने संभवतिस्रौग्घ्नः ॥

कोशाड्ढञ् । ४।३।४२।

कौशेयं वस्त्रम् ॥

तत्र भवः।४।३।५३।

स्रुग्घ्नेभवः स्रौग्घ्नः । औत्सः ।  राष्ट्रियः ॥

दिगादिभ्यो यत्।४।३।५४।

दिश्यम् । वर्ग्यम् ॥

शरीरावयवाच्च।४।३।५५।

दन्त्यम्। कण्ठ्यम्। (अध्यात्मादेष्ठञिष्यते) । अध्यात्मं भवमाध्यात्मिकम् ॥

अनुशतिकादीनां च।७।३।२०।

एषामुभयपदवृद्धिर्ञिति णिति किति च। आधिदैविकम्। आधिभौतिकम्। ऐहलौकिकम् । आकृतिगणोऽयम् ॥

जिह्वामूलाङ्गुलेश्छः।४।३।६२।

जिह्वामूलीयम् । अङ्गुलीयम् ॥

वर्गान्ताच्च।४।३।६३।

कवर्गीयम् ॥

तत आगतः।४।३।७४।

स्रुग्घ्नादागतः स्रौग्घ्नः ॥

ठगायस्थानेभ्यः।४।३।७५।

शुल्कशालाया आगतः शौल्कशालिकः ॥

विद्यायोनिसंबन्धेभ्यो वुञ्।४।३।७७।

औपाध्यायकः । पैतामहकः ॥

हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः।४।३।८१।

समादागतं समरूप्यम्। पक्षे– गहादित्वाच्छः। समीयम्। विषमीयम् । देवदत्तरूप्यम्। दैवदत्तम् ॥

मयट् च।४।३।८२।

सममयम् । देवदत्तमयम् ॥

प्रभवति।४।३।८३।

हिमवतः प्रभवति हैमवती गङ्गा ॥

तद्गच्छति पथिदूतयोः।४।३।८५।

स्रुग्घ्नं गच्छति स्रौग्ध्नः पन्था दूतो वा ॥

अभिनिष्क्रामति द्वारम्।४।३।८६।

स्रुग्घ्नमभिनिष्क्रामति स्रौग्घ्नं कान्यकुब्जद्वारम् ॥

अधिकृत्य कृते ग्रन्थे।४।३।८७।

शारीरकमधिकृत्य कृतो ग्रन्थः शारीरकीयः ॥

सोऽस्य निवासः।४।३।८९।

स्रुग्घ्नो निवासोऽस्य स्रौग्घ्नः ॥

तेन प्रोक्तम्।४।३।१०१।

पाणिनिना प्रोक्तं पाणिनीयम् ॥

तस्येदम्।४।३।१२०।

उपगोरिदम् औपगवम् ॥

॥ इति शैषिकाः॥

 

अथ  विकारार्थकाः

तस्य विकारः।४।३।१३४।

(अश्मनो विकारे टिलोपो वक्तव्यः) । अश्मनो विकारः आश्मः।भास्मनः। मार्त्तिकः ॥

अवयवे च प्राण्योषधिवृक्षेभ्यः।४।३।१३५।

चाद्विकारे। मयूरस्यावयवो विकारो वा मायूरः। मौर्वं काण्डं भस्म वा । पैप्पलम् ॥

मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः।४।३।१४३।

प्रकृतिमात्रान्मयड्वा स्यात् विकारावयवयोः। अश्ममयम्, आश्मनम्। अभक्ष्येत्यादि किम् ? मौद्गः सूपः । कार्पासमाच्छादनम् ॥

नित्यं वृद्धशरादिभ्यः।४।३।१४४।

आम्रमयम् । शरमयम् ॥

गोश्च पुरीषे।४।३।१४५।

गोः पुरीषं गोमयम् ॥

गोपयसोर्यत्।४।३।१६०।

गव्यम् । पयस्यम् ॥

॥ इति विकारार्थः(प्राग्दीव्यतीयाः) ॥

 

अथ ठगधिकारः

प्राग्वहतेष्ठक्।४।४।१।

तद्वहतीत्यतः प्राक् ठगधिक्रियते ॥

तेन दीव्यति खनति जयति जितम्।४।४।२।

अक्षैर्दीव्यति खनति जयति जितो वा आक्षिकः ॥

संस्कृतम्।४।४।३।

दध्ना संस्कृतं दाधिकम् । मारिचिकम् ॥

तरति।४।४।५।

तेनेत्येव । उडुपेन तरति औडुपिकः ॥

चरति।४।४।८।

तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात् । हस्तिना चरति हास्तिकः । दध्ना चरति दाधिकः ॥

संसृष्टे।४।४।२२।

दध्ना संसृष्टं दाधिकम् ॥

उञ्छति।४।४।३२।

बदराण्युञ्छति बादरिकः ॥

रक्षति।४।४।३३।

समाजं रक्षति सामाजिकः ॥

शब्ददर्दुरं करोति।४।४।३४।

शब्दं करोति शाब्दिकः । दर्दुरं करोति दार्दुरिकः ॥

धर्मं चरति।४।४।४१।

धार्मिकः। (अधर्माच्चेति वक्तव्यम्) । आधर्मिकः ॥

शिल्पम्।४।४।५५।

मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः ॥

प्रहरणम्।४।४।५७।

तदस्येत्येव । असिः प्रहरणमस्य आसिकः । धानुष्कः ॥

शीलम्।४।४।६१।

अपूपभक्षणं शीलमस्य आपूपिकः ॥

निकटे वसति।४।४।७३।

नैकटिको भिक्षुकः ॥

॥ इति ठगधिकारः । (प्राग्वहतीयाः) ॥

 

अथ यदधिकारः

प्राग्घिताद्यत्।४।४।७५।

तस्मै हितमित्यतः प्राग् यदधिक्रियते ॥

तद्वहति रथयुगप्रासङ्गम्।४।४।७६।

रथं वहति रथ्यः। युग्यः । प्रासङ्ग्यः ॥

धुरो यड्ढकौ।४।४।७७।

हलि चेति दीर्घे प्राप्ते –

न भकुर्छुराम् ।८।२।७९।

भस्य कुर्छुरोश्चोपधाया इको दीर्घो न स्यात् । धुर्यः । धौरेयः ॥

नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु।४।४।९१।

नावा तार्यं नाव्यं जलम्। वयसा तुल्यो वयस्यः। धर्मेण प्राप्यंधर्म्यम् । विषेण वध्यो विष्यः। मूलेन आनाम्यं मूल्यम्। मूलेनसमो मूल्यः। सीतया समितं सीत्यं क्षेत्रम्। तुलया संमितं तुल्यम् ॥

तत्र साधुः।४।४।९८।

अग्रे साधुः – अग्र्यः । सामसु साधुः सामन्यः। ये चाभावकर्मणोरिति प्रकृतिभावः । कर्मण्यः। शरण्यः ॥

सभाया यः।४।४।१०५।

सभ्यः ॥

॥ इति यतोऽवधिः (प्राग्घितीयाः) ॥

अथ छयतोरधिकारः

प्राक् क्रीताच्छः।५।१।१।

तेन क्रीतमित्यतः प्राक् छोऽधिक्रियते ॥

उगवादिभ्यो यत्।५।१।२।

प्राक् क्रीतादित्येव । उवर्णान्ताद्गवादिभ्यश्च यत् स्यात् । छस्यापवादः। शङ्कवे हितं शङ्कव्यं दारु।गव्यम्। (नाभि नभं च) । नभ्योऽक्षः। नभ्यमञ्जनम् ॥

तस्मै हितम्।५।१।५।

वत्सेभ्यो हितो वत्सीयो गोधुक् ॥

शरीरावयवाद्यत्।५।१।६।

दन्त्यम्। कण्ठ्यम् । नस्यम् ॥

आत्मन्विश्वजनभोगोत्तरपदात्खः।५।१।९।

आत्माध्वानौ खे।६।४।१६९।

एतौ खे प्रकृत्या स्तः। आत्मने हितम् आत्मनीनम्। विश्वजनीनम्। मातृभोगीणः ॥

॥ इति छयतोरवधिः(प्राक्क्रीतीयाः) ॥

 

अथ ठञधिकारः॥

प्राग्वतेष्ठञ्।५।१।१८।

तेन तुल्यमिति वतिं वक्ष्यति, ततः प्राक् ठञधिक्रियते ॥

तेन क्रीतम्।५।१।३७।

सप्तत्या क्रीतं साप्ततिकम् । प्रास्थिकम् ॥

सर्वभूमिपृथिवीभ्यामणञौ ।५।१।४१।

तस्येश्वरः।५।१।४२।

सर्वभूमिपृथिवीभ्यामणञौ स्तः। अनुशतिकादीनां च। सर्वभूमेरीश्वरः सार्वभौमः । पार्थिवः ॥

पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्।५।१।५९।

एते रूढशब्दा निपात्यन्ते ॥

तदर्हति।५।१।६३।

लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः । श्वेतच्छत्रमर्हति श्वैतच्छत्रिकः ॥

दण्डादिभ्यो यत् ।५।१।६६।

एभ्यो यत् स्यात् । दण्डमर्हति दण्ड्यः। अर्घ्यः । वध्यः॥

तेन निर्वृत्तम्।५।१।७९।

अह्ना निर्वृत्तम् आह्निकम् ॥

॥इति ठञोऽवधिः । (प्राग्वतीयाः) ॥

 

अथ त्वतलोरधिकारः

तेन तुल्यं क्रिया चेद्वतिः।५।१।११५।

ब्राह्मणेन तुल्यं ब्राह्मणवत् अधीते । क्रिया चेदिति किम् ? गुणतुल्ये माभूत्। पुत्रेण तुल्यः स्थूलः॥

तत्र तस्येव।५।१।११६।

मथुरायामिव मथुरावत् स्रुग्घ्ने प्राकारः। चैत्रस्येव चैत्रवन्मैत्रस्य गावः ॥

तस्य भावस्त्वतलौ।५।१।११९।

प्रकृतिजन्यबोधे प्रकारो भावः। गोर्भावो गोत्वम्। गोता । त्वान्तं क्लीबम् ॥

आ च त्वात्।५।१।१२०।

ब्रह्मणस्त्व इत्यतः प्राक् त्वतलावधिक्रियेते । अपवादैः सह समावेशार्थमिदम्। चकारो नञ्स्नञ्भ्यामपि समावेशार्थः। स्त्रियाभावः– स्त्रैणम्। स्त्रीत्वम्। स्त्रीता। पौंस्नम्। पुंस्त्वम् । पुंस्ता ॥

पृथ्वादिभ्य इमनिज्वा।५।१।१२२।

वावचनमणादिसमावेशार्थम् ॥

र ऋतो हलादेर्लघोः।६।४।१६१।

हलादेर्लघोर्ऋकारस्य रः स्यादिष्ठेयस्सु परतः । पृथुमृदुभृशकृशदृढपरिवृढानामेव रत्वम् ॥

टेः।६।४।१५५।

भस्य टेर्लोप इष्ठेमेयस्सु। पृथोर्भावः प्रथिमा–

इगन्ताच्च लघुपूर्वात् ।५।१।१३१।

इगन्ताल्लघुपूर्वात् प्रातिपदिकाद्भावेऽण् प्रत्ययः । पार्थवम्।  म्रदिमा, मार्दवम् ॥

वर्णदृढादिभ्यः ष्यञ्च।५।१।१२३।

चादिमनिच्। शौक्ल्यम्। शुक्लिमा। दार्ढ्यम् । द्रढिमा ॥

गुणवचनब्राह्मणादिभ्यः कर्मणि च।५।१।१२४।

चाद्भावे । जडस्य भावः कर्म वा जाड्यम्। मूढस्य भावः कर्म वा मौढ्यम्। ब्राह्मण्यम्। आकृतिगणोऽयम् ॥

सख्युर्यः।५।१।१।२६।

सख्युर्भावः कर्म वा सख्यम् ॥

कपिज्ञात्योर्ढक्।५।१।१२७।

कापेयम् । ज्ञातेयम् ॥

पत्यन्तपुरोहितादिभ्यो यक्।५।१।१२८।

सैनापत्यम् । पौरोहित्यम् ॥

॥इति त्वतलोरधिकारः॥

 

अथ भवनाद्यर्थकाः

धान्यानां भवने क्षेत्रे खञ्।५।२।१।

भवत्यस्मिन्निति भवनम् । मुद्गानां भवनं क्षेत्रं मौद्गीनम् ॥

व्रीहिशाल्योर्ढक्।५।२।२।

व्रैहेयम् । शालेयम् ॥

हैयङ्गवीनं संज्ञायाम्।५।२।२३।

ह्योगोदोहशब्दस्य हियङ्गुरादेशः विकारार्थे खञ्च निपात्यते । दुह्यत इति दोहः क्षीरम् । ह्योगोदोहस्य विकारः – हैयङ्गवीनं नवनीतम् ॥

तदस्य संजातं तारकादिभ्य इतच्।५।२।३६।

तारकाः संजाता अस्य तारकितं नभः। पण्डितः। आकृतिगणोऽम् ॥

प्रमाणे द्वयसज्दघ्नञ्मात्रचः।५।२।३७।

तदस्येत्यनुवर्तते । ऊरू प्रमाणमस्य– ऊरुद्वयसम्। ऊरुदघ्नम् । ऊरुमात्रम् ॥

यत्तदेतेभ्यः परिमाणे वतुप्।५।२।३९।

यत्परिमाणमस्य यावान्। तावान् । एतावान् ॥

किमिदंभ्यां वो घः ।५।२।४०।

आभ्यां वतुप् स्याद् वकारस्य घश्च ॥

इदंकिमोरीश्की ।६।३।९०

दृग्दृशवतुषु इदम ईश् किमः की स्यात् । कियान् । इयान् ॥

संख्याया अवयवे तयप्।५।२।४२।

पञ्च अवयवा अस्य पञ्चतयम् ॥

द्वित्रिभ्यां तयस्यायज्वा।५।२।४३।

द्वयम्। द्वितयम्। त्रयम् । त्रितयम् ॥

उभादुदात्तो नित्यम्।५।२।४४।

उभशब्दात्तयपोऽयच् स्यात् स चाद्युदात्तः । उभयम् ॥

तस्य पूरणे डट्।५।२।४८।

एकादशानां पूरणः एकादशः ॥

नान्तादसंख्यादेर्मट्।५।२।४९।

डटो मडागमः। पञ्चानां पूरणः पञ्चमः। नान्तात्किम् ? विंशः॥

ति विंशतेर्डिति।६।४।१४२।

विंशतेर्भस्य तिशब्दस्य लोपो डिति परे। विंशः। असंख्यादेःकिम् ? एकादशः ॥

षट्कतिकतिपयचतुरां थुक्।५।२।५१।

एषां थुगागमः स्याड्डटि । षण्णां पूरणः षष्ठः। कतिथः । कतिपयशब्दस्यासंख्यात्वेऽप्यत एवज्ञापकाड्डट् कतिपयथः । चतुर्थः ॥

द्वेस्तीयः।५।२।५४।

डटोऽपवादः । द्वयोः पूरणो द्वितीयः ॥

त्रेः संप्रसारणं च।५।२।५५।

तृतीयः ॥

श्रोत्रियंश्छन्दोऽधीते।५।२।८४।

श्रोत्रियः । वेत्यनुवृत्तेश्छान्दसः ॥

पूर्वादिनिः।५।२।८६।

पूर्वं ज्ञातमनेन पूर्वी ॥

सपूर्वाच्च।५।२।८७।

कृतपूर्वी ॥

इष्टादिभ्यश्च।५।२।८८।

इष्टमनेन इष्टी। अधीती ॥

॥ इति भवनाद्यर्थकाः ॥

 

अथ मत्वर्थीयाः

तदस्यास्त्यस्मिन्निति मतुप्।५।२।९४।

गावोऽस्यास्मिन्वा सन्ति गोमान् ॥

तसौ मत्वर्थे।१।४।१९।

तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे । गरुत्मान् । वसोः संप्रसारणम्। विदुष्मान्। (गुणवचनेभ्यो मतुपो लुगिष्टः) । शुक्लो गुणोऽस्यास्तीति शुक्लः पटः । कृष्णः ॥

प्राणिस्थादातो लजन्यतरस्याम्।५।२।९६।

चूडालः। चूडावान्। प्राणिस्थात्किम् ? शिखावान् दीपः।प्राण्यङ्गादेव। मेधावान् ॥

लोमादिपामादिपिच्छादिभ्यः शनेलचः।५।२।१००।

लोमादिभ्यः शः। लोमशः। लोमवान्। रोमशः । रोमवान् । पामादिभ्यो नः। पामनः। (ग.सू.) अङ्गात्कल्याणे । अङ्गना । (ग.सू.) लक्ष्म्या अच्च। लक्ष्मणः। पिच्छादिभ्य इलच्। पिच्छिलः। पिच्छवान् ॥

दन्त उन्नत उरच्।५।२।१०६।

उन्नता दन्ताःसन्त्यस्य दन्तुरः ॥

केशाद्वोऽन्यतरस्याम्।५।२।१०९।

केशवः। केशी । केशिकः ।  केशवान् । (अन्येभ्योऽपि दृश्यते) । मणिवः। (अर्णसो लोपश्च) । अर्णवः ॥

अत इनिठनौ।५।२।११५।

दण्डी । दण्डिकः ॥

व्रीह्यादिभ्यश्च।५।२।११६।

व्रीही । व्रीहिकः ॥

अस्मायामेधास्रजो विनिः।५।२।१२१।

यशस्वी। यशस्वान्। मायावी। मेधावी । स्रग्वी ॥

वाचो ग्मिनिः।५।२।१२४।

वाग्मी ॥

अर्श आदिभ्योऽच्।५।२।१२७।

अर्शोऽस्य विद्यते अर्शसः । आकृतिगणोऽयम् ॥

अहंशुभमोर्युस् ।५।२।१४०।

अहंयुः अहङ्कारवान् । शुभंयुस्तु शुभान्वितः ॥

॥इति मत्वर्थीयाः॥

 

अथ प्राग्दिशीयाः

प्राग्दिशो विभक्तिः।५।३।१।

दिक्छब्देभ्य इत्यतः प्राग्वक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः ॥

किंसर्वनामबहुभ्योऽद्व्यादिभ्यः।५।३।२।

किमः सर्वनाम्नो बहुशब्दाच्चेति प्राग्दिशोऽधिक्रियते ॥

पञ्चम्यास्तसिल्।५।३।७।

पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् वा स्यात् ॥

कु तिहोः।७।२।१०४।

किमः कु स्यात्तादौ हादौ च विभक्तौ परतः । कुतः, कस्मात्॥

इदम इश्।५।३।३।

प्राग्दिशीये परे । इतः ॥

अन् ।५।३।५।

एतदः प्राग्दिशीये । अनेकाल्त्वात्सर्वादेशः । अतः ।  अमुतः। यतः।ततः। बहुतः। द्व्यादेस्तु । द्वाभ्याम् ॥

पर्यभिभ्यां च।५।३।९।

आभ्यां तसिल् स्यात् । परितः। सर्वत इत्यर्थः। अभितः । उभयत इत्यर्थः ॥

सप्तम्यास्त्रल्।५।३।१०।

कुत्र। यत्र। बहुत्र ॥

इदमो हः।५।३।११।

त्रलोऽपवादः । इह ॥

किमोऽत्।५।३।१२।

वाग्रहणमपकृष्यते । सप्तम्यन्तात्किमोऽद्वा स्यात् पक्षे त्रल् ॥

क्वाति।७।२।१०५।

किमः। क्वादेशः स्यादति । क्व । कुत्र ॥

इतराभ्योऽपि दृश्यन्ते।५।३।१४।

पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते। दृशिग्रहणाद्भवदादियोग एव। स भवान्। ततो भवान्। तत्र भवान्। ततोभवन्तम्। तत्र भवन्तम्। एवं दीर्घायुः, देवानां प्रियः, आयुष्मान् ॥

सर्वैकान्यकिंयत्तदः काले दा।५।३।१५।

सप्तम्यन्तेभ्यः कालार्थेभ्यः स्वार्थे दा स्यात् ॥

सर्वस्य सोऽन्यतरस्यां दि।५।३।६।

दादौ प्राग्दिशीये सर्वस्य सो वा स्यात् । सर्वस्मिन् काले सदा। सर्वदा। अन्यदा। कदा। यदा। तदा। काले किम्? सर्वत्र देशे ॥

इदमो र्हिल्।५।३।१६।

सप्तम्यन्तात् काल इत्येव ॥

एतेतौ रथोः।५।३।४।

इदम्शब्दस्य एत इत् इत्यादेशौ स्तो रेफादौ थकारादौ च प्राग्दिशीये परे।अस्मिन् काले एतर्हि। काले किम् ? इह देशे ॥

अनद्यतने र्हिलन्यतरस्याम्।५।३।२१।

कर्हि, कदा। यर्हि, यदा। तर्हि, तदा ॥

एतदः।५।३।५।

एत इत् एतौ स्तो रेफादौ थादौ च प्राग्दिशीये। एतस्मिन् काले एतर्हि ॥

प्रकारवचने थाल्।५।३।२३।

प्रकारवृत्तिभ्यः किमादिभ्यस्थाल् स्यात् स्वार्थे । तेन प्रकारेण तथा । यथा ॥

इदमस्थमुः।५।३।२४।

थालोऽपवादः। (एतदोऽपि वाच्यः) । अनेन एतेन वा प्रकारेण इत्थम् ॥

किमश्च।५।३।२५।

केन प्रकारेण कथम् ॥

॥ इति प्राग्दिशीयाः ॥

 

अथ प्रागिवीयाः

अतिशायने तमबिष्ठनौ।५।३।५५।

अतिशयविशिष्टार्थवृत्तेः स्वार्थ एतौ स्तः। अयमेषामतिशयेनाढ्यःआढ्यतमः। लघुतमः, लघिष्ठः ॥

तिङश्च।५।३।५६।

तिङन्तादतिशये द्योत्ये तमप् स्यात् ॥

तरप्तमपौ घः।१।१।२२।

एतौ घसंज्ञौ स्तः ॥

किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे।५।४।११।

किम एदन्तात्तिङोऽव्ययाच्च यो घस्तदन्तादामुः स्यान्न तुद्रव्यप्रकर्षे । किन्तमाम्। प्राह्णेतमाम् । पचतितमाम्। उच्चैस्तमाम्। द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः ॥

द्विवचनविभज्योपपदे तरबीयसुनौ।५।३।५७।

द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः। पूर्वयोरपवादः। अयमनयोरतिशयेन लघुः लघुतरो लघीयान्।उदिच्याः प्राच्येभ्यः पटुतराः पटीयांसः ॥

प्रशस्यस्य श्रः।५।३।६०।

अस्य श्रादेशः स्यादजाद्योः परतः ॥

प्रकृत्यैकाच्।६।४।१६३।

इष्ठादिष्वेकाच् प्रकृत्या स्यात् । श्रेष्ठः, श्रेयान् ॥

ज्य च।५।३।६१।

प्रशस्यस्य ज्यादेशःस्यादिष्ठेयसोः । ज्येष्ठः ॥

ज्यादादीयसः।६।४।१६०।

आदेः परस्य । ज्यायान् ॥

बहोर्लोपो भू च बहोः।६।४।१५८।

बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः। भूमा। भूयान् ॥

इष्ठस्य यिट् च।६।४।१५९।

बहोः परस्य इष्ठस्य लोपः स्याद् यिडागमश्च । भूयिष्ठः ॥

विन्मतोर्लुक्।५।३।६५।

विनो मतुपश्च लुक् स्यादिष्ठेयसोः। अतिशयेन स्रग्वी स्रजिष्ठः। स्रजीयान्। अतिशयेनत्वग्वान्त्वचिष्ठः । त्वचीयान् ॥

ईषदसमाप्तौ कल्पब्देश्यदेशीयरः।५।३।६७।

ईषदूनो विद्वान्। विद्वत्कल्पः। विद्वद्देश्यः। विद्वद्देशीयः। पचतिकल्पम् ॥

विभाषा सुपो बहुच् पुरस्तात्तु।५।३।६८।

ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताद्बहुज्वा स्यात्स च प्रागेव न तु परतः । ईषदूनः पटुर्बहुपटुः। पटुकल्पः। सुपः किम्?जयतिकल्पम् ॥

प्रागिवात्कः ।५।३।७०।

इवे प्रतिकृतावित्यतः प्राक्काधिकारः ॥

अव्ययसर्वनाम्नामकच् प्राक् टेः।५।३।७१।

कापवादः। तिङ्श्चेत्यनुवर्तते ॥

अज्ञाते।५।३।७३।

कस्यायमश्वोऽश्वकः। उच्चकैः। नीचकैः। सर्वके । (ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच्, अन्यत्र सुबन्तस्य) । युष्मकाभिः । युवकयोः । त्वयका ॥

कुत्सिते।५।३।७४।

कुत्सितोऽश्वोऽश्वकः ॥

किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच्।५।३।९२।

अनयोः कतरो वैष्णवः। यतरः। ततरः ॥

वा बहूनां जातिपरिप्रश्ने डतमच्।५।३।९३।

जातिपरिप्रश्न इति प्रत्याख्यातमाकरे। बहूनां मध्ये एकस्य निर्धारणे डतमज्वा स्यात् । कतमो भवतां कठः।यतमः। ततमः। वाग्रहणमकजर्थम्। यकः । सकः ॥

॥ इति प्रागिवीयाः॥

 

अथ स्वार्थिकाः

इवे प्रतिकृतौ।५।३।९६।

कन् स्यात्। अश्व इव प्रतिकृतिरश्वकः । (सर्वप्रातिपदिकेभ्यः स्वार्थे कन्) । अश्वकः ॥

तत्प्रकृतवचने मयट्।५।४।२१।

प्राचुर्येण प्रस्तुतं प्रकृतम्, तस्य वचनं प्रतिपादनम्। भावेऽधिकरणेवा ल्युट्। आद्ये प्रकृतमन्नमन्नमयम्। अपूपमयम्। द्वितीये तुअन्नमयो यज्ञः । अपूपमयं पर्व ॥

प्रज्ञादिभ्यश्च।५।४।३८।

अण् स्यात्। प्रज्ञ एव प्राज्ञः। प्राज्ञी स्त्री । दैवतः। बान्धवः ॥

बह्वल्पार्थाच्छस्कारकादन्यतरस्याम्।५।४।४२।

बहूनि ददाति बहुशः। अल्पशः। (आद्यादिभ्यस्तसेरुपसंख्यानम्) । आदौ आदितः। मध्यतः।अन्ततः। पृष्ठतः। पार्श्वतः। आकृतिगणोऽयम्। स्वरेण, स्वरतः। वर्णतः ॥

कृभ्वस्तियोगे संपद्यकर्तरि च्विः।५।४।५०।

(अभूततद्भाव इति वक्तव्यम्) । विकारात्मतां प्राप्नुवत्यां प्रकृतौवर्तमानाद्विकारशब्दात् स्वार्थे च्विर्वा स्यात्करोत्यादिभिर्योगे ॥

अस्य च्वौ।७।४।३२।

अवर्णस्य ईत्स्यात् च्वौ । वेर्लोपे च्व्यन्तत्वादव्ययत्वम् । अकृष्णः कृष्णः संपद्यते तं करोतिकृष्णीकरोति। ब्रह्मीभवति। गङ्गीस्यात्। (अव्ययस्य च्वावीत्वं नेति वाच्यम्) । दोषाभूतमहः। दिवाभूता रात्रिः ॥

विभाषा साति कार्त्स्न्ये ।५।४।५२।

च्विविषये सातिर्वा स्यात्साकल्ये ॥

सात्पदाद्योः।८।३।१११।

सस्य षत्वं न स्यात् । कृत्स्नं शस्त्रमग्निः संपद्यतेऽग्निसाद्भवति  । दधि सिञ्चति ॥

च्वौ च।७।४।२६।

च्वौ परे पूर्वस्य दीर्घः स्यात् । अग्नीभवति ॥

अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच्।५।४।५७।

द्व्यजेवावरं न्यूनं न तु ततो न्यूनमनेकाजिति यावत्। तादृशमर्धंयस्य तस्माड्डाच् स्यात् कृभ्वस्तिभिर्योगे। (डाचि विवक्षिते द्वे बहुलम्) । इति डाचि विवक्षिते द्वित्वम्। (नित्यमाम्रेडिते डाचीति वक्तव्यम्) । डाच्परं यदाम्रेडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररूपं स्यात्। इति तकारपकारयोः पकारः।पटपटाकरोति। अव्यक्तानुकरणात्किम्?ईषत्करोति। द्व्यजवरार्धात्किम् ? श्रत्करोति। अवरेति किम् ? खरटखरटाकरोति।अनितौ किम् ? पटिति करोति ॥

॥ इति स्वार्थिकाः ॥

॥ इति तद्धिताः ॥

 

अथ स्त्रीप्रत्ययाः

स्त्रियाम् ।४।१।३।

अधिकारोऽयम् । समर्थानामिति यावत् ॥

अजाद्यतष्टाप्।४।१।४।

अजादीनामकारान्तस्य च वाच्यं यत् स्त्रीत्वं तत्र द्योत्ये टाप्स्यात्। अजा। एडका। अश्वा। चटका। मूषिका। बाला।वत्सा। होडा। मन्दा। विलाता। इत्यादि। मेधा । गङ्गा। सर्वा ॥

उगितश्च।४।१।६।

उगिदन्तात्प्रातिपदिकात्स्त्रियां ङीप्स्यात् । भवती। भवन्ती। पचन्ती । दीव्यन्ती ॥

टिड्ढाणञ्-द्वयसज्-दघ्नञ्-मात्रच्-तयप्-ठक्-ठञ्-कञ्-क्वरपः ।४।१।१५।

अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं ततः स्त्रियां ङीप्स्यात् । कुरुचरी। नदट् नदी। देवट् देवी। सौपर्णेयी। ऐन्द्री।औत्सी। ऊरुद्वयसी। उरुदध्नी। उरुमात्री। पञ्चतयी। आक्षिकी।लावणिकी। यादृशी । इत्वरी। (नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानम्) । स्त्रैणी। पौंस्नी।शाक्तीकी। याष्टीकी । आढ्यङ्करणी। तरुणी । तलुनी ॥

यञश्च।४।१।१६।

यञन्तात् स्त्रियां ङीप्स्यात् । अकारलोपे कृते –

हलस्तद्धितस्य।६।४।१५०।

हलः परस्य तद्धितयकारस्योपधाभूतस्य लोप ईति परे । गार्गी ॥

प्राचां ष्फ तद्धितः।४।१।१७।

यञन्तात् ष्फो वा स्यात्स च तद्धितः ॥

षिद्गौरादिभ्यश्च।४।१।४१।

षिद्भ्यो गौरादिभ्यश्च स्त्रियां ङीष् स्यात्। गार्ग्यायणी। नर्तकी। गौरी। अनडुही। अनड्वाही । आकृतिगणोऽयम्॥

वयसि प्रथमे।४।१।२०।

प्रथमवयोवाचिनोऽदन्तात् स्त्रियां ङीप्स्यात् । कुमारी ॥

द्विगोः।४।१।२१।

अदन्ताद् द्विगोर्ङीप्स्यात् । त्रिलोकी। अजादित्वात्त्रिफला । त्र्यनीका सेना ॥

वर्णादनुदात्तात्तोपधात्तो नः।४।१।३९।

वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा ङीप् तकारस्य नकारादेशश्च । एनी, एता । रोहिणी,  रोहिता ॥

वोतो गुणवचनात्।४।१।४४।

उदन्ताद् गुणवाचिनो वा ङीष् स्यात् । मृद्वी, मृदुः ॥

बह्वादिभ्यश्च।४।१।४५।

एभ्यो वा ङीष् स्यात् । बह्वी, बहुः। (कृदिकारादक्तिनः) । रात्री, रात्रिः। (सर्वतोऽक्तिन्नर्थादित्येके) । शकटी । शकटिः ॥

पुंयोगादाख्यायाम्।४।१।४८।

या पुमाख्या पुंयोगात् स्त्रियां वर्तते ततो ङीष्। गोपस्य स्त्री गोपी । (पालकान्तान्न) –

प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः।७।३।४४।

प्रत्ययस्थात्कात्पूर्वस्याकारस्येकारः स्यादापि स आप्सुपःपरो न चेत्। गोपालिका। अश्वपालिका।सर्विका। कारिका। अतः किम् ? नौका। प्रत्ययस्थात्किम् ? शक्नोतीति शका। असुपः किम् ? बहुपरिव्राजका नगरी। (सूर्याद्देवतायां चाब्वाच्यः) । सूर्यस्य स्त्री देवता सूर्या । देवतायां किम् ? (सूर्यागस्त्ययोश्छे च ङ्यां च) । यलोपः। सूरी– कुन्ती, मानुषीयम् ॥

इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक्।४।१।४९।

एषामानुगागमः स्यात् ङीष् च। इन्द्रस्य स्त्री –इन्द्राणी। वरुणानी। भवानी। शर्वाणी।रुद्राणी। मृडानी। (हिमारण्ययोर्महत्त्वे) । महद्धिमं हिमानी। महदरण्यमरण्यानी। (यवाद्दोषे) । दुष्टो यवो यवानी। (यवन्नाल्लिप्याम्) । यवनानां लिपिर्यवनानी। (मातुलोपाध्याययोरानुग्वा) । मातुलानी, मातुली। उपाध्यायानी,

उपाध्यायी। (आचार्यादणत्वं च) । आचार्यस्य स्त्री आचार्यानी । (अर्यक्षत्रियाभ्यां वा स्वार्थे), अर्याणी, अर्या। क्षत्रियाणी, क्षत्रिया ॥

क्रीतात्करणपूर्वात्।४।१।५०।

क्रीतान्ताददन्तात् करणादेः स्त्रियां ङीष् स्यात् । वस्त्रक्रीती। क्वचिन्न । धनक्रीता ॥

स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्।४।१।५४।

असंयोगोपधमुपसर्जनं यत् स्वाङ्गं तदन्ताददन्तान् ङीष् वा स्यात् । केशानतिक्रान्ता–अतिकेशी, अतिकेशा। चन्द्रमुखी। चन्द्रमुखा। असंयोगोपधात्किम् ? सुगुल्फा। उपसर्जनात्किम् ?शिखा ॥

न क्रोडादिबह्वचः।४।१।५६।

क्रोडादेर्बह्वचश्च स्वाङ्गान्न ङीष्। कल्याणक्रोडा। आकृतिगणोऽयम्। सुजघना ॥

नखमुखात्संज्ञायाम्।४।१।५८।

न ङीष् ॥

पूर्वपदात्संज्ञायामगः।८।४।३।

पूर्वपदस्थान्निमित्तात्परस्य नस्य णः स्यात् संज्ञायां न तु गकारव्यवधाने। शूर्पणखा। गौरमुखा। संज्ञायां किम् ? ताम्रमुखी कन्या ॥

जातेरस्त्रीविषयादयोपधात्।४।१।६३।

जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततःस्त्रियां ङीष् स्यात् । तटी।वृषली। कठी। बह्वृची। जातेः किम् ? मुण्डा। अस्त्रीविषयात्किम् ? बलाका । अयोपधात्किम् ? क्षत्रिया। (योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः) । हयी । गवयी।मुकयी। हलस्तद्धितस्येति यलोपः। मनुषी। (मत्स्यस्य ङ्यां) । यलोपः । मत्सी ॥

इतो मनुष्यजातेः।४।१।६५।

ङीष्। दाक्षी ॥

ऊङुतः।४।१।६६।

उदन्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूङ् स्यात् । कुरूः। अयोपधात्किम् ? अध्वर्युर्ब्राह्मणी ॥

पङ्गोश्च।४।१।६८।

पङ्गूः। (श्वशुरस्योकाराकारलोपश्च) । श्वश्रूः ॥

ऊरूत्तरपदादौपम्ये।४।१।६९।

उपमानवाचिपूर्वपदमूरूत्तरपदं यत्प्रातिपदिकं तस्मादूङ् स्यात् । करभोरूः ॥

संहितशफलक्षणवामादेश्च।४।१।७०।

अनौपम्यार्थं सूत्रम्। संहितोरूः। शफोरूः। लक्षणोरूः । वामोरूः ॥

शार्ङ्गरवाद्यञो ङीन्।४।१।७३।

शार्ङ्गरवादेरञो योऽकारस्तदन्ताच्च जातिवाचिनो ङीन् स्यात् । शार्ङ्गरवी।वैदी। ब्राह्मणी। (नृनरयोर्वृद्धिश्च) । नारी ॥

यूनस्तिः।४।१।७७।

युवञ्छब्दात् स्त्रियां तिः प्रत्ययः स्यात् । युवतिः ॥

॥इति स्त्रीप्रत्ययाः॥

शास्त्रान्तरे प्रविष्टानां बालानां चोपकारिका।

कृता वरदराजेन लघुसिद्धान्तकौमुदी॥

॥ इति श्रीवरदराजकृता लघुसिद्धान्तकौमुदी समाप्ता॥

🌸संस्कृत प्रतिभा खोज – प्रतियोगिता एवं प्रोत्साहन वृत्ति🌸

उत्तर प्रदेश संस्कृत संस्थान द्वारा कक्षा 6 से 12 (प्रथमा से उत्तर मध्यमा) के छात्रों के लिए श्लोकान्त्याक्षरी तथा अष्टाध्यायी, अमरकोश, तर्कसंग्रह और लघुसिद्धान्तकौमुदी कण्ठस्थपाठ प्रतियोगिताएँ आयोजित की जाती हैं। इन प्रतियोगिताओं में प्रतिभाग करने वाले छात्रों को उनकी उपलब्धियों के आधार पर आकर्षक पुरस्कार और प्रोत्साहन वृत्तियाँ प्रदान की जाती हैं। प्रथम स्थान पाने वाले को ₹11,000/-, द्वितीय स्थान को ₹7,000/-, तृतीय स्थान को ₹5,000/- तथा सान्त्वना (कुल 3) को ₹3,000/- प्रदान किए जाते हैं। इसके अतिरिक्त प्रत्येक प्रतियोगिता के 20 प्रतिभागियों को अंक वरीयता के आधार पर ₹5,000/- की संस्कृत अध्ययन प्रोत्साहन वृत्ति दी जाती है। अष्टाध्यायी, अमरकोश, तर्कसंग्रह एवं लघुसिद्धान्तकौमुदी कण्ठस्थपाठ प्रतियोगिता हेतु वर्ष में दो बार तथा श्लोकान्त्याक्षरी प्रतियोगिता हेतु वर्ष में एक बार ऑनलाइन अर्हता परीक्षा आयोजित की जाती है। अर्हता परीक्षा में सफल हुए श्लोकान्त्याक्षरी के प्रतिभागियों को मंडल की प्रतियोगिता में तथा कण्ठस्थपाठ की प्रत्येक प्रतियोगिता के 36 प्रतिभागियों को राज्यस्तरीय प्रतियोगिता हेतु आमंत्रित किया जाता है। आप भी इस प्रतियोगिता में भाग लेकर पुरस्कार राशि अथवा संस्कृत अध्ययन प्रोत्साहन वृत्ति प्राप्त कर सकते हैं।

FAQs
  • प्रतियोगिता से सम्बन्धित प्रश्न
  • आवेदन से सम्बन्धित प्रश्न
  • अर्हता परीक्षा से सम्बन्धित प्रश्न
  • पुरस्कार तथा यात्रा व्यय से सम्बन्धित प्रश्न
  • वेब पोर्टल से सम्बन्धित प्रश्न
Total Visitors


Last Updates :
कार्यालय सम्पर्क

उत्तर प्रदेश संस्कृत संस्थानम्
संस्कृत भवनम्, न्यू-हैदराबाद,
लखनऊ - 226007
Mob: +91 8979041381
Email: upsanskritpratibhakhoj@gmail.com

© Uttar Pradesh Sanskrit Sansthan | All Rights Reserved